मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
ख. ६ अ. ३८ पान १०८
महामुने। तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥१८॥ पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः। साक्षाच्छक्ति-
रियं भ्रांता सुतं जानाति विघ्नरपम् ॥१९॥ गणेशकवचं तस्मै ददौ शंभुसुताय सः। तं प्रणम्य च संस्तूय ययौ स्वस्याश्रमं
मुनिः ॥२०॥ तथापि दैत्यराजान् स तं हंतुं नित्यमागतान्। नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥२१॥ एकदा पार्वती
प्रातः समुत्थाय शिवे रता। मूर्तिं लिंगमयीं कृत्वा वामहस्ते दधार ताम् ॥२२॥ आवाह्य शंकरं तस्यां पूजने संरताऽभवत् ।
एतस्मिन्नंतरे तत्र गुणेशोऽभवदुत्थितः ॥२३॥ स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत्। पूजयित्वा महेशानं
दास्यामि स्तनपानकम् ॥२४॥ ततस्तां स जगादैव किमर्थं पूजने रता। मां त्यक्त्वा तेऽधिकं देवि ददते शंकरः कुतः ॥२५॥
स्तन्यं देहि च मे मातस्तत्रानंतशिवादयः । संतुष्टाः प्रभविष्यंति ब्रह्माणि शैलनंदिनि ॥२६॥ तथापि हास्यसंयुक्ता
न ददौ स्तनपानकम्। ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥२७॥ तलाघातेन देव्याः स हस्तस्थं शिवलिंगकम् ।
पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥२८॥ ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः। जघान तलघातेन महा-
क्रोधवती परम् ॥२९॥ ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम्। ददंशांगुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥३०॥
हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः। भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥३१॥ दृष्ट्वा रुरोदातिदुःख-
संयुक्ता शंकरप्रिया । प्राणप्रतिष्ठया युक्तं भग्नं लिंगं शिवस्य च ॥३२॥ शिवहत्यासमं पापं मया प्राप्तं न संशयः।
अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥३३॥ अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः। वंध्याहं चेत्तदा दैवं धन्यं मे
नात्र संशयः ॥३४॥ अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् । देहत्यागं करिष्यामि विघ्नराज नमोऽस्तु ते ॥३५॥
गणेशस्मरणेनैव बुद्धिभेदो बभूव ह। ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥३६॥ यष्टिहस्ता ययौ देवी हंतुं पुत्रं परात्परम्।
पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥३७॥ सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया। मायां चकार विघ्नेशः
शिवरूपो बभूव ह ॥३८॥ मोहिना शंकरं देवी मायया दृश्य दुःखिता । किमर्थं यष्टिहस्ताऽहं महेशं हंतुमुद्यता ॥३९॥
त्यक्त्वा तं दुःखिताऽत्यंतं देहत्यागे समुद्यता। बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥४०॥ पलं तं भयसंयुक्तं देवी हंतुं
समुद्यता। ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥४१॥ एतस्मिन्नंतरे तत्र दैत्यः कर्दमसंज्ञितः। शैवो द्विजस्वरूपेण
बालं जगाद चागतः ॥४२॥ किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः। यत्र माता न जानाति तत्र तस्मात् स्थिरो भव
खं. ६ अ. ३८ पान १०९
॥४३॥ तथेति बालभावेन गुणेशेन कृतं वचः । बालं जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥४४॥ अहो सिंधोर्महाशत्रुर्मया
संभक्षितोऽभवत् । सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥४५॥ एतस्मिन्नंतरे तत्र जगदंबा तमाययौ । शैवं द्विजं
प्रहस्यैव प्रणनाम जगाद च ॥४६॥ पार्वत्युवाच । स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ । त्वदीये नात्र संदेहः पादं
पश्यामि नो पुरः ॥४७॥ पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् । परश्वादिकचिह्नेन वद सत्यं महामते ॥४८॥ द्विज उवाच ।
न दृष्टः शैलजे पुत्रो मया तव न संशयः । शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥४९॥ ततोऽतिदुःखसंयुक्ता सस्मार
द्विरदाननम् । ततस्तस्य मुखांभोजान्निःसृतो गणनायकः ॥५०॥ निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः । स ममार
महादुष्टोऽष्टादशयोजनोऽभवत् ॥५१॥ ततः सा हर्षिताऽत्यंतं क्रोधहीना बभूव ह । पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगा-
ऽभवत् ॥५२॥ पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः । पुनः पुनः स जृंभां च चकार विकटाननः ॥५३॥ तं तादृशं
निरीक्ष्यैव पार्वती दुःखसंयुता । किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥५४॥ ततः सा तन्मुखे विश्वं ददर्श
भयसंकुला । अनंतांडसमायुक्तं पपात धरणीतले ॥५५॥ स्वगुरुं शंकरं सा तु सस्मार स्वेष्टदेवकम् । गणेशं तेन मोहेन
हीना बभूव पार्वती ॥५६॥ विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् । तं त्यक्त्वा लिंगसेवायां निरता मूर्खवत् किल ॥५७॥
पतिभावेन देवेशं शंकरं देहधारिणम् । भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥५८॥ स्तनपानं गणेशाय न दत्तं
मूढभावतः । अनंता वै मया यत्र संस्थिताः शंकरादयः ॥५९॥ तेन तुष्टेन सर्वे ते संतुष्टाः संभवंति च । गणेशो ब्रह्मणां
नाथः सोऽपि संतुष्ट एव वै ॥६०॥ अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ । गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम्
॥६१॥ अतः परं गणेशानं पुत्रभावेन चागतम् । सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥६२॥ अयं पतिरयं तातो
माता पुत्रः सुहृत्तथा । देवो ब्रह्म न संदेहो गुणेशो मे सुशांतिदः ॥६३॥ एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् ।
तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकंधरा ॥६४॥ स्तुवंतीं तां समालोक्य गणेशो मोहमादधे । ततः संमोहिता देवी विस्मृतिं
परमां ययौ ॥६५॥ पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् । गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥६६॥ शक्तय ऊचुः ।
बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः । पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥६७॥ किमर्थमखिलं विश्वं नाना-
ब्रह्मांडसंयुतम् । शिवरूपं किमर्थं स दर्शयामास शक्तये ॥६८॥ दर्शयित्वा किमर्थं स लोपयामास तद्भवम् । ज्ञानं कुतूहलं
खं. ६ अ. ३९ पान ११०
चेदं वद संशयनाशनात् ॥ ६९॥ आदिशक्तिरुवाच । पुत्रभावमयी भक्तिग्रहणे लालसः सदा । वरदानप्रभावेण तपः-
फलप्रदोऽभवत् ॥७०॥ कार्यं कृत्वा सुरर्षीणामंतर्धानं करिष्यति । तदा ज्ञानस्य देव्यास्तु स्मरणं संभविष्यति ॥७१॥ गणेशः
पुत्रभावेनागतो मे नात्र संशयः । अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥७२॥ पुत्रवन्नरदेहस्थो गणेशो मे
त्वदर्शयत् । ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥७३॥ तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् । तदर्थं
गणराजोऽपि कौतुकं तत्र चाकरोत् ॥७४॥ एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः । शिवयोः सेवनं चक्रे
पुत्रभावप्रभावतः ॥७५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः । चिक्रीड बालमध्यस्थो बालवन्नात्र
संशयः ॥१॥ तेषां मुनिसुतानां स तिरस्कारादिकं कदा । असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥२॥ तेपुः ये सख्यभक्त्यर्थं
तपस्ते सततं नराः । सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥३॥ कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः । यज्ञः
सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥४॥ सुतो विनतया सोऽपि बोधितः प्रणनाम तम् । गणेशं याचते स्तुत्वा मयूरः स्म वरं
परम् ॥५॥ आदौ मयूरनाम्ना संयुक्तं नाम त्वदीयम् । भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥६॥ तथेत्यभून् मयूरेशो
नाम्ना सर्वत्र शक्तयः । सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥७॥ कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः ।
जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥८॥ पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् । ब्राह्मण्यः पतिभावेन
गणेशो भवतु प्रभुः ॥९॥ गणेशमंत्रसंयुक्ता नानाऽनुष्ठानतत्पराः । ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥१०॥ शेषवासुकि-
मुख्यैस्ता लालिताः परमादरात् । पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥११॥ गणेशं भावसंयुक्ता वृणीमहि
पतिं वरम् । नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥१२॥ तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः । ब्रह्मेशो
खं. ६ अ. ३९
पान १११
गणनाधस्तु स्वानंदस्थो बभूव ह ॥१३॥ स कथं भवतां पुत्र्यो भविष्यति पतिः परः। अभिमानं परित्यज्य समानं वृणुत
प्रभुम् ॥१४॥ तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः। जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥१५॥ पूर्वसंस्कारयोगेन
मयूरेशं जलस्थितम्। ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥१६॥ नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् । अत्रागतं
प्रगृह्यैव वृणीत वरमुत्तमम् ॥१७॥ स्वगृहे गणनार्थं ताः समानाय्य सुविह्वलाः । पूपुजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः
॥१८॥ ततः सोऽपि हृदा चक्रे ददौ योगं सुशांतिदम् । ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥१९॥ अकृत्रिमं सुखं
ताभ्यो ददौ भक्तिप्रभावतः । दिवानक्तं बुभुजिरे ह्यत्यंतं पौरुषं सुखम् ॥२०॥ एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् ।
मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥२१॥ एवं नानाविधान्येव चरित्राणि चकार ह । स सर्वं गौतमस्यान्नं बुभुजे
नादरेण च ॥२२॥ भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः । न करोति महादेव्यो दासदास्यपरायणः ॥२३॥
भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम्। अभक्तैः सादरतया स कृतं मन्यते विषम् ॥२४॥ तिरस्कारादिकं देव्यस्ताडनादिक-
मुत्तमम्। सौख्यदं गणनांथस्य बभूवे भक्तिमोहतः ॥२५॥ पार्वतीशिवमुरुख्यैश्चादितिकश्यपमुख्यकैः । तिरस्कृतस्ताडितः
सोऽमृतं मेने गजाननः ॥२६॥ भक्तस्य वचनार्थं स दैत्यमस्तकधारकः । स्वांगच्छेदकरश्चैव मलजोऽपि बभूव ह ॥२७॥
इत्यादि विविधं चैव नीचवद्गणनायकः। चकार कर्म भक्त्या संमोहितो मोहनाशनः ॥२८॥ ततो गौतममुख्याश्च गणेश-
मायया युताः । आययुः शंकरं देवं जगुस्तं मोहिता भृशम् ॥२९॥ गौतमाद्या ऊचुः। मयूरेशायुतः शंभो गच्छ त्वं यत्र ते
रुचिः। वयं पीडायुता नित्यं भवामो दैत्यसंगमात् ॥३०॥ नित्यं दैत्येंद्रमुख्यास्तं मयूरेशं समाययुः । प्रहता मायया
युक्ता मयूरेशेन तत्क्षणात् ॥३१॥ मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो । दश द्वादश पंचत्रिंशद्विंशतियोजनम् ॥३२॥
तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम्। भंजते नित्यमेवातोऽस्माकं किं करवामहै ॥३३॥ अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च
ते रुचिः। अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥३४॥ तेषां वचनमाकर्ण्य शिवश्चिंतातुरोऽवदत् । मुनीन् सर्वान्
महादेव्यो देवानां पालकः प्रभुः ॥३५॥ श्रीशिव उवाच । भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् । मदीयसंगदोषेण पीडिता
मुनयः परम् ॥३६॥ स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः । गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥३७॥
मयूरेशस्य विप्रेक्षा नित्यं दुःखादिकं परम् । दैत्येंद्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥३८॥ निर्विघ्नार्थं गणेशस्य स्थानं
खं. ६ अ. ३९ | पान ११२
ब्रूत महर्षयः। तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः॥३९॥ गौतमाद्या ऊचुः। क्षेत्रं दक्षिणभागे तु वैघ्रेशं सर्वसिद्धिदम्।
भूस्वानंदं वदंते तद्ब्रह्मसायुज्यदायकम् ॥४०॥ मूर्तिर्गणपतेस्तत्र सिंधुदूतैः प्रखंडिता । सिंधोश्च प्रतिमा दुष्टैः स्थापिता
हर्षसंयुतैः ॥४१॥ जनैस्त्यक्तं महादेव दैत्यसंत्रासतापितैः । तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥४२॥ तथेति
शंकरः सर्वैर्गणैर्विघ्नेशसंयुतः । निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥४३॥ एतस्मिन्नंतरे तत्र सिंधुना प्रेषितो
महान् । कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥४४॥ ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुक्तम् । महामायं च तं दृष्ट्वा
प्रपेलुर्मुनयस्ततः ॥४५॥ अहो शिवं परित्यज्य न स्थातुं शक्यते कदा । मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥४६॥
एवं विचार्य ते सर्वे पुनः शंकरमाययुः । जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥४७॥ मयूरेशेन संयुक्तो तिष्ठ नित्यं
महेश्वर । नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥४८॥ तेषां वचनमाकर्ण्य भयभीतः सदाशिवः । जगाद तान् वचो
रम्यं द्विजपालनकारकः ॥४९॥ श्रीशिव उवाच । कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः । समायातश्च तं जेतुं न क्षमोऽहं कदाचन
॥५०॥ अधुना मां समागृह्य कारागारे महाबलः । क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥५१॥ शिवस्य वचनं
श्रुत्वा मयूरेशस्तमब्रवीत् । मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥५२॥ त्वं साक्षाद्गणनाथस्य कलांशो भक्त-
नायकः । ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥५३॥ मरीचिना गणेशस्य कवचं मे महेश्वर । रक्षणार्थं प्रदत्तं तु न
भयं मे भविष्यति ॥५४॥ एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः । मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥५५॥
कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् । चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥५६॥ मस्तकं मयूरक्षेत्रे तदाकारं
बभूव ह । उदरं राजसदने प्रवाले जघनं तथा ॥५७॥ त्रिषु स्थानेषु दैत्येंद्रः पपात त्रिविधोऽभवन् । गणेश्वरश्चैव तेषु
संस्थितोऽभूत् प्रतापवान् ॥५८॥ शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ । क्षेत्रे मयूरसंज्ञे तु तत्रसंस्था बभूविरे ॥५९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥
[शीर्षक]
खं. ६ अ. ४० | पान ११३
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः । सिंधुं क्रोधसमायुक्तश्चूर्णयामास
तत्क्षणात् ॥१॥ ततोतिभयसंयुक्ता मुनयः शंकरादयः । किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥२॥ तत्रापि
मायया युक्ता दैत्येंद्राश्च समाययुः । हंतुं शिवसुतं नित्यं तान् जघान मयूरपः ॥३॥ ततो विघ्नविनाशार्थमिंद्रयज्ञं समारभत् ।
शांकरस्तं मयूरेशो बभंज क्रोधसंयुतः ॥४॥ तत इंद्रः सुरेशानैर्मयूरेशमयोधयत् । तं जित्वा गणराजस्तु स्वपुरस्थो बभूव
ह ॥५॥ शक्तय ऊचुः । कारागारे स्थिता देवाः सिंधोस्ते योद्धुमाययुः । कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥६॥ आदिशक्ति-
रुवाच । मेरुसंस्था महेशाना दैत्यैः संप्रधृताः पुरा । निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥७॥ तान् ग्रहीतुं न शक्ताश्च भवंते
केऽपि शक्तयः । तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥८॥ देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः । तथा
कर्ममया शास्त्रे देहरूपा न संशयः ॥९॥ दीव्यंति सर्वभावेषु तेन देवाः प्रकीर्तिताः । देवत्वं त्रिविधं तेषु ज्ञातव्यं
वेदवादिभिः ॥१०॥ शताश्वमेधयज्ञानां कर्तैंद्रो भवति प्रियाः । तिष्ठंति कर्मजा देवास्तादृशाः कांचनाचले ॥११॥
मंदारादिषु सर्वत्र नगराणि दिवौकसाम् । तान् जयंति समर्थाश्चासुरादयो न संशयः ॥१२॥ ब्रह्मणो दिवसांते ते मन्वंतर-
परायणाः । लयं गच्छंति यज्ञानां फलं भुक्त्वा न संशयः ॥१३॥ पुनर्जन्मधराः सर्वे भवंति नरजातिषु । कुर्वते यादृशं
कर्म लभंते तादृशं फलम् ॥१४॥ अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः । कुर्वते स्वाधिकारंश्च सदा कर्मपरा-
यणाः ॥१५॥ जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् । अधिकाराः समाख्याता यमस्य यातनादयः ॥१६॥ दैत्या धर्षयितुं
शक्तास्तान् भवंति न कर्मणा । सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदंति च ॥१७॥ योगबलेन योगीशास्तान् देवांश्चालयंति
च । नान्यबलेन देवेशाश्चलंति स्वाधिकारिणः ॥१८॥ ब्रह्मणो दिवसांते ते न मृत्युं देवसत्तमाः । लभंते वै निराधाराः कर्मरूपप्रधा-
रकाः ॥१९॥ महालये लयं देवा गच्छंत्यत्र न संशयः । सलोकपरिवारास्ते पुनर्देहधरा मताः ॥२०॥ मृत्युलोके नराः सर्वे
भवंते कर्मयंत्रिताः । यादृशं कुर्वते कर्म लभंते तादृशं फलम् ॥२१॥ तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः । ते
तत्त्वैर्विश्वमानंदाद्भावयंति चराचरम् ॥२२॥ उत्पत्तिस्थितिसंहारकर्तारः सर्वरूपकाः । ब्रह्माकारस्वभावेन तिष्ठंति जगदी-
श्वराः ॥२३॥ महाप्रलयवेलायां स्वविहारं समाप्य ते । योगनिद्रां प्रकुर्वंति योगाकारा विशेषतः ॥२४॥ पुनः क्रीडंति सृष्ट्वा
च ब्रह्मांडं देवनायकाः । न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥२५॥ योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः ।
यहाँ दिए गए पृष्ठ का संपूर्ण पाठ्य (अनुलेखन) प्रस्तुत है:
खं. ६ अ. ४० | पान ११४
वायुसाधनजश्चैकः प्राणायामेन लभ्यते ॥२६॥ तेन योगेन तत्त्वस्था देवास्तद्वशवर्तिनः । न भवंति कदा देव्यो ज्ञातव्यं
शास्त्रमार्गतः ॥२७॥ संप्रज्ञाताऽसंप्रज्ञातमयो योगः प्रकीर्तितः । द्वितीयो ब्रह्मभूताख्यो योगिभिः साध्यते सदा ॥२८॥
तेन योगबलेनैव तान् जयंति सुरान्नराः । साध्याः सर्वे भवंत्येव देवास्तद्वशवर्तिनः ॥२९॥ यं यमिच्छति योगींद्रस्तं तं
कुर्वंति देवपाः । प्रारब्धं चालयंत्येव योगिवश्यपरायणाः ॥३०॥ यदा तेषां विहारेषु संसक्ता योगिनोऽभवन् । योगभ्रष्टा
भवंत्येव जन्ममृत्युपरायणाः ॥३१॥ योगिनां योगभावेन भयं गच्छंति देवताः । तत्स्वरूपा न संदेहो ज्ञातव्यं वेद-
वादतः ॥३२॥ कर्मैकं त्रिविधस्थानामेकैकाश्रितरूपिणाम् । सेवनाद्रंजनात्तस्य द्वंद्वयुक्ता भवंन्ति ते ॥३३॥ अधुना प्रकृतं
देव्यः शृणुध्वं त्वेकचेतसः । अवतारचरित्रं तु विकटस्य महात्मनः ॥३४॥ प्रद्रष्टुं स कदाचित्तं विधिः क्षेत्रे मयूरके ।
समाययौ स तं दृष्ट्वा मोहयुक्तो बभूव ह ॥३५॥ विचारमकरोचित्ते शिवपुत्रोऽयमुच्यते । अस्मै न नमनं कार्यं मया
ज्येष्ठेन शक्तयः ॥३६॥ अयं गणेश्वरः साक्षात् कथितो नात्र संशयः । परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् ॥३७॥
एवं विचार्य ब्रह्मांडं शिवशक्तिसमन्वितम् । अंतर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः ॥३८॥ मयूरेशस्ततस्तच्च ज्ञात्वा
चराचरं जगत् । निर्ममे ब्रह्मदेवस्तं जगाम शरणं पुनः ॥३९॥ ततः श्वासेन विघ्नेशो ब्रह्माणं स्वोदरे नयत् । तत्रानंतांडकं
दृष्ट्वा बभ्राम यत्र तत्र सः ॥४०॥ गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना । बहिर्निःष्कासयामास मयूरेशो महा-
यशाः ॥४१॥ बहिरागत्य वेधाः स क्षणमेकं ददर्श ह । ततोऽतिविस्मितो भूत्वा पुनस्तं प्रणतोऽभवत् ॥४२॥ स्तुत्वा तं स
जगामैव स्वस्थलं हर्षसंयुतः । मयूरक्षेत्रे तदादि स्थिता ब्रह्मकमंडलुः ॥४३॥ एवं विधेर्मदं हत्वा चिक्रीड द्विजबालकैः ।
मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः ॥४४॥ ततः कदाचिद्भाद्री सा चतुर्थी शुक्लपक्षगा । समागता च तस्यां ते
मृण्मयीं चक्रुरादृताः ॥४५॥ स्वे स्वे गृहे तु सर्वे ते मुनयः शंकरादयः । गणा गणेश्वरं कृत्वा पूजयामासुरादरात् ॥४६॥
मयूरेशः स्वयं चक्रे मूर्तिं शुंडादिचिह्निताम् । संपूज्यानम्य तुष्टाव कृत्वा करपुटं पुरः ॥४७॥ मयूरेश उवाच । नमस्ते गण-
नाथाय सर्वविघ्नविदारिणे । भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥४८॥ ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने ।
अमेयमायया युक्ताय नमो ढुंढये नमः ॥४९॥ वक्रतुंडाय वक्राणां नाशकार परात्मने । लंबोदराय सर्वेषां जठरस्थाय ते
नमः ॥५०॥ चिंतामणिस্বরূপाय पंचचित्तप्रधारिणे । हेरंबाय परेशानां दीनानां बीजरूपिणे ॥५१॥ योगेशाय सदा शांति-
दात्रे शांतमयाय च । शांतीनां शांतिरूपाय गणेशाय नमो नमः ॥५२॥ ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते ।
ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥५३॥ अनादये च सर्वेषामादिरूपाय विघ्नप । विघ्नानां विघ्नरूपाय सर्वसत्ता-
त्मने नमः ॥५४॥ स्वानंदवासिने तुभ्यं संयोगायोगमूर्तये । सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥५५॥ महोद-
राय भीमाय पापिनां दंडधारिणे । स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥५६॥ मयूरवाहनायैव मयूरेश्वर ते नमः ।
आखुवाहाय सर्वेश परात्पराय वै नमः ॥५७॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । शिवादयो न संस्तोतुं
समर्था वेदमुख्यकाः ॥५८॥ रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् । यया माया न बाध्यते बुद्धीश ते नमो
नमः ॥५९॥ एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् । पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥६०॥ एवं शिवादयः सर्वे
पुपूजुर्गणनायकम् । मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥६१॥ एतस्मिन्नंतरे तत्र विश्वदेवो महायशाः । समाययौ च
तीर्थानि भ्रममाणो यदृच्छया ॥६२॥ एकनिष्ठतया सोऽपि नारायणपरायणः । पुपूज नित्यमानंदाच्छेषशायिनमादरात् ॥६३॥
अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः । गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥६४॥ पश्चाज्जलादिकं विप्रो
बुभुजे भक्तिसंयुतः । अत्यंतभक्तियोगेन गाणेशे योग्यतां गतः ॥६५॥ मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः । ज्ञानं
संछादयामास विश्वदेवस्य संस्मृतिम् ॥६६॥ विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः । अकारयत्तद्योगेशो विस्मृतं योग-
मायया ॥६७॥ आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् । अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥६८॥ अपोशनं
स कृत्वा च सस्मार शेषशायिनम् । महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥६९॥ ततस्तं गणराजस्तु खेदयुक्तं विशे-
षतः । दृष्ट्वा नारायणो भूत्वा सांत्वयामास भावतः ॥७०॥ चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः । मृन्मयैरुपचारैस्तां
दर्शयामास भक्तितः ॥७१॥ गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शांतिदम् । गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥७२॥
विश्वदेवो ययौ स्थानं स्वकीयं शांतिसंयुतः । एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥७३॥ एवं विस्मृतभावेन ज्ञान-
संछादनेन च । विष्णोः पराक्रमं हृत्वा चिक्रीड द्विजबालकैः ॥७४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥
Here is the complete line-by-line Devanagari transcription of the page:
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् । शिवं दृष्ट्वा मयूरेशो मायामाविश्च-
कार ह ॥१॥ समागत्य महेशानं तस्य भालस्थितं प्रभुः। चंद्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥२॥ मायया
मोहिताः सर्वे शिवमुख्या विशेषतः । न जानंति स्म देवेशं चंद्रतास्कर्यकारिणम् ॥३॥ ततः शिवः स्वभाले तं न ददर्श
निशाकरम् । क्रोधयुक्तो गणान् प्राह कथं चंद्रो गतो गणाः ॥४॥ ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् । चंद्रं गृह्य
मयूरेशः खेलत्यस्माभिरादरात् ॥५॥ ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् । बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य
सन्निधौ ॥६॥ ततो गणा ययुस्तं ते तेन निःश्वासवायुना । निक्षिप्ताः शंकरस्याग्रे शुष्कपत्रसमप्रभाः ॥७॥ एवं
क्रमेण सर्वान् स मयूरेशो गणेश्वरान् । भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥८॥ ततो मायां समाश्रित्य शिवभाले
निशाकरम् । मयूरेशः समागत्याऽऽस्थाप्य भ्रांतांश्चकार ह ॥९॥ स्वभालस्थं महेशानो दृष्ट्वा चंद्रं गणास्तथा। मेनिरे तं
सदा तत्र संस्थितं तं गतागतम् ॥१०॥ एवं शिवं पराधीनं कारयामास विघ्नपः। ततः कदाचिदैत्येंद्रं वनं हंतुं जगाम
ह ॥११॥ व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः । न तं जानंति विप्राणां सुताः शार्दूलरूपिणम् ॥१२॥ यत्र तत्र
भ्रमंति स्म बालास्तद्दर्शनोत्सुकाः । ते सर्वे सुष्वपुः श्रांता निद्रां लेभुः श्रमान्विताः ॥१३॥ पादं दक्षिणदिक्संस्थं
दृष्ट्वा तेषां च भानुजः। तान् गृह्य निगडैर्बद्ध्वा चिक्षेपे स्वपुरे यमः ॥१४॥ हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ ।
न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥१५॥ गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः । एवं नानाविधां क्रीडां
चकार मयूरध्वजः ॥१६॥ दशपंच वयोवर्षाण्यतिक्रम्य गणेश्वरः। शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥१७॥
अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् । उवाच शंकरं सोऽपि हर्षयुक्तेन चेतसा ॥१८॥ नारद उवाच ।
तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा । वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥१९॥ तदर्थं सदृशं ब्रह्मा नावाप
वरमुत्तमम् । मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥२०॥ तथेति तमुवाचाथ शंकरस्तेन संयुतः । मयूरेशं समागृह्य
निर्ययौ स गणः स्वयम् ॥२१॥
खं. ६ अ. ४१ पान ११७
मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥२५॥ त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः । बभूव तं स्वपुर्यां तु
समानाय्य पुपूज ह ॥ २६ ॥ कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् । देवान् देवेंद्रयुक्तांश्चापूजयद्भक्तिसंयुतः
॥२७॥ तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके । सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥२८॥ ते दृष्ट्वा कामसंतप्ता
देवेंद्रायश्च बभूविरे । देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥२९॥ अस्मभ्यो देहि देवेश कन्ये परमसंदरे ।
न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥३०॥ ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः। आभ्यां तस्मान् मयूरेशाय
दास्यामि मदात्मजे ॥३१॥ ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् । जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥३२॥
सिद्धिबुद्धी सुरेंद्रेषु वृणुतं वरमीप्सितम् । ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥३३॥ ततो मात्रां समागृह्य चिंतामणिं
प्रदश्य ते । सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥३४॥ मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः । तस्मै
समर्पयामास सिद्धिं बुद्धिं विधानतः ॥३५॥ ततः सर्वे प्रणेमुस्तं देवेंद्रादय आदरात् । सिंधोर्वधात् प्रहर्षेण युक्ताः
संपूज्य तुष्टुवुः ॥३६॥ देवर्षय ऊचुः । नमस्ते शिखिवाहय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो
नमः ॥३७॥ अनाथानां प्रणार्थाय गताहंकारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥३८॥ सर्वानंदप्रदात्रे
ते सदा स्वानंदवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥३९॥ अनादये परेशाय दैत्यदानवमर्दिने ।
विधर्मस्थस्वभावानां हन्त्रे विकट ते नमः ॥४०॥ शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । पार्वतीनंदनायैव स्कंदाग्रज
नमो नमः ॥४१॥ नानावताररूपैस्तु विश्वसंस्थाकराय ते । काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥४२॥ सिंधुहंत्रे
च हेरंबाय परशुधराय ते । देवदेवेश पालाय ब्रह्मणां पतये नमः ॥४३॥ योगेशाय सुशांतिभ्यः शांतिदात्रे कृपालवे ।
अनंताननबाहो तेऽनंतोदर नमो नमः ॥४४॥ अनंतविभवायैव चित्तवृत्तिप्रचालक । सर्वहृत्स्थाय सर्वेषां पूज्याय
ते नमो नमः ॥४५॥ सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः । गणानां पतये चैव सिद्धिवुद्धिवराय च ॥४६॥
किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो । योगिनः शांतिमापन्ना अतो नमामहे वयम् ॥४७॥ तेन तुष्टो भव स्वामिन् दयाघन
प्रवर्तक । त्वदीयांगसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥४८॥ एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् । वरान् वृणुत
देवेशा मुनिभिश्च समन्विताः ॥४९॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागा मम प्रीतिविवर्धनम्
॥ ५० ॥ यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् । भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥५१॥ मयूरेशवचः
श्रुत्वा देवाः सर्षिगणाश्च तम् । प्रत्यूचुस्ते प्रणम्येदं वचनं हर्षसंयुताः ॥५२॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरान् दास्यसि
विघ्नप । त्वदीयामचलां भक्तिं देहि नाथ नमोस्तु ते ॥५३॥ हतः सिंधुर्महावीर्यस्तेन सर्वे कृतार्थकाः । अधुना स्वाधिकारेषु
गमिष्यामस्त्वदाज्ञया ॥५४॥ तथेति तानुवाचाथ मयूरेशः प्रतापवान् । दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगाम
ह ॥५५॥ चक्रपाणिर्गणेशस्य पंचायतनमार्गतः । अभजत्तं मयूरेशमंते स्वानंदगोऽभवत् ॥५६॥ मयूरेशः समायातो
मयूरे सर्वसंयुतः । सर्वान् संस्थाप्य देवेशान् जगाद मुनिसत्तमान् ॥५७॥ यदर्थमागता देवास्तत् सर्वं सुकृतं मया ।
अधुना निजलोकेऽहं गमिष्यामि मुनीश्वराः ॥५८॥ एवमुक्त्वांतर्दधेऽसौ मयूरेशः स्वलीलया । देवर्षयश्च खेदेन
युक्तास्तत्रैव संस्थिताः ॥५९॥ पार्वतीशंकरौ तत्र मूर्च्छितौ स बभूवतुः । तयोर्हृदि मयूरेशः प्रकटोऽभूद् जगाद तौ
॥६०॥ भवतोर्हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः । न वियोगः कदा मे वां पितरौ नात्र संशयः ॥६१॥ बर्हिर्मूर्तिं
समास्थाप्यापूज्य तत्रैव भक्तितः । सेवेथां मां विशेषेण तेन तुष्टौ भविष्यथः ॥६२॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो
गणवल्लभः । ब्रह्मा मूर्तिं द्विजैस्तस्य स्थापयामास हर्षतः ॥६३॥ ततो हर्षयुताः सर्वे स्वांशेन स्वस्थलेषु ते । संस्थिताः
कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः ॥६४॥ पूर्णभावेन तत्रैव मयूरेशं सिषेविरे । क्षेत्रवासपराः सर्वे भक्तियुक्ताश्च शक्तयः
॥६५॥ विकटस्यावतारोऽयं मयूरेश्वरसंज्ञितः । भक्तानां कथितः सर्वसिद्धिदः प्रीतिवर्धनः ॥६६॥ यः पठेत् शृणुयाच्चेद्व्वा
स लभेदीप्सितं फलम् । अंते स्वानंदगो भूत्वा मोदते ब्रह्मतत्परः ॥६७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥
खं. ६ अ. ४२ पान ११९
॥श्रीगणेशाय नमः॥ आदिशक्तिरुवाच । विकटेन महादेव्यो रचितं मायया परम् । नानाभेदयुतं ब्रह्माऽसद्रूपं विविधे रतम् ॥१॥
तेन नानाविधं ब्रह्म जगन्नानाविधं तथा। सृष्टं तानि विशेषेण जीवहीनानि मेनिरे ॥२॥ ततस्तैर्विकटस्यैव तपस्तप्तं सुदारुणम् ।
एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ॥३॥ तुष्टस्तानि ययौ देवो वरदानार्थमादरात् । रथस्थः सूर्यरूपेण सर्वात्मा
सर्वभावनः ॥४॥ तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादरात् । तद्दर्शनजबोधेन ज्ञानयुक्तानि शक्तयः ॥५॥ आत्माकारो-
ऽयमेकश्च विकटः सूर्यरूपधृक् । न कुत्रचित् प्रदृश्येत भेदो विकटसूर्ययोः ॥६॥ तान्याऽऽपूज्य प्रणेमुस्तं पुनस्तोतुं प्रचक्रमुः ।
स्तोत्रं नानाविधान्येव ब्रह्माणि विश्वपालकैः ॥७॥ नानाब्रह्माण्यूचुः । विकटाय परेशाय सर्वजीवनधारिणे । आत्माकाराय
सूर्याय भानवे ते नमो नमः ॥८॥ सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने । हेरंबाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥९॥
संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे । छायानाथाय देवेश देवदेवेश ते नमः ॥१०॥ अनामयाय नित्याय सहस्रकर-
धारिणे । अनंतभेदहीनायाऽद्वितीयाय नमो नमः ॥११॥ सर्वाद्ये सदा सर्वाधाराय विश्वमूर्तये । कर्माधाराय सर्वेषां
पालकाय नमो नमः ॥१२॥ आदित्याय परेशाय परात्परतराय ते । दिनस्य पतये नाथ दिनपालाय वै नमः ॥१३॥ अर्यम्णे
काश्यपायैव तेजसां पतये नमः । अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥१४॥ किं स्तुमस्त्वां रवे यत्र वेदाः संकुंठिता
बभुः । योगिनं सततं सर्व आत्माकारं परात्परम् ॥१५॥ एकमेवाद्वितीयं त्वां वदंति वेदवादिनः । वयं भिन्नानि तेन त्वं
विकटोऽसि न संशयः ॥१६॥ एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः । तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥१७॥
सूर्य उवाच । वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियंत्रितः । भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥१८॥ यं यमिच्छति
तं तं तु दास्यामि स्तोत्रपाठतः । ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥१९॥ सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि
तु । जगुस्तं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ॥२०॥ ब्रह्माण्यूचुः । तुष्टश्चेद्व्रह्मब्रह्मेश जीवयुक्तानि नित्यदा । कुरुष्व
सर्वभावेन स्वस्य सौख्यपराणि तु ॥२१॥ भक्तिं देहि सदा नाथ तव पादांबुजे पराम् । मायामोहविनाशार्थं योगं देहि
परात्परम् ॥२२॥ तथेति सविता तेभ्य उक्त्वा ज्ञानं जगाद ह । मायामोहविनाशार्थं गाणेशं योगशांतिदम् ॥२३॥
सूर्य उवाच । असत् सत् समनेतीनां संयोगे योग उच्यते । स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः ॥२४॥ स्वस्वरूपेण
हीनोऽयमयोगो योग उच्यते । णकाराक्षरगः सोऽपि वेदेषु कथितोऽभवत् ॥२५॥ तयोर्योगे गणेशानः शांतीनां शांति-
खं. ६ अ. ४३ पान १२०
दायकः । चित्ते चिंतामणिं दृष्ट्वा भविष्यथ सुयोगिनः ॥२६॥ संयोगायोगरूपं यन्मायामयं विशेषतः । तस्या विकटभावेन
भजध्वं विकटं सदा ॥२७॥ स्वस्वब्रह्माणि संस्थ्यं तु कर्म कृत्वा स्वभावजम् । गणेशार्पणभावेन भवद्भिः स्थीयतां सदा ॥२८॥
एवमुक्त्वा स्वयं भानुर्ब्रह्माणि सर्वनायकः । अंतर्दधे महादेव्यः स्वानंदस्थो बभूव ह ॥२९॥ ततो सन्मुख्यब्रह्माणि
स्वस्वविश्वयुतानि च । जीवयुक्तानि जातानि खेलां चक्रुः परस्परम् ॥३०॥ यथा सूर्येण संदिष्टो योगो विकटसंज्ञितः ।
साधयित्वा तथा तानि सुशांतानि बभूविरे ॥३१॥ हृदि चिंतामणिं ज्ञात्वा बहिः कर्माणि कृत्स्नशः । समर्प्य विकटं
देव्यो भजन ब्रह्माण रेमिरे ॥३२॥ एवं विकटमाहात्म्यं सूर्यावतारसंज्ञितम् । कथितं विस्तरेणैव समासेन। पि निश्चितम् ॥३३॥
अयं सूर्यात्मकश्चैव विकटस्य महात्मनः । अवतारः समाख्यातः सर्वसिद्धिप्रदायकः ॥३४॥ शृणुयाद्यः पठेद्वापि स सिद्धिं
परमां लभेत् । ईप्सितं सर्वमेवं तु परत्रेह लभेत् सुखम् ॥३५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कश्यपस्य च भार्याऽसीद्विनता रूपशालिनी । तस्यामंडे समुत्पन्ने द्वेऽतीव तेजसा
युते ॥१॥ ताभ्यां ज्येष्ठोऽरुणो जज्ञे गरुडोऽनुज एव च । अरुणः सूर्यमाराध्य वरं प्राप हितावहम् ॥२॥ सारथिः स रवे-
रासीन्नित्यं तद्भक्तिसंयुतः । सेवयाऽनन्यभावेन सूर्य आत्मानमच्युतम् ॥३॥ गणेशं नित्यमानंदात् सूर्यो भेजे विशेषतः ।
प्रणम्य सोऽपि पप्रच्छारुणस्तं खेदसंयुतः ॥४॥ अरुण उवाच । स्वामिंस्त्वं सर्वभावानामात्माऽमृतमयः सदा । एक एवा-
द्वितीयोऽसि भजसे कं गजाननम् ॥५॥ कोऽसौ गणेश्वरः पूर्णो मिथ्यात्मा कश्यपात्मज । मोहं करोषि देवेश स्वरूपच्छा-
दनाय ते ॥६॥ योगिनो देवमुख्याश्च त्वां ज्ञात्वा शांतिमादधुः । त्वत्तः परतरं नास्ति किमर्थं भजसे परम् ॥७॥ सूर्य उवाच ।
त्वयाऽनूरो सत्यमुक्तं वेत्सि मां त्वं विशेषतः । न त्वत्समो मदीये तु योगे कोऽपि विशेषतः ॥८॥ पूर्णभावमविज्ञाय शांतिं
धृत्वा त्वमंजसा । संस्थितः किमहं ब्रूयामज्ञानं त्वां महायशः ॥९॥ गणेशादहमुत्पन्नस्तस्यान्ये शंकरादयः । ज्येष्ठराजश्च
खं. ६ अ. ४२ | पान १२१
तेनायं तस्य ज्येष्ठो न विद्यते ॥१०॥ असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः । तयोः समानभावे त्वाऽऽनंदो विष्णुः
प्रकीर्तितः ॥११॥ आनंदाच्च परो व्यक्तः शंकरस्तुर्यसंज्ञितः । तेषां योगे गणेशानः स्वानंदारुयः प्रकीर्तितः ॥१२॥ सर्व-
संयोगकर्तृत्वान् मायायुक्तो गणेश्वरः । स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥१३॥ तस्मात्परो ह्ययोगश्च स्वसंवेद्य-
विवर्जितः । तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥१४॥ ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल । अस्माकं
गणराजस्तु स्वामी तस्माद्भजामहे ॥१५॥ एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह । जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां
पतिम् ॥१६॥ अरुण उवाच । गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् । भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥१७॥
सूर्य उवाच । एकाक्षरविधानेन तं भजस्व तु काश्यप । हृदि चिंतामणिं दृष्ट्वा योगिवंद्यो भविष्यसि ॥१८॥ एवमुक्त्वा
ददौ तस्मै मंत्रं गणपतेः प्रभुः । स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥१९॥ तताप तप उग्रं स गणेशध्यान-
तत्परः । योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥२०॥ ततो योगींद्रवंद्यः स बभूवे योगसेवया । चित्तं पंचविधं
त्यक्त्वा रसयुक्तं जपे रतः ॥२१॥ एवं वर्षशतेष्वेवं गतेषु द्विरदाननः । आययौ वरदानार्थं भक्तिसंभावितः प्रभुः ॥२२॥
ततः सोऽपि गणेशानं न बुबोध महायशाः । हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥२३॥ संज्ञायुक्तं गणेशानं रथस्थं
स ददर्श ह । पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥२४॥ हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः ।
अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥२५॥ ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् । पुपूज विधिसंयुक्तस्तुष्टावानम्य
हर्षतः ॥२६॥ यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् । रविं संज्ञायुतं दृष्ट्वा विस्मयं परं ययौ ॥२७॥ गणेशकृपया
तेन ज्ञातं सर्वं सुबुद्धिना । गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥२८॥ नानाभेदमयी माया तत्रात्मा भेदवर्जितः ।
अतो विकटसंज्ञोऽयमात्माकारो गजाननः ॥२९॥ विकटरूपिणं सूर्यं भजिष्यामि निरंतरम् । कलांशं गणराजस्य तेन
तुष्टोऽयमंजसा ॥३०॥ एतदर्थं गणेशेन रूपं सूर्यात्मकं परम् । स्वकीयाभेदभावार्थं दर्शितं मेऽत्र सांप्रतम् ॥३१॥
ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह । नियम्यात्मानमानंदयुक्तस्तोत्रं प्रचक्रमे ॥३२॥ अरुण उवाच । नमस्ते गणनाधाय
तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥३३॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखु-
वाहनगायैव सप्ताश्वाय नमो नमः ॥३४॥ स्वानंदवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय
[header] खं. ६ अ. ४३ पान १२२ [/header]
च ॥३५॥ सिद्धिवुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहंत्रे तमोहंत्रे हेरंबाय नमो नमः ॥३६॥ अनंतविभवायैव
नामरूपप्रधारिणे । मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥३७॥ ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने । गणेशाय
परेशाय विघ्नेशाय नमो नमः ॥३८॥ विवस्वते भानवे ते रवये ज्योतिषां पते । लंबोदरैकदंताय महोत्कटाय ते नमः ॥३९॥
यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा । भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥४०॥ किं स्तौमि त्वां
गणाधीश योगाकारस्वरूपिणम् । चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥४१॥ एवं स्वस्य स्तुतिं श्रुत्वा विकटो
रूपमादधे । वामांगे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥४२॥ तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः । तं जगाद गणा-
धीशो वरं वृणु हृदीप्सितम् ॥४३॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न संदेहश्चिंतितं स लभेत्
परम् ॥४४॥ शृणुयाद्वा जपेद्वाऽपि तस्य किंचिन्न दुर्लभम् । भविष्यति महापक्षिन् मम संतोषकारकम् ॥४५॥ गणेशवचनं
श्रुत्वाऽनूरुस्तं प्रणिपत्य च । जगाद साश्रुनेत्रः सन् सरोमांचो गजाननम् ॥४६॥ अनूरुरुवाच । भक्तिं देहि गणाधीश तव
पादांबुजाश्रिताम् । गाणपत्यप्रियत्वं मे सदा संगं महात्मनाम् ॥४७॥ तथेति तमथोक्त्वाऽसौ विकटोऽतर्दधे स्वयम् ।
अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥४८॥ ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः । भानुविनायक इति नाम चक्रे
सुहर्षितः ॥४९॥ पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् । अरुणस्तं प्रणम्यैव वृत्तांतं कथयत् परम् ॥५०॥ तेनैवं स्थापितं
तत्रारुणो गणपतिं परम् । अभजद्रथसंस्थश्च योगशांतिपरोऽभवत् ॥५१॥ एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् ।
तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥५२॥ शृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल । स ईप्सितफलं प्राप्यंांते
स्वानंदमवाप्नुयात् ॥५३॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥
खं. ६ अ. ४४ पान १२३
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः । तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥१॥
मायायां बिंबितं ब्रह्म विकटस्य महात्मनः। आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥२॥ संज्ञा जाता ततस्तस्य
विकटस्य परात्मनः । सा संज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥३॥ तस्यां बिंबमयाद्वीर्यान्नाना जीवा बभूविरे । तेषां
सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥४॥ संज्ञया संयुक्तः सूर्यो ज्ञानहीनो बभूव ह । तपस्तताप घोरं स गणेशस्य
महात्मनः ॥५॥ दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः । प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥६॥ उवाच तं रविं
देवो वरं ब्रूहि हृदीप्सितम् । दास्यामि तपसा तुष्टो भवेदद्यपि दुर्लभम् ॥७॥ ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः ।
संज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥८॥ पुनः पुनर्ननामाथ तं संपूज्य महायशाः । कृत्वा करपुटं संज्ञायुतः स्तोतुं
प्रचक्रमे ॥९॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामांगे संज्ञया युक्त दक्षिणांगे च भानवे ॥१०॥
तयोर्योगे गणाधीश सिद्धिवृद्धिपतिर्मतः । गजाननादिचिह्नैश्र्च संयुतस्ते नमो नमः ॥११॥ एकमेवाद्वितीयं यद्ब्रह्म तदूर्णये
कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥१२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरंबाय सदा ज्येष्ठराजाय
ते नमो नमः ॥१३॥ परेशाय महाविघ्ननाशनाय महात्मने । दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥१४॥ अनाधाय
सनाथानां नाथाय सर्वदायिने । अनाथानां प्रणार्थाय नाथनाथाय ते नमः ॥१५॥ अनंतविभवायैवानंतमायाप्रधारिणे ।
ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥१६॥ मूषकवाहनायैव सर्वांतरप्रचारिणे । मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥१७॥
किं स्तौमि त्वां गणाधीश पंचचित्तप्रचालक । अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥१८॥ एवं संस्तुवतस्तस्य भक्त्या
रोमोद्गमोऽभवत् । रुद्धकंठं प्रनृत्यंतं गणेशस्तं जगाद ह ॥१९॥ श्रीगणेश उवाच । मदीयस्तवनं चेदं सर्वदं संभविष्यति । त्वया
कृतं पठेद्यश्र्च शृणुयात्तस्य सर्वदा ॥२०॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । संतुष्टोऽते ब्रह्ममयं करिष्यामि
महामते ॥२१॥ दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः । सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥२२॥ भानुरुवाच ।
प्रसन्नोऽसि यदा ढुंढे देहि भक्तिं त्वदीयिकाम् । ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥२३॥ परं सामर्थ्यमतुलं देहि
सर्वात्मधारकम् । मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥२४॥ त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः । तत्र त्वां
पुत्रभावेन भजिष्यामि निरंतरम् ॥२५॥ हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् । तेनाहं कृतकृत्यश्र्च भविष्यामि
गजानन ॥२६॥ ओमित्युक्त्वा गणाधीशस्ततोऽन्तर्धानगोऽभवत् । सूर्य्यस्तं चिंत्य स्वस्थानं जगाम प्रियया सह ॥२७॥ सूर्य्यः
सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् । असङ्ग्रह्म ततः सर्वं नानारूपम कल्पयत् ॥२८॥ गणेशवरदानेन मोहहीनो बभूव ह ।
अभजतं सदा भानुर्भक्त्या योगींद्रवंदितः ॥२९॥ एकदा प्रियया युक्तः सस्मार गणनायकम् । तामिस्रासुरगर्वेण पीडितो
बलवत्तरम् ॥३०॥ स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् । बालं शुंडाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥३१॥ सूर्य उवाच ।
कोऽसि त्वं वद मां बाल गणेशाकृतिधारक । किमर्थमिह चायातः किं गणेशो भवान् परः ॥३२॥ सूर्य्यस्य वचनं श्रुत्वा तं
जगाद गजाननः । स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥३३॥ पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः । पालयस्व
पितर्मां त्वं संज्ञया सह मानद ॥३४॥ तस्य तद्वचनं श्रुत्वा संज्ञया सह चार्य्यमा । प्रणम्यापूज्य तुष्टाव अथर्वशिरसा
प्रभुम् ॥३५॥ एतस्मिन्नंतरे तत्राऽऽजगाम सुरसत्तमः । तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥३६॥ उत्थाय गणनाथस्तं
जघान मुष्टिघाततः । पातयामास भूम्यां स निर्जीवं दैत्यपुंगवम् ॥३७॥ मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः । तं
प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥३८॥ मोहितः संज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् । लालयामास हर्षेण पुत्रभाव-
परायणः ॥३९॥ गणेशमायया तत्र संज्ञा स्तनमपाययत् । वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥४०॥ ततः सोऽन्तर्हित
पुत्रो भानुः संमूर्च्छितोऽभवत् । संज्ञया च तयोर्हृद्धिर्हृदि संस्थो बभूव ह ॥४१॥ मा शोकं कुरुतं तातौ न वियोगश्च मे
क्वचित् । मूर्तिं कृत्वा सदा तत्र पूजयेथां निरंतरम् ॥४२॥ ततस्तौ सावधानौ तु तथा चक्रतुरादरात् । भक्त्या गणपतिं
नित्यं भजतः परमेश्वरौ ॥४३॥ शक्तय ऊचुः । कोऽसौ तामिस्रसंज्ञश्चासुरस्तस्य चरित्रकम् । वद शक्ते यदर्थं तु वरदः
संबभूव ह ॥४४॥ आदिशक्तिरुवाच । सूर्य्योऽहंकारसंयुक्तो बभूवे जीवनात्मकः । सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न
च ॥४५॥ एवं बहौ गते काले विस्मृतो गणनायकम् । छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥४६॥ तं दृष्ट्वा हर्षितो
भानुः पुत्रं मेने हितावहम् । अंधकारकरं पूर्णं वरदस्तमुवाच ह ॥४७॥ भानुरुवाच । त्रिगुणान्नभयं पुत्र भविष्यति कदाचन ।
त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥४८॥ यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल । भविष्यति च तामिस्र नाम
भव सुभाग्यवान् ॥४९॥ तं प्रणम्य महादैत्यः पातालमगमन्मुदा । शुक्रेण प्रेरितैर्देत्यैः कृतो राजा सुरद्विषाम् ॥५०॥ सह
तैर्मदसंयुक्तो जिग्ये ब्रह्मांडमंडलम् । राज्यं चकार दैत्यैश्र्चर्महाबलयुतो बभौ ॥५१॥ रविं तेजस्विनं दृष्ट्वा वैरभावेन
खं. ६ अ. ४५ पान १२५
संयुतः । अंधकारेण नित्यं संछादयामास शक्तयः ॥५२॥ निरर्थकं चकारासौ सूर्य तेजस्विनां वरम् । नानायत्नपरः सूर्यस्तं
जेतुं न शशाक ह ॥५३॥ ततोऽहंकारहीनः स संस्मार गणनायकम् । गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥५४॥
एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् । वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥५५॥ शृणुयादिदमाख्यानं पठेद्वा तस्य
सर्वदम् । भविष्यति सदा चांते ब्रह्मभूयप्रदायकम् ॥५६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एवं नानावताराश्च धृतास्तेन महात्मना । विकटेन महादेव्यः संख्यातुं नैव
शक्यते ॥१॥ भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् । कुरुते स्वावतारान् स विकटः परमेश्वरः ॥२॥ मयूरक्षेत्रमधुना
गच्छध्वं तत्र चाप्यहम् । संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥३॥ तत्र विघ्नेश्वरं भक्त्या सेवेध्वं शक्तयः पराः ।
तेन योगींद्रवंद्याश्च भविष्यथ न संशयः ॥४॥ विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः । गाणेशमार्गमाश्रित्य भजध्वं
विकटं परम् ॥५॥ वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् । तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥६॥ गणेशमूर्तेश्च
हृदि चिंतनं कुरुत प्रियाः । मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥७॥ विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा ।
गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥८॥ मुद्गल उवाच । एवमुक्त्वा ददौ ताभ्यो मंत्रमेकाक्षरं परम् । सविधिं
गणराजस्य ततो मौनं समादधे ॥९॥ प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः । महाकालीमुखा दक्ष ययुः क्षेत्रं
मयूरकम् ॥१०॥ मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः । प्रणम्यापूज्य तां ढुंढिं ततस्तेपुस्तपो महत् ॥११॥ शतवर्षे गते
तासां पुरतो मयूरेश्वरः । समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥१२॥ पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः । पुनः प्रणम्य
विघ्नेशं तुष्टुवुः करसंपुटाः ॥१३॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे । विघ्नदात्रे
ह्यभक्तेभ्यो गणेशाय नमो नमः ॥१४॥ लंबोदराय देवाय मूषकध्वजिने नमः । अनाथानां सनाधाय नमो नाथाय ते नमः
॥१५॥ परेशाय महेशेभ्यः सिद्धिदाय गजानन । अनंताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥१६॥ ब्रह्मणां पतये तुभ्यं सदा
खं. ६ अ. ४५ | पान १२६
शांतिमयाय च । शांतीनां शांतिरूपाय परात्मने नमो नमः ॥१७॥ हेरंबाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः
पददात्रे च कवीशाय नमो नमः ॥१८॥ सिद्धिवुद्धिवरायैव सिद्धिवुद्धिप्रदायिने । सिद्धिवुद्धिप्रचालाय तद्रूपाय नमो नमः
॥१९॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशांतिस्वभावाय शांतिदाय नमो नमः ॥२०॥ शक्तये भानवे तुभ्यं
विष्णवे शंकरात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥२१॥ किं स्तुमस्त्वां गणाधीश यत्र शांतिं प्रलेभिरे । वेदादयः
शिवाद्याश्च नमामो मयूरध्वज ॥२२॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियंत्रितः
॥२३॥ इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् ॥२४॥ एवं दक्ष महच्चित्रं
चरितं कथितं मया । विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥२५॥ नानेन सदृशं किंचित् सर्वदं कुत्र वर्तते । साक्षाद्ब्रह्मप्रदं
पूर्णं तत्र किं वर्णयाम्यहम् ॥२६॥ इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात्
॥२७॥ एकमावर्तनं नित्यं यः कुर्यात् स मतो परः । साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥२८॥ यावंति साधना-
न्येव साधयेत् परमादृतः । शतवारं लभेत् पुण्यं खंडस्यास्य श्रवाच्च तत् ॥२९॥ इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः ।
तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥३०॥ पुराणोपपुराणानि सेतिहासानि नित्यशः । शृणुयाच्च ततः पुण्यमनेन
स्याच्छताधिकम् ॥३१॥ बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः । वर्णितो विकटस्तेन समं किं संभवेद्वद ॥३२॥ सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हर्षयुतोऽत्यंतं प्रणाम च मुद्गलम् ॥३३॥ मया संपूर्णभावेन कथितं ते
द्विजोत्तम । कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥३४॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । नानेन सदृशं
किंचित् किं भूयः श्रोतुमिच्छसि ॥३५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥
॥ इति श्रीमुद्गलपुराणे षष्ठः खंडः समाप्तः ॥
॥ श्रीगजाननार्पणमस्तु ॥
श्रीभूस्वानंद मोरेश्वर उर्फ मोरगांव
दक्षिण
अथ नित्य यात्रा ॥ नित्य यात्रां प्रवक्ष्यामि मयूर क्षेत्र वासिनाम् ॥ अन्यथा सर्वदा पुण्यान्नृणां भवेत्सुसमाहिताः ॥१॥ मयूरेशं समभ्यर्च्य परिवार समन्वितम् । ततो ऽष्टगणपान्पूज्य कुंडं नदीं प्रपूजयेत् ॥२॥ शमी मंदारकं दुर्वां चतुर्थीत्वचितः परम् ॥ मुद्रलं शुक योगींद्रं ततो मंडपगोभवेत् ॥३॥ चतुर्दिक्षु पूर्वादि क्रमेण संस्थितान्नरः ॥ तत्र धर्मार्थकामान् श्रुत्वाथथावकाश मागतः ॥४॥ पुनर्गणेश्वरं पूज्य गच्छेत्स्वंगृहंकृतः ॥ एवं कुर्यान्नित्ययात्रां सगणेशप्रियो भवेत् ॥ नित्ययात्रानरो यस्तु नकुर्याद्यदि देवपाः ॥ क्षेत्र वासफलं तस्य न भवेत्तूर्णं मंश्रसा ॥६॥ यातना सलभेदैर्ता संपूर्णा नैन्वी परौ ॥
[उजवीकडील उभा मजकूर / Right Border]
॥ इतिस्तव्ययात्रा ॥
॥ अथ गया तीर्थमाहात्म्यम् ॥ तत्र सिद्ध प्रचेतेन ब्रह्म भूताः पितामहाः ॥ पितरश्च तयांत्येवं गदाधरेति भाविते ॥ क्षेत्रकाणनानो ऽष्टगाः सर्ववित्तिर्बुधुकः सर्वैगणेशतत्तः परम् ॥ द्वितीया यात्रा ॥
द्वारद्वि भुज गणेश आश्रव्या
दक्षिणे विद्या-
मार्कंडेय.
मुकंड.
अगस्त्य
त्रैध्रुव.
कौशिश
दुर्वासा
गालव
पराशर
षष्ठिदश कन्याः
२१ वीस प्रजाः
पतीतितीर्थं
धनुष्ये ८०० दशप्रजा
बभ्रुव्यादित्येवरून
कुंतिकेस नाग धनुष्ये
कार्तिकेय कुण्ड
शक्ति. लांगूलगणेश.
दंडि
षडपदकोमारी.
मातुका
विद्यालक्ष्मी देवी विष्णू
विष्णू धनुष्ये ८००
कुंड. स्वानन्दतीर्थ गणेश क्षेत्र मध्य भागीं कुंड
चामुंडा
शक्ति
ब्राह्मि
माहेश्वरी
कौमारी
वैष्णवी
वाराहि
इंद्राणी
बुद्धिश
सरस्वंती
शेष.
कऱ्हा नदी
गणेश गया तीर्थ
पांडवेश्वर.
देवी रति कंदर्प धनुष्ये १०००
परसाधिश्रिऋक्षर.
[डावीकडील उभा मजकूर / Left Border]
॥ अथपंचमी तीर्था ॥ अन्दोस्वात्वालु गणेशो मेचे चर्चितः परं ॥ कीर्ते व्यासतीर्थेच नाहिती क्रमनेरतः ॥ दृष्टिपंचथी थी यात्रा कुर्यातं ॥४॥ अथ सप्तमीतीर्था यात्रा॥ आंदोस्वान्यास गणंगेशे भौमे भर्विच्यमके ॥ पुष्येदा देव्या तो नैर्ऋत्ये कपिले गाणेषे पुनः॥ इति सप्तम्य याञा ॥
मार्जारी देवी लक्ष्मी नारायण २१५०
दिगधर्व.
अप्सरा.
वल्क्य.
शौनक.
धाता.
च्यवन.
भृगुऋषीतितीर्थं.
श्री ब्रह्म कमंडलू गंगा
द्वार द्वि भुज गणेश
विश्वावस्वा
उर्वश्यादि
याज्ञ
पराशर
भार्गव.
विधाता.
धनुष्य २००
चंद्र.
हयव्याह.
[मध्यवर्ती भाग / Central Diagram - Outer & Inner Details]
वरचा भाग (दक्षिण द्वार व परिसर)
अथ मौद्दल पुराणोक्त मयूरेश्वर क्षेत्रवर्णनम्.
द्वार द्विभुज गणेश विरजादेवी पार्वती शंकर धनुष्यें ७,५००
गौतम सिद्ध वारण.
भरद्वाज जमदग्नि पिशाच भुतेश.
मेधातिथि.
रैवत.
त्रित ऋषि.
द्विजऋषि.
जेमिनि.
कण्व.
वसिष्ठ ऋषयः
धनुष्य ४०० वसिष्ठ.
ऋषीत तीर्थः
पौलस्त्य ऋषयः
पुलस्त्य ऋषीत तीर्थः
पौलाह ऋषी.
पुलह ऋषीत तीर्थः
अत्रेय ऋपयः
अत्रि ऋषीत तीर्थ.
अंगिरस ऋषयः
अंगिरस ऋषीत तीर्थ.
मध्य-उत्तर/दक्षिण चौक व शिवलिंगे
केदारेश्वर. नीलकंठ धनुष्यें २५००
ममलेश्वर नर्मदा तीर्थ. गौरी स्कंद आय मादि पितर.
घुष्णेश्वर. कैलास लोक महागणपति पार्वती सदाशिव.
ॐ कार तीर्थ. उर्कटेश.
मायापुरी दक्षयज्ञ. वैद्यनाथ.
छिंडीश्वर. त्र्यंबक कपिल गणेश
गंगा द्वार कुंड. गोदावरी कुंड.
मल्लिकार्जुन
सोमनाथ.
सोमेश्वर तत्र समुद्र कुंड.
महाकाल क्षिप्रा नदि कुंड
धनुष्ये ४०० काशितत्र ढुंढिराज.
विश्वेश्वर भागीरथी कुंडमनकर्णिका हिकुंड.
अंतर्भाग व सभामंडप (Yantra Precincts)
यमप्रमोदादिगण धनुष्ये ८५०
चंड भैरव गरिमा ज्ञानेश.
भालचंद्र महोदर दत्तात्रय.
अर्थमंडप.
शंभू
कामदा
आधारी
भासुरी
दृष्ट भोग
वदि श्रीमयूरेश्वर सिद्धि-
लक्ष कमलासुर लाभ
मूषक ढुंढू सागर मयूर
मुद्रल शुक.
गणेशतीर्थं.
कपिलातीर्थं
व्यासतीर्थं
अंदोतीर्थ.
लघिमा
महिमा
प्राप्ति कामरुषि सिद्धि.
प्राकाम्या
विनायक गजानन
मयूरासन गिरि विनायक
बाल सूर्य श्री राम कृष्ण यजुने. तीर्थं
संनकादिक.
कपिल.
शेष कल्की
प्रभुभूत
परशूराम
हयग्रीव
अनिरुद्ध
गोमती तीर्थ.
अक्षिणेशे धनुष्ये १७७, भैरव.
सिद्धिविनायक विष्णू
हयग्रीव.
नर नारायण ऋषि.
व्यास बुद्ध.
खालील भाग व नद्यांचे प्रवाह
द्वार नग्न भैरव
वैकुंठ लोकतत्र
विष्णु मत्सय
वामन नरसिंह
धनुष्ये १०
धनुष्य ९०
द्वारकानत्र
प्रद्युम्न.
धनुष्ये १०५
सत्यतीर्थ.
मोहिनी.
ऋभु.
यक्ष.
अग्नि.
नारद.
अयोध्या तत्र हेरंब.
गणेश राम लक्ष्मण भरत शत्रुघ्न
अनिरुद्ध.
अतिविनायक
गर्भास्ति रवि
सूर्य क्षेत्र विनायक
दिवो काशि शक्ति शिव हेरंब
सोम.
भार्गव.
उग्रेश्वर.
सूर्य लोक तत्र सूर्य वरद गणेश.
बुध.
जीव.
भौमेश्य धनुष्ये ४३२४ भैरव.
भानुदेवस्त्यर्क सूर्य.
धनुष्यें ४०० द्विक. चिंतामणि सिद्धि.
बुद्धि पति सरस्वती नदि कुंड.
महाकाली सिद्धीआश्रम तीर्थं.
महाकाय.
प्राकाम्या.
उग्रमेघ.
विनायक नारद.
कुण्ड २५००
गोदातीर्थं
क्षिप्रातीर्थं
भागीरथीतीर्थं.
१५०० भैरव
आमोदी शक्तिर्क बोद्ध.
चित्रा.
शांकबरी.
नार सिंही.
मारिच ऋषयः
मारिची ऋषीत तीर्थ.
असित देव कीततीर्थं
मार्कंडेय.
क्रतव ऋषी.
क्रतव ऋषीत तीर्थ.
सौद्रल
कामधेनू तीर्थ.
धनुष्यें ५०० अष्टी वस्युत तीर्थं.
साध्या.
वामदेव.
विश्वकेतु.
अरूण.
विश्वेदेवाः
दिव्य गार्ग्य
चाक्र-वाशि वाल्मिक
कंकटेश.
सुभद्रं
क्षेत्रपालन.
जाटाभि ऋषि.
पर्वत.
पेल ऋषयरेणु कामेश्र्वरी भांडयन्त गुह्यक.
द्वार द्विभुज गणपुकुटी मष्ठी वराह धनुष्ये ८७५०
हनूमान यज्ञरक्षोगण.
सरद्वाणादि नग्न भैरवांचे दूत.
प्रभावाकृती सरोवर तत्र ॐ कार गणेश क्षेत्र.
[तळाकडील उलटा मजकूर / Bottom Inverted Text]
उत्तर
अथ हरा याना प्रारभः॥ प्रातः स्नात्वा महानाद्यां गणेशां प्रति पूजयेत् ॥१॥ ततः स्नानं नरः कुर्याद्धरदादौसमत्स्येव ॥२॥ पुनः स्नानं ततः कृत्वा गणेशंपूजयेत्स्वयम् ॥ पुष्पेण घृर्तधूपैश्च सद्य तिस्तैलप्रदीपयाः ॥३॥ नियमस्य स्व गावेन गृहोहास्तरणगादिकम् ॥ मासे माघतुवे चैव शुचे पदे विहेष च ॥ भौमेयादौरेन ह्यरायाचा प्रकीर्तिता ॥३॥ अष्टधा प्रति मास्तेषु शूलू पक्षे मयूरेशम् ॥ द्वार यात्रा मयोनित्यं नरः सर्वाथसिद्धये ॥४॥ अथ श्वथागणराजय स्वामदारुणानदीतीरे ॥ तावत्तनिरुकं त्वा वैयरा कर्तुं सतोमहान्नरैः॥५॥ वृद्धनीरोग युक्तानांनियमोनाविवद्यते ॥ बालान्तरेसर्वथा तत्र याञा मोक्ता मनीषिभिः ॥६॥ हुर रूपा स्वयंतत्र वाइनस्तौ गतिं चरेत् ॥ एवं माधवर्यन्तः ॥ इति हरयात्रा ॥
[तळाचा तळटीप मजकूर / Footer]
(श्री. डॉ. के. श्री. जावळे यांचे कडून प्राप्त.)
चित्रशाळा प्रेस, पुणे २
निजे भूस्वानंदे जडभरत भूम्यां पर तरे ।
तुरीयायास्तीरे परम सुखदे त्वं निवसन् ॥
मयूरानाथः त्वमसिच मयूरेश भगवान् ।
अतस्त्वां संध्याये शिव हरि रवी ब्रह्म जनकम् ॥१॥
पत्ता :
श्री अनिरुद्ध साबाजी राज्याध्यक्ष
१६४, लक्ष्मी निवास, हिंदु कॉलनी, दादर, मुंबई नं. १४.
श्रावण शु॥ चतुर्थी शनिवार शके १८८५ ता. ३१ जुलै १९६५ नकल केली असे.