सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

यहाँ प्रस्तुत पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति दिया गया है:

खं. ६ अ. ५ | पान १०
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो कामासुरस्यैवं प्रभावः परमाद्भुतः । शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥१॥
एतादृशो महादैत्यो न श्रुतस्ते मुखांबुजात् । अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥२॥ आदिशक्तिरुवाच । कालिमुख्याः
शृणुध्वं च शक्तयो मे वचो हितम् । यथा तं गणनाधः स जिग्ये सर्वैः सुदुर्जयम् ॥३॥ एकदा स्वसभासंस्थं कामासुरं
महानृपम् । जगुर्दैत्याधिपाः सर्वे कृतांजलय आदरात् ॥४॥ दैत्येशा ऊचुः । महाराज महाराज कृतकृत्योऽसि निश्चितम् ।
तथापि शृणु वाक्यं नः सर्वेषां ते हितावहम् ॥५॥ चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे । कालेन निहताः सर्वे
देवैश्छद्मप्रदर्शिभिः ॥६॥ अतस्त्वमपि राजेंद्र शत्रुभावसमाश्रितान् । देवान् शंभुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥७॥
अमरा वेदवादेषु कथिता देवपा गणाः । शस्त्रादिभिश्च ते सर्वे न मरिष्यंति कर्हिचित् ॥८॥ अतः शृणु महादैत्य विचारं
शत्रुनाशकम् । कर्महीनप्रभावेण मरिष्यंत्यमराः किल ॥९॥ कर्मांना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः । पुरा प्रोक्तं तु
वेदेषु तादृशं कुरु मानद ॥१०॥ तेनैवामररूपाश्च वयं निहतकंटकाः । भवामो नात्र संदेहस्त्वत्प्रसादेन नित्यदा ॥११॥
तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः । साधु साधु भवद्भिः संकथितं तानुवाच ह ॥१२॥ अधुना दैत्यपैः सर्वैः कर्तव्यं
कर्मखंडनम् । महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥१३॥ तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः । पृथिव्यां तैः
कृतं कर्मखंडनं मदसंयुतैः ॥१४॥ ब्राह्मणादींश्च संताड्य वर्णाश्रमविवर्जितान् । चक्रुस्ते पापकर्मणो दानवा दुर्जयाः खलाः
॥१५॥ कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः । देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥१६॥ ततो हाहारवं सर्वे
वर्णाश्रमयुता जनाः । स्नानादि नैव चक्रुस्ते दैत्यसंत्रासतापिताः ॥१७॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च ।
वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥१८॥ केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः । स्वधर्मनिरतास्तत्रावसंस्ते
विगतज्वराः ॥१९॥ ततोऽभवन् महादेवा उपोषणपरायणाः । शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥२०॥
कामासुरस्य नाशार्थं विचारं चक्रुरंजसा । न किंचित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥२१॥ तत्राऽऽजगाम योगींद्रो मुद्गलः
परमार्थवित् । तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥२२॥ उत्थाय तं प्रणेमुस्ते शंभुविष्णुमुखाः सुराः । भृग्वादयश्च
योगींद्राः पूजयामासुरादरात् ॥२३॥ आसने सुखमासीनं कृत्वा करपुटान् मुनिम् । शिवश्चिंतातुरोऽत्यंतं पप्रच्छ विनया-
न्वितः ॥२४॥ श्रीशिव उवाच । धन्या वयं महायोगिन् दर्शनेन च ते प्रभो । गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥२५॥
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ६ अ. ५ पान ११
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
अस्माकमादिकाले तु गुरुर्भृशुंडिकः परः । तेन संबोधिता विप्र वयं ज्ञानयुता मुदा ॥२६॥ गुरुस्तस्य मुनींद्रस्य सर्वसिद्धि-
प्रदायकः । गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥२७॥ शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो । नोचेदन्न-
विहीनान्नो मृतान् पश्यसि देवपान् ॥२८॥ कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । अधुना कर्मनाशाद्वै हीना अन्नेन
वै कृताः ॥२९॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने । उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥३०॥ अतो
योगींद्रमुख्य त्वं वदोपायं महागुरो । कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥३१॥ चराचरस्य रक्षार्थं कुरु
कार्यमनुत्तमम् । दुष्टं संहर योगींद्र मार्गदर्शनभावतः ॥३२॥ यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु । तथा हिंसा न
ते स्वामिन् भविष्यति कदाचन ॥३३॥ इति तस्य वचः श्रुत्वा मुद्गलः शंकरस्य तु । दयया गणनाथं स स्मरन् जगाद तं
वचः ॥३४॥ मुद्गल उवाच । शृणु शंभो जगन्नाथ विष्णो देवादयो वचः । कथयामि हितार्थाय कामासुरविनाशनम् ॥३५॥
साक्षादीश्वररूपस्त्वं गणेशांशः सदाशिव । तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥३६॥ तव दर्शनमात्रेण कृतकृत्या
भवंति वै । नरा ईश न संदेहस्तं किं ब्रूमि भयापहम् ॥३७॥ तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः । गणेशं सर्वभावेन
भजध्वं सर्वदेवताः ॥३८॥ स्वानंदस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः । स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥३९॥
पूर्वस्मिन् यत्र वै शंभो सिद्धिः प्राप्ता त्वया तथा । देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥४०॥ भूस्वानंदे महाभाग
आराधय गजाननम् । मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥४१॥ एकाक्षरेण मंत्रेण चरध्वं तप उत्तमम् । स्वल्पकालेन
विघ्नेशः प्रसन्नो भविता स्वयम् ॥४२॥ एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु । जगाम स्वेच्छया योगाद्गणेशभजने
रतः ॥४३॥ ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे । मयूरेशं समाजग्मुर्दंडकारण्यगं परम् ॥४४॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पंचमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । मयूरनामकं क्षेत्रं भूस्वानंदमयं कथम् । बभूव तत् समाचक्ष्व परं कौतूहलं त्विदम् ॥१॥
पुरा कथं शिवाद्यैश्च सिद्धिः प्राप्ता जगन्मयि । वद तत्र कथं तेषां भृशुंडी चाऽभवद् गुरुः ॥२॥ कीदृशं क्षेत्रमुख्यं तु केन
तत्र गजाननः । स्थापितः पूर्वकाले वै के के सिद्धिमवाप्नुयुः ॥३॥ वद शक्ते मयूरस्य माहात्म्यं सर्वसिद्धिदम् । क्षेत्रस्य
खल्पकालेन लभते खेप्सितं नरः ॥४॥ मुद्गल उवाच । एवं पृष्टा महामाया शक्तिभिश्च प्रजापते । भक्तियुक्ताभिरत्यंत-
मादरात्ता उवाच सा ॥५॥ तत्तेऽहं शृणु वक्ष्यामि सर्वसिद्धिप्रदायकम् । श्रवणेन न संदेहो ब्रह्मभूतपदप्रदम् ॥६॥
आदिशक्तिरुवाच । अत्राहं कथयिष्यामीतिहासं परमाद्भुतम् । भृशुंडिनः शिवादीनां संवादात्मकमूत्तमम् ॥७॥ कदाचित्
प्रलये वृत्ते नष्टे स्थावरजंगमे । ब्रह्मविष्णुशिवाद्याश्च लयं ययुः स्वभावतः ॥८॥ ततोऽतिलयवेगेन पंचभूतानि शक्तयः ।
लयं प्राप्तानि सर्वत्र शून्यरूपं बभूव ह ॥९॥ ततो जागृन्मयं ब्रह्म स्थूलभूतं लयं गतम् । तथा सूक्ष्मं महादेव्यः स्वामं
प्रलयवेगतः ॥१०॥ समभावमयं ब्रह्म सौषुप्तं तल्लयं गतम् । ततः प्रकृतिरूपा सा पुरुषे तन्मयी ह्यभूत् ॥११॥ पुरुषो ब्रह्मणि
स्वात्मैकभावं संस्थितोऽभवत् । ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगं परम् ॥१२॥ एवं महालये प्राप्ते क्षेत्रं स्वानंदवाचकम् ।
खसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदम् ॥१३॥ तदा विघ्नेश्वरः साक्षाद् योगनिद्रापरायणः । क्षेत्रे मयूरे सुष्वाप तदाकारधरः
प्रभुः ॥१४॥ ततो बहौ गते काले निद्राहीनो बभूव ह । निःश्वासतोऽभवन्नस्य सोंकारा निगमाः पुरा ॥१५॥ तैः स्तुतो बोधितश्चैव
ससर्ज सकलं पुनः । प्रकृतिं पुरुषार्थं च नानातत्त्वस्वरूपकम् ॥१६॥ तत्त्वैस्त्रिगुणं सृष्टं स्थूलसूक्ष्मसमात्मकम् । त्रिविधं तु
विराड्रूपं नानाभेदप्रसूतकम् ॥१७॥ तत्तद्विविधरूपं च नानाभिन्नं बभूव ह । चराचरात्मकं ब्रह्म पंचभूतमयं बभौ ॥१८॥
भिन्नानि पंचभूतानि त्र्यवस्थासंयुतानि तु । बभूवुरादिकालेऽहं तेषां सृष्टिं वदामि वः ॥१९॥ नाभेः समुद्भवस्तस्य ब्रह्मा
लोकपितामहः । मुखाद्विष्णुः स्वयं पाता गणेशस्य चतुर्भुजः ॥२०॥ नेत्राच्छिवः समुत्पन्नो वामांगात्तस्य चाऽभवम् । अहं
भानुर्दक्षिणांगात् पंच देवाः पुरातनाः ॥२१॥ अज्ञानेन समायुक्ता न विदुः स्वपरं तदा । देवा ज्ञानप्रसिद्धयर्थं तपश्चेरूर्महा-
द्भुतम् ॥२२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकम् ॥२३॥ मंत्रं प्राप्य महेशाना
जेपुर्विग्नेशमाभजन् । गते वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ॥२४॥ आदौ शंकरहृद्देशे दर्शयामास रूपकम् । नरनागमयं पूर्णं
चतुर्भुजादिचिह्नितम् ॥२५॥ तं दृष्ट्वा विस्मितः सोऽपि चित्ते विचारमाकरोत् । नरकुंजररूपोऽयं चित्ते मे कः प्रतिष्ठिति ॥२६॥

यावत्तं प्रष्टुमारेभे तावदंतर्हितं वपुः । ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥२७॥ न ददर्श महद्रूपं सर्वमंगल-
मंगलम् । ततो विह्वलचित्तोऽसौ जगाम विष्णुसंनिधौ ॥२८॥ तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् । शिवस्तस्मै
खवृत्तांतं कथयामास हृद्गतम् ॥२९॥ शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः । एवं क्रमेण पंचैते देवेशा मिलिता
जगुः ॥३०॥ परस्परं विचार्यैते ध्यानं विस्मितमानसाः । ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥३१॥ ततस्ते
तुष्टुवुर्देवं यस्मै कस्मै नमो नमः । सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥३२॥ तत आकाशजां वाणीं शुश्रुवुस्ते
महौजसः । ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥३३॥ आकाशवागुवाच । गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः ।
यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥३४॥ प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् । बीजमेकाक्षरं मे वै सिद्धा
यूयं जपात्ततः ॥३५॥ साक्षान्म दर्शने देवा नाधिकारोस्ति निश्चितम् । योगहीनप्रभावत्वात्ततश्चांतर्हितोऽभवम् ॥३६॥
भृशुंडिनं महाभक्तं पृच्छध्वं सर्वमंजसा । गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥३७॥ तत् ज्ञात्वा देवदेवा मां
भविष्यथ समर्थकाः । संद्रष्टुं नात्र संदेहस्ततः सिद्धिमवाप्स्यथ ॥३८॥ एवमुक्त्वा गणेशानः खस्थः सोऽन्तर्हितोऽभवत् ।
शिवादयः प्रणम्यैव युयुस्तं मुनिपुंगवम् ॥३९॥ अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः । भृशुंडिनं प्रणम्यैते संस्थिता
हर्षसंयुताः ॥४०॥ ऊचुः प्रांजलयः सर्वे तं मुनिं शुंडयायुतम् । एकमेव स्थितं पूर्णयोगानंदमयं परम् ॥४१॥ देवेशा ऊचुः ।
धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् । धन्योऽपि योगिनां मध्य आदिमध्यांतवर्जितः ॥४२॥ सोऽपि तान्
पूजयामास ज्ञात्वा देवतमान् मुनिः । कृत्वाऽऽतिथ्यं जगादैवं भृशुंडी परमार्थवित् ॥४३॥ भृशुंड्युवाच । जगतां मूलरूपाश्च
भवंतो जगदीश्वराः । समागता मदीये मे आश्रमे भाग्यगौरवात् ॥४४॥ किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् ।
आदिमध्यांतभावज्ञा विश्वपालाः परेश्वराः ॥४५॥ शक्तय ऊचुः । महालये भृशुंडी च कथं लयविवर्जितः । वद शक्ते मुने-
स्तस्य चरितं परमाद्भुतम् ॥४६॥ मुद्गल उवाच । महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् । श्रुत्वा ता जगदंबा सा कथयामास
हर्षिता ॥४७॥ पुरा भृशुंडिचरितं मया रम्यं प्रकाशितम् । श्रुत्वा संशयहीनास्तां पप्रच्छुर्बिनयान्विताः ॥४८॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भृशुंडिपंचदेवसमागमो नाम षष्ठोऽध्यायः ॥

पान १४


॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो शक्ते महाचित्रं चरित्रं मुख्यकं श्रुतम् । भृशुंडिनश्च संतुष्टा वयं जाता न
संशयः ॥१॥ अधुना मुनिदेवानां संवादं वद सौख्यदम् । यत्र विघ्नेश्वरस्यैव ज्ञानं संगीयतेऽमलम् ॥२॥ आदिशक्तिरुवाच ।
शृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् । सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥३॥ भृशुंडिवचनं श्रुत्वा हर्षिताः
शंकरादयः । ऊचुस्तं प्रणिपत्यैव वृत्तांतं पूर्वसंभवम् ॥४॥ शिवादय ऊचुः । कोऽसौ गणेश्वरः स्वामिन् नरकुंजरवेषभृत् । तस्य
ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥५॥ भृशुंड्युवाच । संयोगवाचकः प्रोक्तो गकारश्च णकारकः । अयोगात्मकसंज्ञो वै
तयोः स्वामी गणेश्वरः ॥६॥ अविनाशिपदं वेदे प्रोक्तं तद्धजवाचकम् । मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥७॥
नाशवद्विश्वमेतद्वै तदेव देहरूपगम् । कंठाधो नात्र संदेहस्तयोर्योगे गजाननः ॥८॥ चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः ।
चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥९॥ जीवात्मपरमात्मानौ पादौ तस्य महात्मनः । द्विपदो गणराजोऽतः कथ्यते
वेदवादतः ॥१०॥ तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः । तेन लंबोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥११॥ भ्रांतिदा
गणराजस्य मायासिद्धिः प्रकीर्तिता । वामांगाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥१२॥ पंचचित्तमयी साक्षाद्बुद्धिर्भ्रांति-
धरा परा । दक्षिणांगाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥१३॥ तयोः स्वामी गणेशानो योगशांतिमयः स्वयम् । भक्त-
वत्सलभावेन देहधारी बभूव ह ॥१४॥ स एव ज्ञानगो देवा भवतां कार्यसिद्धये । बभूव तं भजध्वं तु तेन सर्वं शुभं
भवेत् ॥१५॥ श्रुतवैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु । ऊचुर्विस्मितचित्तास्ते गुरुं भृशुंडिनं वचः ॥१६॥ ब्रह्मादय ऊचुः ।
त्वं साक्षाद्गणराजो वै शुंडादंडविराजितः । अस्माकं गुरुरायश्च बोधदातनमोऽस्तु ते ॥१७॥ त्वदीयवचनेनैव गणेशार्थ-
विचक्षणाः । जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥१८॥ अधुना वद माहात्म्यं भजनस्य विशेषतः । तत्र स्थानं
च मंत्रादिविधियुक्तं महामुने ॥१९॥ भृशुंड्युवाच । समाधिना भवंतोऽपि गताः पुरा महेश्वराः । भेदाभेदादिहीने तु ब्रह्मणि
तन्मयत्वतः ॥२०॥ अधुना दंडकारण्ये तादृशं क्षेत्रमुत्तमम् । स्वानंदारुख्यं च तत्रैव तपध्वं गणपे रताः ॥२१॥ मूर्तिं कृत्वा
गणेशस्य दृष्टां स्वहृदि तादृशीम् । पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥२२॥ एवमुक्त्वा महायोगी भृशुंडी विरराम
ह । गणेशभक्तराजेंद्रो देवेशास्तं जगुः पुनः ॥२३॥ शिवादया ऊचुः । कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते । कीदृशं तस्य
माहात्म्यं वद योगींद्रसत्तम ॥२४॥ तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च । किमर्थं भूमिसंस्थोऽयं गणेशः


खं. ६ अ. ७
पान १५


संबभूव ह ॥२५॥ तत्र सिद्धिं समाजग्मुः सेव्य विघ्नेश्वरं नराः । माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽसि महामुने ॥२६॥
गणनाथेन साक्षात्त्वं दर्शितो गुरुरादरात् । वयं शिष्यास्त्वदीयाश्च शाधि सर्वान् हिताय नः ॥२७॥ तेषां वचनमाकर्ण्य
भृशुंडी पुनरब्रवीत् । गाणपत्यविचारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥२८॥ भृशुंड्युवाच । क्षेत्रं गणेश्वरस्यैव त्रिविधं परिकी-
र्तितम् । तेषां भेदं प्रवक्ष्यामि शृणुध्वं त्वेकचेतसः ॥२९॥ स्वर्गे शंभुगृहे चैव पाताले शेषमंदिरे । पृथिव्यां तु मयूरेशे
क्षेत्रं विघ्नपतेः स्मृतम् ॥३०॥ तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा । वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य
देवपाः ॥३१॥ प्रकृतिः सर्वरूपा तु पुरुषश्चात्मसंज्ञकः । तयोः संयोगभावे तु स्वानंदः परिकथ्यते ॥३२॥ स्वसंवेद्येन योगेन
लभ्यते मानवैः परम् । तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् ॥३३॥ तत्रैव संस्थितः साक्षाद्गणेशो योगवाचकः । तेन
संरचितं स्वस्य मायया ब्रह्मदायकम् ॥३४॥ तस्य रूपं कथयितुं निजानंदं न शक्यते । सर्वक्षेत्रसमायोगो ज्ञातव्यं क्षेत्रमुत्त-
मम् ॥३५॥ ततः स्वस्येच्छया देवा गणेशेन स्वमायया । सृष्टं चतुर्विधं तस्मात् क्षेत्रात् खेलनभावतः ॥३६॥ पश्चिमांगा-
दसद्रूपं ब्रह्म शक्तिमयं परम् । निःसृतं तत् द्विधा जातं स्वभावेन महेश्वराः ॥३७॥ रतिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः ।
भोक्ता तयोः समायोगे द्वारं तच्च प्रकीर्तितम् ॥३८॥ हृदि सर्वजनानां या रतिरुत्पद्यते परा । तया मोहितचित्तास्ते
भ्रमंति विषये रताः ॥३९॥ तत्र चालकरूपेण संस्थितः पुरुषो महान् । कामस्तेन जनाः सर्वे नाना कार्ये परायणाः ॥४०॥
भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि । तदा शाक्तं लभेत् सोऽपि ब्रह्मासद्वाचकं परम् ॥४१॥ तेन द्वारेण
विघ्नेशं साधयित्वा च योगिनः । गच्छंति तेन देवेंद्र द्वारं शास्त्रे प्रकथ्यते ॥४२॥ उत्तरांगाद्गणेशस्य समुद्भूतं स्वभा-
वतः । ब्रह्म सौरं सदा सत्यवाचकं देवसत्तमाः ॥४३॥ तदेव द्विविधं जातं कर्म ज्ञानप्रभेदतः । इच्छया गणराजस्य
तच्छृणुध्वं विधानतः ॥४४॥ कर्माधारं जगत् सर्वं कर्म सृष्टं प्रवर्तते । अंते कर्मगतं भावि शास्त्रेषु तन्मयत्वतः ॥४५॥
आधारात्मकभावेन संस्थिता धरणी परा । कर्मरूपा महामाया संज्ञा सूर्यस्य भामिनी ॥४६॥ वराहो ज्ञानरूपश्च सदा
निःसंगभावतः । कर्मजानिषु तिष्ठेत्तु स एव रविवाचकः ॥४७॥ कर्मयोगयुताः केचित् केचित् ज्ञानपरायणाः ।
भ्रमंति द्विविधे भावे यंत्रिता मोहसंयुताः ॥४८॥ कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः । तयोर्योगेऽमृतं ब्रह्म प्राप्नु-
यात् रविवाचकम् ॥४९॥ अथवा सौरमार्गेण लभ्यते भक्तमुख्यकैः । तदेव द्वाररूपं वै वदंति गणपस्य च ॥५०॥ तेन द्वारेण

योगींद्रा गच्छंति गणनायकम् । बुधैस्तद् द्वारमाख्यातमुत्तरांगं विशेषतः ॥५१॥ ततो गणेश्वरस्यैव पूर्वांगान्निःसृतं
परम् । ब्रह्मानंदमयं पूर्णं समभागप्रकाशकम् ॥५२॥ सत्यासत्यात्मके देवाः समरूपेण संस्थितम् । वैष्णवं सर्वमान्यं
तु तदेव द्विविधं बभौ ॥५३॥ लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः । द्विविधं शोभया युक्तं कृतं तया विशे-
षतः ॥५४॥ लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः । शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥५५॥
यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् । भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥५६॥ तस्याश्चालकरूपश्च
विष्णुः साम्ये व्यवस्थितः । आनंदभुक् विशेषेण द्वंद्वमायाधरो बभौ ॥५७॥ तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते । आनंद-
वाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥५८॥ गणेशप्राप्तये देवा द्वारमानंदधारकम् । तच्च क्षेत्रस्य पूर्वांगं गाणेशस्य प्रकथ्यते ॥५९॥
ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् । निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥६०॥ तदेव शांकरं ब्रह्म
सहजं सर्वसंमतम् । मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥६१॥ स्वेच्छारूपा महामाया पार्वती कथिता बुधैः ।
इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥६२॥ तत्र मोहविहीनश्च शंकरः कथ्यते परः । स्वाधीनः शैवभक्तेभ्य-
श्रुत्यर्थं ब्रह्म उच्यते ॥६३॥ तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् । द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥६४॥
चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥६५॥ तदेव गणराजस्य क्षेत्रं
स्वानंदवाचकम् । चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥६६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते स्वानंदक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥

❧ ❖ ☙

॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः । अधुना द्वारविस्तारं कथयामि समासतः ॥१॥
पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ । ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥२॥ ब्रह्मांडॆ वैष्णवान्येव क्षेत्राणि
विविधानि च । तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥३॥ लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु । लक्ष्मीवास-
कराण्येव प्रोक्तानि शास्त्रसंमतम् ॥४॥ दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः । गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः

खं. ६ अ. ८
पान १७
॥५॥ क्षेत्राणि यानि ब्रह्मांडे स्वयं शैवानि शंकरः । ससृजे च ततः शक्तिः शाक्तानि विविधानि वै ॥६॥ रतिकामौ ससृजतुः
पश्चिमद्वारसंस्थितौ । प्रभावाद्दिघ्नराजस्य क्षेत्राणि किल मायया ॥७॥ क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नतः ।
दिक्पालक्षेत्ररूपाणि सृष्टानि मदनेन तु ॥८॥ उत्तरद्वारसंस्थौ तौ महीवाराहकौ परौ । स्वक्षेत्राणि ससृजतुः परौ
गणपमायया ॥९॥ संज्ञाक्षेत्राणि यावंति भूम्यां सृष्टानि तानि तु । सौराण्येवं वराहेण सृष्टानि विविधानि तु ॥१०॥
परिवारयुता देवाः परं तेपुस्तपो महत् । क्षेत्रज्ञाः क्षेत्रसंयुक्ताः गणेशस्य महात्मनः ॥११॥ नानामंत्रजपेनैव ध्यात्वा देवं
गजाननम् । तोषयामासुरत्यंतभक्त्या नित्यं विशेषतः ॥१२॥ उपोषणयुतानि क्षेत्राणि ता देवतास्तथा । पूजयामासुरव्यग्राः
क्षेत्रस्थं गणनायकम् ॥१३॥ एवं वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तान् वरान् दातुं स क्षेत्रान् देवमुख्यकान् ॥१४॥
तं दृष्ट्वा सहसोत्थाय प्रणेमुस्ते गजाननम् । पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः ॥१५॥ सक्षेत्रा देवा ऊचुः । ब्रह्मणे
विघ्नराजाय स्वानंदस्थाय ते नमः । आदिमध्यांतहीनायादिमध्यांतस्वरूपिणे ॥१६॥ गणेशाय नमस्तुभ्यं भुक्तिमुक्ति-
प्रदायिने । नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥१७॥ सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे । गुणेशाय गुणानां तु
चालकाय नमो नमः ॥१८॥ परेशाय परेशेभ्यो मोहदाय गजानन । सर्वयोगमयायैव योगेशाय नमो नमः ॥१९॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिप्रदात्रे ते नमश्चितामणे नमः ॥२०॥ पूर्वांगे विष्णुरूपाय दक्षिणांगे
शिवात्मने । पश्चिमांगे च मायायै रवये उत्तरांगके ॥२१॥ चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा । नानाविधं तथा त्वां
तु कश्च स्तोतुं क्षमो भवेत् ॥२२॥ वयं धन्या वयं धन्या दृष्टवंतो गजाननम् । ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं
परम् ॥२३॥ यं स्तोतुं न समर्थाश्च वेदाः सांगा गजानन । किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥२४॥ एवं स्तुत्वा
गणेशानं देवाः क्षेत्रसमन्विताः । प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥२५॥ ततस्तान् प्रत्युवाचेदं वचनं गणनायकः ।
भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥२६॥ श्रीगणेश उवाच । वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः । दास्यामि
तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥२७॥ स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् । स मत्प्रियो भवेद्देवाः
शृणुयाच्छ्रावयेत्तथा ॥२८॥ भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् । पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥२९॥
मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् । सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥३०॥ गणेशवचनं श्रुत्वा देवा

[Header]
खं. ६ अ. ८ | पान १८


हर्षसमन्विताः । तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥३१॥ सक्षेत्रा देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥३२॥ किमर्थं तु वयं सर्वे सृष्टा वद गजानन । कार्यं ब्रूहि करिष्यामस्त्वदाज्ञा-
वशभावतः ॥३३॥ स्वानंदे वासकार्यार्थं देहि स्थानं महोदर । तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥३४॥
स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते । त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥३५॥ भृशुंडयुवाच । तेषां वचनमाकर्ण्य
गणेशः करुणानिधिः । जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥३६॥ श्रीगणेश उवाच । धर्मार्थकाममोक्षान् वै ददतु
क्षेत्रकाणि मे । वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥३७॥ धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा । कामदानि
भवंत्येव मोक्षदानि विभागशः ॥३८॥ कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु । कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि
तु ॥३९॥ तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः । दर्शनेन भवंत्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥४०॥ नामानि गणनाथश्च
चकार विविधानि सः । काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥४१॥ पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः ।
क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥४२॥ पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानंदरूपिणि । वासं कृत्वा सदा मां तु
भजिष्यथ निरंतरम् ॥४३॥ स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै । क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥४४॥
स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः । मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥४५॥ सर्वक्षेत्राणि ये भूम्यां
करिष्यंति विधानतः । देवान् यथाविधि प्राज्ञा पूजयिष्यंति मानवाः ॥४६॥ तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः ।
ब्रह्मभूता भविष्यंति मत्क्षेत्रे मरणे सति ॥४७॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । क्षेत्राणि हर्षयुक्तानि संस्थि-
तान्येव तत्र तु ॥४८॥ पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः । सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥४९॥ यथा
गजाननः प्राह तथा सर्वे महेश्वराः । कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥५०॥ तत्र ते संस्थिता देवाः सक्षेत्रा
ह्रस्वरूपकाः । स्वानंदक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥५१॥ एतत् क्षेत्रामराणां वै चेष्टितं यः शृणोति वा । पठेद्वा तस्य
विघ्नेशः क्षेत्रवासं तु दास्यति ॥५२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥

खं. ६ अ. ९ पान १९
॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । द्वारेषु देवपाः संति द्वारधारकभावतः । तेषां पूजनमार्गं तु वद विघ्नेश्वरस्य च ॥१॥
भृशुंड्युवाच । क्षेत्रमध्ये गणेशानस्तिष्ठति सर्वदायकः। शुंडादंडमुखः श्रीमांश्चतुर्बाहुधरः प्रभुः ॥२॥ पृथूदरो विशालाक्षस्त्रिनेत्रः
स्वस्तिकासनः। पाशांकुशधरः सोऽपि दंताभयविराजितः ॥३॥ नाभिशेषो विचित्रैश्च भूषणैर्वस्त्रकादिभिः । नागयज्ञो-
पवीती तु शूर्पकर्णो विराजति ॥४॥ तस्य वामांगभागे च सिद्धिः सर्वप्रदाऽमराः । द्विभुजा संस्थिता माया चामरव्यजना-
न्विता ॥५॥ दक्षिणांगे तथा बुद्धिर्द्विहस्ता ज्ञानरूपिणी । सुगंधवस्तुलेपार्थं संस्थिता सेवनोत्सुका ॥६॥ संमुखे मूषकस्तस्य
मयूरश्च विराजति । प्रमोदाऽऽमोदकाद्याश्च गणाः पृष्ठे स्थितास्तथा ॥७॥ वैदिकेन च मार्गेण नमोऽन्तेन प्रपूजयेत् । पौराणिकेन
देवेशा गणेशं सर्वसिद्धिदम् ॥८॥ ततः पूर्वदिशायां स गत्वा द्वारसमाश्रितम् । पूजयेद्गणनाथं तं सशक्तिकपरिवारकम् ॥९॥
द्विभुजं गणनाथं तु वामभागे जगन्मयीम् । मांजारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुक्तः ॥१०॥ तत्र ध्यानं समाख्यामि
गजवक्त्रं गजाननम् । एकहस्ते धृताऽम्भोजं द्वितीयाऽऽलिंगितप्रियम् ॥११॥ कपोलौ मदसंस्रावयुक्तौ अमरसंयुतौ ।
सदानंदमयं देवाश्चिंतयेद्गणनायकम् ॥१२॥ द्विभुजां शक्तिमुख्यां वै दक्षिणाऽऽलिंगितप्रियाम् । वामहस्तेन पद्मं सा
बिभ्रतीं चिंतयेद् हृदि ॥१३॥ भक्ताभीष्टप्रदां पूर्णां सदानंदसमन्विताम् । मायां संसारदुःखानां नाशिनीं भक्तिकारिणीम्
॥१४॥ देवेशा ऊचुः । मांजारिका त्वया प्रोक्ता माया गणपतेः प्रिया । तस्याः स्वरूपगं ज्ञानं वद नो गुरुसत्तम ॥१५॥
भृशुंड्युवाच । जारः सर्वत्र शब्दश्च व्यभिचार्यर्थवाचकः । सर्वेषु जारभावेषु मता नानार्थकारिणी ॥१६॥ तेषु पुरुषरूपेण स्थित
आत्मा सदैककः । तस्य जारादिकं नास्ति भ्रांतिभावात्मकं कदा ॥१७॥ तथापि देहसंस्थश्च माययात्मा प्रमोहितः ।
द्वंद्वभावेषु देवेंद्रास्तदाकारो बभूव ह ॥१८॥ आत्मनो जारभावं तु दर्शयंती निरंतरम् । मोहयित्वा क्रीडति तेन स्वयं
शक्तिरुत्तमा ॥१९॥ मांजारी सा समाख्याता मां प्रति जारदर्शिनी । गणपः क्रीडति द्वंद्वविहारस्थः सदा तया ॥२०॥
तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ । समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ ॥२१॥ तेषां पूजनकं कार्यं यथाविधि
सुरेश्वराः । तेन धर्मस्य भवति संप्राप्तिस्तस्य शाश्वती ॥२२॥ विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकम् । देवेशास्तादृशं
कार्यं तेन सिद्धिमवाप्स्यथ ॥२३॥ मासे भाद्रपदे चैव शुक्लपक्षे विशेषतः । प्रतिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता ॥२४॥
प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेत् । ततः स्नानं नरः कृत्वा द्वारदेवीं समर्चयेत् ॥२५॥ पुनः स्नानं ततः कृत्वा

******************************************************************** पान २०
गणेशं पूजयेत् स्वयम् । उपोषणयुतश्चैव सदा तिष्ठेत् स देवपाः ॥२६॥ नियमस्थः स्वभावेन गणेशस्मरणादिकम् । कुर्यात्तद्वत्
द्वितीयायां दक्षिणद्वारमर्चयेत् ॥२७॥ तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः । माया च द्विभुजा प्रोक्ता पूर्ववत् ध्यान-
गावुभौ ॥२८॥ विरजा नाम विख्याता शक्तिस्तत्र महेश्वराः । तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदम् ॥२९॥ त्रिविधं तु
रजोरूपं मलिनं सर्वगं बभौ । तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते ॥३०॥ गणेशसंयुता देवी तन्मयी विरजा परा ।
तयोर्मानसिकौ पुत्रौ पार्वतीशंकरौ मतौ ॥३१॥ तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः । तया सर्वार्थसंसिद्धिर्लभ्यते नात्र
संशयः ॥३२॥ तृतीयायां ततो वै स पश्चिमद्वारदेवताम् । पूजयेद्विधिसंयुक्त उपोषणपरायणः ॥३३॥ देवीगणेश्वरौ तत्र पूर्वं
ध्यानात्मकौ स्थितौ । आश्रया नाम शक्तिः सा सर्वाश्रयधरा बभौ ॥३४॥ तयोर्मानसिकौ पुत्रौ रतिकामौ प्रकीर्तितौ ।
तेषां पूजां प्रकुर्यात् स तेन कामान् लभेन्नरः ॥३५॥ ततश्चतुर्थिकायां स गच्छेदूत्तरगां पराम् । द्वारशक्तिं महादेवा भक्ति-
मुक्तिसमन्विताम् ॥३६॥ देव्या गणेश्वरस्यात्र ध्यानं पूर्ववदुच्यते । तयोर्मानसिकौ पुत्रौ महीवराहकौ मतौ ॥३७॥
तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन च । तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः ॥३८॥ चतुर्थ्यां गणनाथं स पूजये-
द्विविसंयुक्तः । मध्याह्नसमये देवा उपोषणपरायणाः ॥३९॥ रात्रौ जागरणं कुर्यात् पंचम्यां पारणं चरेत् । द्विजैः सह नरः
साक्षाच्चतुर्विधफलं लभेत् ॥४०॥ एवं माघे शुक्लपक्षे द्वारयात्रां समाचरेत् । ज्येष्ठे मासि तथा देवा वार्षिकं त्रिविधं स्मृतम्
॥४१॥ अथवा प्रतिमासेषु शुक्लपक्षे समाचरेत् । द्वारयात्रामथो नित्यं नरः सर्वार्थसिद्धिभाक् ॥४२॥ अथवा गणराजस्य
यात्रार्थं यः समागतः । तस्मिन् काले चरेद्यात्रां द्वारभूतां महेश्वराः ॥४३॥ न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि ।
चतुर्भिर्दिवसैर्जंतुः कुर्याद्यात्रां विधानतः ॥४४॥ अन्यच्च संप्रवक्ष्यामि द्वारयात्रामयं विधिम् । देहसामर्थ्ययुक्तानां चतुर्विध-
फलप्रदम् ॥४५॥ शुक्ला चतुर्थिका प्रोक्ता तस्यां द्वारमयीं चरेत् । यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यतः ॥४६॥ सूर्योदयात्
समारभ्य पूजां स्वल्पां समाचरेत् । यावन्नास्तगतो भानुस्तावन्मध्ये समापयेत् ॥४७॥ किंचिद्दिवसशेषे स गणनाथस्य
पूजनम् । विधियुक्तं नरो भक्त्या कुर्यात्तस्मिन् दिने स्वयम् ॥४८॥ अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः । तत्रैक-
दिवसे यात्रां प्रकुर्याच्छक्तिभावतः ॥४९॥ वृद्धानां रोगयुक्तानां नियमो नैव विद्यते । बालानां स्वेच्छया तत्र यात्रा
प्रोक्ता मनीषिभिः ॥५०॥ अथवा ब्राह्मणेनैव नरो यात्रां समाचरेत् । द्वाररूपां स्वयं तत्र वाहनस्थो गतिं चरेत् ॥५१॥

खं. ६ अ. १० पान २१
शक्त्याः प्रमाणभावेन पूजयेत् द्वारसंयुतम् । गणेशं विधिसंयुक्तश्चतुर्विधफलं लभेत् ॥५२॥ गणेशं द्वारसंयुक्तं यो नरः
पूजयेत् कदा । यत्र तत्र गतश्चाऽसौ धर्मकामार्थमोक्षभाक् ॥५३॥ न तस्य मरणे देवा या मतिः सा गतिर्भवेत् । न
भूम्यादिविकारश्च नीचोचो नैव विद्यते ॥५४॥ एतत् द्वारस्य माहात्म्यं यः शृणोति नरोत्तमः । स वै संस्कारयोगेन भुक्तिं
मुक्तिं लभेत् पराम् ॥५५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विकटचरिते मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ पंचदेवा ऊचुः । क्षेत्रस्य मानसंभूतं माहात्म्यं वद विस्तरात् । कियन्मानं समाख्यातं क्षेत्रं स्वानंद-
वाचकम् ॥१॥ अन्यच्च वद योगींद्र धर्मकामार्थमोक्षगान् । अर्थान् येनैव तेषां स ज्ञानयुक्तो भवेन्नरः ॥२॥ पूर्वस्थे तु कथं
द्वारे धर्म एकः प्रतिष्ठति । तथाऽर्थो दक्षिणद्वारि पश्चिमे काम एव च ॥३॥ उत्तरद्वारसंस्था तु कथं मुक्तिर्महामुने ।
चतुर्ब्रह्मसु चत्वारि विभक्तानि कथं वद ॥४॥ आदौ शाक्तं साधयित्वा पश्चात् सौरं लभेन्नरः । ततो वैष्णवकं बह्म ततः
शैवं समाधिना ॥५॥ ततो गाणेश्वरं ब्रह्म प्रलभेन्नात्र संशयः । क्रमेण योगभूमिस्थो ब्रह्मभूतो नरो भवेत् ॥६॥ अत्रादौ
वैष्णवं ब्रह्म द्वारभूतं नरोत्तमः । यात्रामार्गेण विप्रेश साधयेत् कथितं त्वया ॥७॥ ततः शैवं ततः शाक्तं ततः सौरं
विधानतः । विपरीतं कथं प्रोक्तं वद कारणमत्र तु ॥८॥ शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेत् । अकस्माद् भ्रांतभावेन
भ्रष्टो भवति मानवः ॥९॥ शक्तिरुवाच । एवं पृष्टो महायोगी भृशुंडी परमार्थवित् । जगाद तान् महादेवान् तच्छृणुध्वं तु
शक्तयः ॥१०॥ भृशुंड्युवाच । धर्मः स्वधर्मरूपश्च सर्वसिद्धिप्रदायकः । अर्थः समर्थरूपाख्यो ज्ञातव्यः सर्वदायकः ॥११॥
कामः शरीरभोगाख्यो हृद्यः सौख्यप्रदायकः । मुक्तिश्चतुः शरीरेभ्यो हीनत्वे परिकीर्तिता ॥१२॥ धर्मः सर्वसमानाख्यो
यथा भवति सर्वदा । कर्मानुसारभावेन फलं नित्यं ददाति सः ॥१३॥ स्वं परं नैव देवेशाः कदा धर्मस्य वर्तते । शुभाशुभं

कृतं येन तादृशं स फलं लभेत् ॥१४॥ समानं वैष्णवं ब्रह्म तेन धर्मः स्थितोऽभवत् । पूर्वद्वारे महाभागाः सर्वधर्म-
प्रकाशकाः ॥१५॥ आदौ स्वधर्मनिष्ठश्चेत्ततः सर्वं नरोत्तमः । लभते नात्र संदेहः कारणं धर्म एव च ॥१६॥ विष्णोरंगमयो
धर्मो विष्णुद्वारे समाश्रितः । अतः प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् ॥१७॥ अर्थः समर्थरूपाख्य ईश्वरान्न परोत्तमः ।
समर्थस्तेन देवेंद्रो अर्थस्तत्र समाश्रितः ॥१८॥ समर्थभावेन यदि केऽपि तिष्ठंति देवताः । ते सर्वे तत्कालांशाश्च ज्ञातव्या
नाऽत्र संशयः ॥१९॥ ईश्वरः सर्वशास्त्रेषु शिव एकः प्रकीर्तितः । अर्थः शिवांगात् संभूतस्तेन तं संश्रितोऽभवत् ॥२०॥
धर्मं कृत्वा समर्थश्च भवते मानवोत्तमः । सर्वकार्येषु देवेंद्रः क्रम एवं प्रकीर्तितः ॥२१॥ द्वितीयाश्रितयात्रातो
दक्षिणद्वारसंभवा । कथिता सर्वभावज्ञैर्नरैभ्यः सर्वसिद्धये ॥२२॥ कामो भोगात्मकः प्रोक्तो देहाय विषयप्रदः ।
विषयाणां समारख्यातं कारणं शक्तिरंजसा ॥२३॥ शक्तेरंगात् समुद्भूतः कामस्तेन महेश्वराः । तामाश्रित्य स्थितः सोऽपि
सर्वकामविवर्धनः ॥२४॥ आदौ धर्मं समाश्रित्य समर्थो जायते नरः । ततः कामान् स्वयं भुंक्ते सर्वान्नानासुखप्रदान् ॥२५॥
तृतीयं द्वारमेतस्मात् कामभोगफलप्रदम् । कृतं यात्राविधाने तु ज्ञातव्यं विबुधैः सदा ॥२६॥ मोक्षो जन्ममृतिभ्यां च हीनः
संकीर्तितो बुधैः । शुक्तां गतिं ददत्तत्र सूर्यस्तिष्ठति नित्यदा ॥२७॥ आत्मा सूर्य इति प्रोक्तं तस्मान् मोक्षः प्रलभ्यते । तेन
सूर्य समाश्रित्य मोक्षस्तत्रैव तिष्ठति ॥२८॥ कामेभ्यो धर्मसंयुक्तस्तृप्तो भवति मानवः । इच्छेन् मुक्तिं ततो यत्नाद्वितृष्णो
देवसत्तमाः ॥२९॥ वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते । अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् ॥३०॥ एतद् द्वारस्य
देवेशा रहस्यं कथितं मया । श्रवणात् सौख्यदं पूर्णं भवेत् पठनात्तथा ॥३१॥ एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितम् ।
वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ॥३२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते द्वाररहस्यवर्णनं नाम दशमोऽध्यायः ॥

खं ६ अ. ११ पान २३
॥ श्रीगणेशाय नमः ॥ भृगुंड्युवाच । चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् । ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥१॥
गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् । द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥२॥ दक्षिणस्यां गणेशान्दू द्विगुणं
द्वारमुत्तमम् । पूर्वद्वाराच्च संप्रोक्तं ज्ञातव्यं विबुधैः सदा ॥३॥ ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् । द्विगुणं
दक्षिणांगात्तु किंचिन्न्यूनं बुधैः पुरा ॥४॥ गणेशादुत्तरे भागे परं द्वारं च संस्थितम् । पश्चिमात् पादहीनं तदधिकं किंचि-
दंजसा ॥५॥ एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः । नवखंडाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥६॥ क्षेत्राणि प्रलयेषु
श्रेष्ठानि दैवतसत्तमाः । प्रगच्छंति लयं नैव रक्षितानि स्वदैवतैः ॥७॥ महाप्रलयवेलायां तत्त्वानि त्रिगुणैः सह । लयं
गच्छंति वेगेन कालस्य परमात्मनः ॥८॥ तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च । लयं गच्छंति देवेशा निश्चितं
योगिभिः पुरा ॥९॥ महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् । नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥१०॥ देवेशा ऊचुः ।
क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः । कथं नाशविहीनं तद्वद योगींद्रसत्तम ॥११॥ स्वानंदः सर्वसंयोगे जायते
नाऽत्र संशयः । क्षेत्रस्याख्या कथं प्राप्ता स्वानंदस्य वद प्रभो ॥१२॥ भृगुंड्युवाच । क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न
विद्यते । ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥१३॥ यथा स्वानंदरूपश्च स्वसंवेद्यात्मकः स्मृतः । तथा स्वानंदक्षेत्रं
तु ब्रह्माकारं प्रकीर्तितम् ॥१४॥ देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् । तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥१५॥
आंतिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह । आंतिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥१६॥ संगहीनतया सर्व
स्त्रीपुंभावसुखं स्मृतम् । गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥१७॥ बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो ।
क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥१८॥ यत्किंचिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् । लोकादिकं मुनींद्रैश्च ब्रह्मणस्पति-
रुच्यते ॥१९॥ गणेशक्षेत्रसंभूतानि क्षेत्राणि समंततः । तत्रैव मरणे देवाः फलदानि भवंति च ॥२०॥ धर्मार्थकाम-
मोक्षाणां प्रदानि कथितानि तु । गाणेशं पंचमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥२१॥ ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः ।
संस्थितास्तत्र लभ्यंते यात्राकारिजनैः पराः ॥२२॥ क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् । नरः सद्यस्तु संस्काराद्ब्रह्मभूतो
न संशयः ॥२३॥ सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् । साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥२४॥ कमल-
मस्तकस्थत्वात् पश्चादासुरकं स्मृतम् । तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥२५॥ यद्वैकद्वारयात्रां यः करोति च

खं. ६ अ. ११
पान २४

चतुर्षु सः । आप्नुयात्तद्गुवं सौख्यं मानवो यत्र कुत्रगः ॥२६॥ यस्मात् कस्मात् समायातः सकृद्यात्रां समाचरेत् । क्षेत्रस्य
च गणेशस्य द्वारगां सर्वमाप्नुयात् ॥२७॥ यो नित्यं द्वारयात्रां स क्षेत्रसंस्थः समाचरेत् । वंद्यः क्षेत्रस्थलोकानांमंते ब्रह्म-
मयो भवेत् ॥२८॥ ब्रह्मांडॆ न समं किंचिद्गणेशक्षेत्रकेण तु । चतुर्भिर्वर्जितं प्रोक्तं पंचमं तच्चतुर्मयम् ॥२९॥ बुधैर्गणेश्वर-
क्षेत्रं त्रिविधं परिकीर्तितम् । बाह्यांतरादिभेदैश्च शृणुत देवनायकाः ॥३०॥ गर्भांगारं गणेशस्य वासगं योजनार्धकम् ।
बभुर्गणपतेश्चावतारास्तत्र संस्थिताः ॥३१॥ गाणेशा मुद्गलाद्या ये तत्र ते संस्थिता बभुः । सेवार्थं गणराजस्यान्ये जना
भवनागताः ॥३२॥ तदेव चतुरस्रं तु चतुर्द्वारंसुशोभितम् । भक्तेभ्यः सिद्धिदं पूर्ण मनोरथसुपूरकम् ॥३३॥ गणेशात्
पूर्वदिग्भागे धनुषां च शतानि तु । षट्किंचिन्न्यूनमानानि द्वारं सर्वार्थदं मतम् ॥३४॥ तत्र बुद्धिः स्थिता साक्षाद्विद्याभिः
सेविता स्वयम् । कलाभिः पूजयित्वा तां ज्ञानवान् पुरुषो भवेत् ॥३५॥ गणेशाद्दक्षिणे भागे द्विगुणं दूरगं भवेत् ।
पूर्वद्वाराद्दक्षिणगं द्वारं गर्भाश्रितं महत् ॥३६॥ तत्र प्रमोद्यकाद्याश्च गणा ब्रह्मसुखे रताः । संस्थिताः पूजनेनैव गाणपत्य-
पदप्रदाः ॥३७॥ गणेशात् पश्चिमे भागे द्वारं गर्भगृहस्य च । द्विगुणं दक्षिणद्वाराद् दूरगं परिकीर्तितम् ॥३८॥ तत्र सिद्धिः
स्वयं देवाः संस्थिता पूजनेन तु । नाना सिद्धिसमायुक्ता नाना सिद्धिप्रदायिनी ॥३९॥ पादन्यूनेन मानेन पश्चिमद्वारत-
स्त्था । उत्तरद्वारमाख्यातं गणेशसंमुखे बुधैः ॥४०॥ तत्र देव्यश्चतुःषष्टियोगिन्यः संस्थिता बभुः । परिवारयुताः सर्वा
योगसिद्धाश्च मातरः ॥४१॥ तासां पूजनमात्रेण योगं विद्यात् स मानवः । अंतर्धानादिकं नाना कामदं नात्र संशयः ॥४२॥
गर्भांगारस्य यात्रां यो नित्यं कुर्यान्नरोत्तमः । अथवा तु चतुर्थ्यां वै सर्वकामार्थसिद्धये ॥४३॥ यात्रार्थं मानवो देवाः
समागतो भवेद्यदा । तदा कुर्यादथो भक्त्या यात्रां गर्भगृहस्य च ॥४४॥ गर्भांगारात् परं क्षेत्रं देवालयमिति श्रुतम् ।
तत्र देवादयः संति खर्गस्थाः सेवनोत्सुकाः ॥४५॥ त्रियोजनप्रमाणेने चतुरस्रं च तन्मतम् । द्वाराणि तस्य चत्वारि
कथयामि समासतः ॥४६॥ गणेशात् पूर्वदिग्भागे किंचिन्न्यूनानि दूरतः । शतानि पूर्वद्वारं तु धनुषां हि चतुर्दश ॥४७॥
तत्र भैरवराजेंद्रो नग्नः सर्वभयंकरः । त्रिशूली मुक्तकेशश्चातिष्ठत् स्वतेजसान्वितः ॥४८॥ तस्य पूजनमात्रेण वाञ्छितं
लभते नराः । यातनां न लभेत् सोऽपि नानाकर्मसमुद्भवाम् ॥४९॥ तस्माद् द्विगुणमानेन गणेशाद् दूरतः शिवः । नील-
कंठश्च देवेशा दक्षिणद्वारपोऽभवत् ॥५०॥ तस्य पूजां प्रकुर्याद्यस्तया बंधनतो नरः । मुच्यते नात्र संदेहो विषबाधा-

यहाँ पृष्ठ का देवनागरी में मूल पाठ प्रस्तुत है:

[शीर्षक]: खं. ६ अ. १२ | पान २५


विवर्जितः ॥५१॥ पश्चिमे विघ्नराजात्तु दक्षिणाद् द्विगुणे स्थितः । दूरे यः कृत्तिवासाः स द्वारदेवः प्रकीर्तितः ॥५२॥ तस्य
पूजनमात्रेणाऽऽसुरं कर्म विनश्यति । ईप्सितं लभते चापि यात्रामात्रेण मानवः ॥५३॥ उत्तरे गणनाथाद्वै पश्चिमात् पाद-
हीनतः । द्वाराद् द्वारं स्थितं देवास्तत्र भीमेश्वरः स्थितः ॥५४॥ तस्य यात्रां प्रकुर्याद्यः सद्यः सत्तासमन्वितः । भवेत् स
मानवश्चारोग्यं लभेत निरंतरम् ॥५५॥ तृतीयक्षेत्ररूपं तु कथितं विस्तरान् मया । चतुर्द्वारयुतं पुण्यं मयूरं तन्मतं परम् ॥५६॥
क्षेत्रात् सर्वत्र देवेशा योजनं चतुरस्रगम् । देवक्षेत्रं समाख्यातं चतुर्विधपदप्रदम् ॥५७॥ क्षेत्रात् पूर्वविभागस्थो नरो
गच्छेन् मृतः स्वयम् । वैकुंठे नात्र संदेहस्तत् क्षेत्रं वैष्णवं यतः ॥५८॥ दक्षिणे क्षेत्ररूपात्तु मृतो योजनमध्यगः । स कैलासे
वसेन्नूनं शैवं क्षेत्रं यतः स्मृतम् ॥५९॥ मयूरात् पश्चिमे क्षेत्राद्योजनस्थो मृतो भवेत् । शक्तिलोकं वसेत् सोऽपि शाक्तं
क्षेत्रं च तत् स्मृतम् ॥६०॥ मयूरादुत्तरे देवा यो मृतो योजनस्थितः । स सौरे संवसेन्नित्यं सूर्यक्षेत्रं यतः स्मृतम् ॥६१॥
एवं क्षेत्रस्य माहात्म्यं प्रमाणसहितं मया । कथितं श्रवणाच्चैव पठनात् पापहारकम् ॥६२॥ तत्र गत्वा महेशाना पूजयेत
गजाननम् । स्थापयित्वाऽचलां मूर्तिं सिद्धिं प्राप्स्यथ निश्चितम् ॥६३॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः ॥


✦ ✦ ✦

॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । पुरा कल्पे महाभाग मयूरे द्वारसंश्रिताम् । यात्रां कृत्वा नराः सिद्धिमलभंस्तद्वदस्व
नः ॥१॥ देवभूमौ मृता ये वै तेषां सिद्धिं वदस्व च । एकद्वाराश्रितां यात्रां कृत्वा के सिद्धिमाप्नुयुः ॥२॥ श्रुत्वा कथां
महारम्यां हर्षश्चेतसि वर्धते । सर्वज्ञोऽसि न संदेह आदिमध्यांतगस्तथा ॥३॥ भृशुंड्युवाच । पुरा जातां कथां रम्यां शृणुध्वं
देवसत्तमाः । स्वगुरुं मुद्गलं नत्वा कथयामि समासतः ॥४॥ द्राविडे ब्राह्मणः कश्चिद्विद्याहीनो बभूव ह । तत्रैवांत्यजजातिस्थो
नरो मूढस्तथाऽभवत् ॥५॥ माता पिता तस्य हीनौ तथा त्यक्तौ सुहृज्जनैः । त्यक्त्वा स्वदेशभूमिं बभ्रमतुस्तौ महीतलम् ॥६॥
प्रसंगात्तु जनानां तौ मयूरे दैवयोगतः । समागतौ जनैर्युक्तौ तस्थतुस्तत्र हर्षतः ॥७॥ स्नात्वा प्रभातकाले तौ शमीदूर्वादलं

ख. ६ अ. १२ पान २६
तथा । गृह्य विघ्नेशपूजार्थं जग्मतुः स्नेहभावतः ॥८॥ अंत्यजेन स्वकीया च प्रदत्ता ब्राह्मणाय तु । पूजा दूर्वादिसंयुक्ता
गणेशार्थं स्वधर्मतः ॥९॥ ब्राह्मणो गणराजं तं पूजयामास भावतः । विधिमंत्रैर्विहीनस्तु जलपत्रादिभिः परम् ॥१०॥ ततस्तौ
जनसंघातैर्जग्मतुर्दैवसत्तमाः । गर्भागारद्वारसंस्थां यात्रां चक्रतुरादरात् ॥११॥ पूर्वद्वारे समागम्य बुद्धिं संपूज्य तं पुनः ।
गणेशं पूजयित्वा तौ तस्थतुस्तत्र देवपाः ॥१२॥ उपोषणसमायुक्तौ विधानेन बभूवतुः । द्वितीये दिवसे यात्राम् क्षुधितौ तौ
न चक्रतुः ॥१३॥ यात्रां त्यक्त्वा गतौ हर्षात्त्यक्त्वा क्षेत्रं महाद्भुतम् । अकस्मात् ज्ञानसंयुक्तौ विद्यायुक्तौ बभूवतुः ॥१४॥
जातिस्मरौ विशेषेण विचारं चक्रतुः परम् । अहो वर्णयितुं क्षेत्रमाहात्म्यं न प्रशक्यते ॥१५॥ एकद्वारस्य यात्रा तु कृता-
ऽऽवाभ्यां ततः परम् । ज्ञानं विद्यायुतं प्राप्तं संपूर्णां किं स्तुवः कृताम् ॥१६॥ ततः स्वनगरं गत्वा सर्वमान्यौ बभूवतुः । तेन
संस्कारयोगेन गणेशभजने रतौ ॥१७॥ भक्तेर्बलेन तौ देवा अंते स्वानंदलोकगौ । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतौ
बभूवतुः ॥१८॥ एवं नाना जना द्वारसिद्धिं तत्र प्रलेभिरे । न मया वर्णनं शक्यमन्यैर्वर्षशतैरपि ॥१९॥ अन्यद्वारेषु सर्वेषु
यथोक्तफलभोगिनः । न संदेहो बभूवुः कथयितुं नैव शक्यते ॥२०॥ मयूरे ये मृताः क्षेत्रे तेषां सिद्धिं वदाम्यहम् ।
देवमुख्याश्च शृणुत सर्वसंतोषवर्धिनीम् ॥२१॥ पुरा शूद्रः समायातः कश्चिद्दैववशेन तु । कुष्ठरोगसमायुक्तो मयूरे
धूम्रनामकः ॥२२॥ तत्रोच्छिष्टादिकं भुंजन् भिक्षायां निरतोऽभवत् । मासमध्ये मृतः सोऽपि भृशं रोगेण पीडितः ॥२३॥
स स्वानंदं समाश्रित्य ब्रह्मभूतो बभूव ह । एवं नाना जनाः क्षेत्रे ब्रह्मभूता मयूरके ॥२४॥ तेषां न शक्यते वक्तुं चरित्रं
देवसत्तमाः । यथोक्तफलभोक्तारो बभूवुर्नात्र संशयः ॥२५॥ तत्र क्षेत्रस्थिता देवा नराः पापपरायणाः । मृता क्षेत्रे यदा
तेषां भयं यमकृतं न हि ॥२६॥ नग्नभैरवनामाऽसौ कथितः क्षेत्रपालकः । दंडधारक एवं तु सदा मायूरवासिनाम् ॥२७॥
तस्याधीनं समग्रं तु क्षेत्रं वैनायकं परम् । शुद्धं कृत्वा नरं दंड्यं स्वानंदे स्थापकोऽभवत् ॥२८॥ देवेशा ऊचुः । कोऽसौ
नग्नस्वरूपेण भैरवः सर्वभैरवः । कीदृशी यातना विप्र मयूरे पापकारिणाम् ॥२९॥ भृशुंड्युवाच । मायासंगविहीनोऽयं सदा
साक्षिवदुच्यते । तेन नग्न इति ख्यातो गाणपत्याग्रणीः परः ॥३०॥ यस्माद्भीतानि तत्त्वानि जगत् संवर्तयंति तु । ब्रह्मा
सृष्टिकरो देवा विष्णुः पाता च तद्भयात् ॥३१॥ हरः संहारकारी च सूर्यस्तपति नित्यदा । संमोहधारिणी शक्तिः सदा भवति
तद्भयात् ॥३२॥ इत्यादि सकलं तस्माद्भीतं स्वस्वपदे स्थितम् । स्वस्वकर्मकरं प्रोक्तं तेन भैरवकः स्मृतः ॥३३॥ मायया

खं. ६ अ. १२ पान २७
गणराजेन सृष्टः सर्वार्थदायकः। गाणेशानां न संदेह इतरेषां भयंकरः ॥३४॥ गर्भागारं गणेशस्य रहस्यं रूपमुच्यते।
अतस्तत्रैव देवेशाः स्थातव्यं यत्नतः सदा ॥३५॥ तत्र पूजादिकं कार्यं सत्कर्मादिकमुत्तमम्। न तत्रानृतकामादिकर्तव्यं
मानवेन च ॥३६॥ न च मूत्रमलत्यागः कर्तव्यस्तत्र देवपाः। सदा गाणेशभावेन स्थातव्यं मानवैः सदा ॥३७॥ क्षेत्रे पुण्यं
यथा प्रोक्तमधिकं ह्यन्यदेशतः। तथा तत्र कृतं पापमधिकं भवतीत्यहो ॥३८॥ अतः क्षेत्रेषु पापानि नाचरेत्तु नरोत्तमः।
यथाशास्त्रं विधानेन पुण्यं तेषु समाचरेत् ॥३९॥ अन्यक्षेत्रेषु पापं यत् कृतं नश्यति तत्क्षणात्। क्षेत्रेषु पंचदेवानां
ब्रह्मादिपदगेषु वै ॥४०॥ नरैस्तेषु कृतं पापं मयूरे नश्यति क्षणात्। मयूरे यत् कृतं पापं वज्रलेपं तु तत् स्मृतम् ॥४१॥
विधिं तत्र प्रवक्ष्यामि शृणुत देवसत्तमाः। येन संशयहीनाश्च भविष्यथ विचारतः ॥४२॥ मयूरे यत् कृतं पापं देवालये
विनश्यति। देवालये कृतं चैतद्गर्भागारे लयं व्रजेत् ॥४३॥ गर्भागारे कृतं पापं द्वारयात्राबलेन च। नश्यत्यत्र न संदेहः
प्रदक्षिणविधानतः ॥४४॥ द्वारयात्राकृतं पापं वज्रलेपमयं भवेत्। तदेव यातनां दत्त्वा नरस्य नाशमेष्यति ॥४५॥ यदा
जन्मादि प्रारभ्य मरणान्तं समाचरेत्। पापं मयूरक्षेत्रे स यातनां प्रलभेन्नरः ॥४६॥ दशवर्षसहस्राणि नग्नभैरवनायकः।
भैरवीं यातनां दत्त्वा शुद्धं करोति मानवम् ॥४७॥ यातना त्रिविधा तस्य भैरवस्य महात्मनः। कथयामि समासेन तां
शृणुध्वं महेश्वराः ॥४८॥ अग्निकुंडादिकं तत्र संस्थितं भैरवस्थले। याम्यालक्षाधिकं प्रोक्तमुग्रं वक्तुं न शक्यते ॥४९॥
आदावेव स तां दत्त्वा पश्चाद् यमसमां प्रभुः। ददाति यातनां घोरां भैरवो भयदायकः ॥५०॥ ततो भूतपिशाचादि संभूतां
प्रददाति सः। ततः शुद्धं नरं कृत्वा स्वानंदे स्थापयिष्यति ॥५१॥ चत्वारिंशत्सहस्राणि भैरवीं यातनां स्वयम्। ददाति
तु ततो याम्यां त्रीणि साहस्रकाणि हि ॥५२॥ ततस्त्रीणि सहस्राणि पैशाचीयोनिसंभवम्। ददाति क्रोधसंयुक्तो नग्नः
शूलधरः प्रभुः ॥५३॥ एवं सर्वं समाख्यातं यातनाजं महद्द्वयम्। यथा मयूरक्षेत्रस्थो नरो विन्द्यान् मृतः परम् ॥५४॥ पापरूपा
नरा ये वै गाणेशे संस्थिताः खलाः। तान् स्वयं भैरवाधीशो बहिः कुर्याद्भयप्रदः ॥५५॥ पुण्यशीलान् हृदिस्थश्च समानाय्य
महेश्वराः। भैरवः क्षेत्रगान् कृत्वा रक्षेद्धै नित्यमादरात् ॥५६॥ मयूरक्षेत्रसंस्था ये क्षेत्रसंन्यासधारकाः। न तेषां दुःखलेशश्च
भवेद्देवेंद्रसत्तमाः ॥५७॥ लक्ष्म्या नारायणस्तान वै धर्मयुक्तान् करोति सः। पार्वत्या शंकरस्तद्वन्नानार्थान् संददाति वै ॥५८॥
रत्या कामः स्वयं तेभ्यो नाना कामान् ददाति हि। भूम्या वराहकश्चैव ज्ञानं ददाति शाश्वतम् ॥५९॥ अतः सर्वं परित्यज्य

[Page Header: पान २८]

मयूरं तत् समाश्रयेत् । सुहृद्भिस्तं तु देवेशा ब्रह्मभूतं वदंति हि ॥६०॥ नानायोनिगतो जंतुस्तत्र स्त्रीपुत्रसंयुतः ।
देहपोषणसक्तश्च बभूवे देवसत्तमाः ॥६१॥ नरदेहं समाश्रित्य गाणेशक्षेत्रगो यदि । न भवेत् स सदा ज्ञेयो
रासभैस्तुल्यभावगः ॥६२॥ पंचमं ब्रह्मरूपं यत्तदेव भूमिगं मतम् । क्षेत्ररूपेण तद्ये वै न सेवंते समाः पशोः ॥६३॥
स्वर्गेषु देवमुख्याश्चेच्छंति मानवदेहकम् । गत्वा मयूरक्षेत्रे तु मरिष्यामः सुभाग्यतः ॥६४॥ तत्रैव मरणे ब्रह्म प्राप्यते
पंचमं परम् । धर्मार्थकाममोक्षास्तु यदिच्छंति परात्परम् ॥६५॥ काश्यादिक्षेत्रमुख्येषु यत्कृतं सुकृतं नरैः । तेन संस्कार-
योगेन मयूरं लभ्यते परम् ॥६६॥ इति सर्वं समाख्यातं वासरूपं विशेषतः । पठनाच्छ्रवणान्नित्यं क्षेत्रवासफलप्रदम् ॥६७॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । कथं गणेशक्षेत्रस्य नाम जातं मयूरकम् । एतत् कौतूहलं ब्रूहि भृशुंडिन् परमार्थद ॥१॥
भृशुंड्युवाच । पुरा कल्पे महेशाना भवद्भिस्तत्र विघ्नपः । आराधितः स वै साक्षाद्वरदस्तान् समाययौ ॥२॥ मयूरवाहनो भूत्वा
दशहस्तो दशायुधः । लंबोदरो गजमुखः प्रसन्नात्मा महेश्वरः ॥३॥ उवाच तान् वृणुध्वं मे वरांश्च मनसीप्सितान् । दास्यामि
तपसा तुष्टो भक्त्या स्तोत्रादिना परान् ॥४॥ तैर्मानसेप्सितं सर्वं वृत्तं तस्माद्गजाननात् । पुनस्तं ते गणाध्यक्षमूचुः
प्रांजलयोऽमराः ॥५॥ मूषको वाहनं तेऽभून् मयूरध्वज चाधुना । मयूरा रूढ एव त्वमागतोऽसि गजानन ॥६॥ अस्मिन्
क्षेत्रे मयूरस्थो दृष्टस्त्वं गणनायक । अतो मयूरजन्माख्यं क्षेत्रं जातं त्वया कृतम् ॥७॥ अद्य प्रभृतिरेतत्तु क्षेत्रं मायूरनाम-
कम् । भवेत्तत् सर्वविख्यातं त्वत्प्रसादाद्गजानन ॥८॥ मयूरक्षेत्रनाथस्त्वं मयूरेशो भव प्रभो । नाम्ना सर्वत्र विख्यातो
भक्तानुग्रहकारकः ॥९॥ तथेति तानुवाचाथ गणेशोऽतर्द्धे स्वयम् । देवेशा अभवन्नत्वा स्वस्वकार्यपरायणाः ॥१०॥ एतद्वः
सर्वमाख्यातं कारणं नामधारणे । क्षेत्रस्य क्षेत्रनाथस्यान्यच्छृणुध्वं महेश्वराः ॥११॥ चित्राकारा महामाया ह्यनंतखेलकारिणी ।
मयूरा सा समाख्याता मयूरेशस्तु तत्पतिः ॥१२॥ चतुर्ब्रह्ममयं क्षेत्रं मायारूपं मयूरकम् । विहरतस्तत्र देवा मयूरेशः

खं. ६ अ. १३ पान २९
प्रकीर्तितः ॥१३॥ देवेशा ऊचुः । चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् । कथं दशभुजः सोऽपि बभूव वद योगिप ॥१४॥
भृशुंड्युवाच । भूस्वानंदमयं क्षेत्रमेकं सर्वादिसंमतम् । गाणेशं तत्र देवेशा न चित्रं किंचिदंजसा ॥१५॥ एकाक्षरभवं ध्यानं
प्रथमं परिकीर्तितम् । सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥१६॥ सप्तकोटयो महामंत्रा गणेशस्य महात्मनः । सर्वे
मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥१७॥ अनंतरूपधारी स हिताय गणपोऽभवत् । लोकानां तानि सर्वाणि मयूरे संभवति
हि ॥१८॥ मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् । नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥१९॥ अतः सर्वाणि रूपाणि
गाणेशानि विशेषतः । मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥२०॥ शक्तिरुवाच । भृशुंडिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः ।
ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकंधराः ॥२१॥ ब्रह्माया ऊचुः । दंडकारण्यदेशे तु गणेशस्य महात्मनः । क्षेत्रं मुख्यं कथं
जातं तन्नो वद महामुने ॥२२॥ भृशुंड्युवाच । स्वस्वकर्मकृतं देवास्तस्य दंडः प्रकीर्तितः । शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य
एव च ॥२३॥ दंडानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् । शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥२४॥ ब्रह्मभूय-
पदं पूर्णं परं चादंडवाचकम् । दंडकारण्यकं तेन नाम तस्य विशेषतः ॥२५॥ दंडकारण्यगे देवो ब्रह्मभूतमयः परः । गणेशो
वेदवादेष्वदंडिनां स हितावहः ॥२६॥ अदंडिनश्च योगींद्राः कथिताः शुकमुख्यकाः । योगेशो ब्रह्मणां नाथो गणेशस्तत्र
राजति ॥२७॥ इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः । सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥२८॥ दंडकारण्यकं
तेषु गणेशं लालसं सदा । उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥२९॥ दंडकारण्यमुवाच । ब्रह्मभूयप्रदं देवं भजिष्यामि
पितामह । तदर्थं मंत्रराजं मे देहि सर्वज्ञ मुख्यक ॥३०॥ ब्रह्मोवाच । गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः । समूहानां
प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥३१॥ स्वानंदनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे । लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः
परः ॥३२॥ गजाननमयो यस्य देहश्च नररूपधृक् । सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥३३॥ एवमुक्त्वा ददौ तस्मै
मंत्रमेकाक्षरं परम् । तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥३४॥ दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् । लब्ध्वाऽरण्यं
महादेवस्ततो भक्तिं चकार ह ॥३५॥ तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः । जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥३६॥
तं दृष्ट्वा दंडकारण्यं समुत्थाय ननाम तु । पूज्यं स्तोतुं गणाधीशं चकमे तत्कृतांजलिः ॥३७॥ दंडकारण्यमुवाच । नमस्ते
गजवक्त्राय गणेशाय महोदर । ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥३८॥ हेरंबाय चतुर्बाहुधराय कंजपाणये ।