मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति पाठ दिया गया है:
खं. ३ अ. ३७ पान ८१
दुःखेन संयुक्तौ ॥४४॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं महामुनिः । ताभ्यामेकाक्षरं विप्रौ तपोयुक्तौ बभूवतुः ॥४५॥
दत्तश्च स्वाश्रमे तद्वद्ययौ हर्षसमन्वितः । पित्रोः सेवार्थमानंदाद्रामस्तत्र स्थितोऽभवत् ॥४६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रेणुकाजमदग्निसंजीवनकरणं नाम षट्त्रिंशोऽध्यायः ॥
❖
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गते वर्षसहस्रे स तपतोषाययौ प्रभुः । विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाच ह ॥१॥
रेणुके जमदग्ने त्वं वृणु मे वरमुत्तमम् । एकाक्षरविधानेन तपसा तोषितोऽभवम् ॥२॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ
बभूवतुः । ऊचतुर्गणराजं तौ भक्तिभावसमन्वितौ ॥३॥ धन्यो वंशो गणेशान दर्शनेन तथाऽऽवयोः । तपः स्वाध्याय एवं त
आवयोर्नात्र संशयः ॥४॥ एवमुक्त्वा प्रणम्यैनं पूजयंतौ गणेश्वरम् । सरोमांचौ तुष्टुवतुः प्रहर्षेण प्रजापते ॥५॥
रेणुकाजमदग्नी ऊचतुः । नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥६॥ अनादये
त्वनाधार वक्रतुंडस्वरूपिणे । गणेशान अनंतानां गणानां पतये नमः ॥७॥ नानाशक्तियुतायैव नानाभेदकराय ते ।
नानाभेदविहीनाय हेरंबाय नमो नमः ॥८॥ अमेयमायया चैव खेलकाय च ढुंढये । सिद्धिवुद्धिसहायाय सिद्धिवुद्धिवराय
च ॥९॥ स्वानंदपतये तुभ्यं भक्तेभ्यो योगदायिने । योगाकाराय योगाय शांतिदाय नमो नमः ॥१०॥ अखंडानंदरूपाय
भुक्तिमुक्तिप्रदाय च । लंबोदराय देवाय चैकदंताय ते नमः ॥११॥ महोदराय विघ्नानां पतये सुखदायिने । मूषकध्वजिने
तुभ्यं नमो मूषकवाहन ॥१२॥ चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने । ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥१३॥
यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः । योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥१४॥ एवं स्तुत्वा गणेशानं
प्रणतौ भक्तिसंस्तुतौ । तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥१५॥ वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् ।
यमिच्छथो महाभागौ भक्तिभावनियंत्रितः ॥१६॥ गणेशवचनं श्रुत्वा दंपती तमथोचतुः । प्रणम्य च पुनः पादौ स्पृष्ट्वा
तौ हर्षसंयुतौ ॥१७॥ तावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् ॥१८॥
योगशांतिं च विघ्नेश देहि योगेश नौ परा । गाणपत्यप्रियां चैव सदा ह्यांनददायिकाम् ॥१९॥ ओमित्युक्त्वा गणाध्यक्षः
खं. ३ अ. ३७
पान ८२
पुनः प्रोवाच तौ तदा । दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः ॥२०॥ भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेत् ।
यो यदिच्छति तत्तस्मै दास्यामि स्तोत्रपाठतः ॥२१॥ जमदग्ने सदा शांतो भव मे भक्तिकारकः । रेणुके देहयुक्ता त्वं भज
मां योगभाविता ॥२२॥ लोकास्त्वां मस्तकाकारां पश्यंत्यत्र न संशयः । ज्ञानदृष्ट्या तथा सांगां पश्येयुर्देवतादयः ॥२३॥
एवमुक्त्वाऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । रेणुका जमदग्निश्च स्वाश्रमस्थौ बभूवतुः ॥२४॥ ततः कदाचिद्रामस्तौ प्रणिपत्य
कृतांजलिः । उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् ॥२५॥ श्रीराम उवाच । अर्जुनं संहनिष्यामि तथा निःक्षत्रियां
धराम् । करिष्यामि न संदेहः पितरौ भवदाज्ञया ॥२६॥ ततस्तं जमदग्निश्चोवाच हर्षसमन्वितः । मा कुरुष्व वृथा हिंसां
राम गर्वं परित्यज ॥२७॥ ततस्तं भार्गवं राम उवाच विनयान्वितः । मातुरग्रे प्रतिज्ञा च मुनीश्वर कृता मया ॥२८॥
तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः । देहत्यागं करिष्यामि तदर्थमथवा मुने ॥२९॥ तस्याऽऽग्रहं समालोक्य
न्यगदत् पुत्रमादरात् । शंकरं गच्छ भो राम स तेऽभीष्टं करिष्यति ॥३०॥ तौ प्रणम्य जगामाऽसौ कैलासे शंकरं प्रभुः ।
प्रणिपत्य महेशानं स्तुत्वा तं चाऽब्रवीद्भवः ॥३१॥ कार्तवीर्यं हनिष्यामि कुर्वे निःक्षत्रियां धराम् । एकविंशतिवारं च
तत्रोपायं वद प्रभो ॥३२॥ तत एकाक्षरं मंत्रं गणेशस्य ददौ शिवः । रामाय तं प्रगम्याशु वनं प्रायान् महाबलः ॥३३॥
पूर्वजन्मनि देवस्य गणेशस्य कृतं तपः । वामनेन च तत् स्मृत्वा तस्मिन् तपसि संस्थितः ॥३४॥ वायुभक्षस्ततो मंत्रं
जजप ध्यानसंयुतः । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥३५॥ गते वर्षशते पूर्णे आययौ तं गजाननः । भक्तं
भक्त्या समायुक्तं महोग्रतपसा युतम् ॥३६॥ उवाच तं महाभागं भार्गवं विष्णुमव्ययम् । वरं वृणु महाभाग भक्त्या
दास्यामि भावितः ॥३७॥ श्रुत्वा तस्य वचो रम्यमुत्थाय गणपं द्विजः । ननाम दंडवद्भूतौ तं पुपूज विशेषतः ॥३८॥
पूजयित्वा पुनर्नत्वा तुष्टाव प्रकृतांजलिः । रामो भक्तिरसेनैव संप्लुतः साश्रुलोचनः ॥३९॥ राम उवाच । नमस्ते
गणनाथाय भक्तानंदविवर्धन । भक्तिप्रियाय देवाय हेरंबाय नमो नमः ॥४०॥ वेदांतवेद्यरूपाय मनोवाणीमयाय च ।
मनोवाणीविहीनाय योगाकाराय ते नमः ॥४१॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कंठाधो नराकाराय
ते नमः ॥४२॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाचित्रप्रचालक ॥४३॥ विघ्नहंत्रे
सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् । सदा स्वानंदनाथाय ढुंढिराजाय ते नमः ॥४४॥ वक्रतुंडाय ते नाथ नमो लंबोदराय वै ।
खं. ३ अ. ३७ पान ८३
सततं शांतिरूपाय शांतिदाय नमो नमः ॥४५॥ महोदराय सिद्धेश बुद्धेश पतये नमः । नानैश्वर्यप्रदात्रे ते श्रमदाय नमो
नमः ॥४६॥ नानाज्ञानप्रभेदैश्च मोहकत्र्रे नमो नमः । सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥४७॥ नानादैत्यनिहंत्रे
च देवानां मदहारिणे । सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥४८॥ सर्वत्र योगरूपेण संयोगायोगहीनतः । संस्थितं तं
कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥४९॥ यं समर्था गणाध्यक्ष योगिनः शेषकादयः । शिवादयश्च वेदा वै स्तौतुं न
प्रभवंति ते ॥५०॥ तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् । तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥५१॥
एवं संस्तुवतस्तस्य भक्तिभावेन मानद । भक्त्या रोमोद्गमः प्राप्तः कंठरोधो बभूव ह ॥५२॥ ननर्त परमानंदयुक्तोऽसौ
भार्गवाग्रणीः । जय विघ्नेश हेरंब गणेशेति वदंस्तदा ॥५३॥ तं तथा भक्तिसंमग्नं वीक्ष्य देवो गजाननः । उवाच साश्रुनेत्रश्च
सरोमांचः प्रजापते ॥५४॥ राम राम महाभाग शृणु मे परमं वचः । धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥५५॥
त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् । पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥५६॥ तस्याऽहं सकलां बाधां
नाशयिष्यामि नित्यदा। इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगो भवेत् ॥५७॥ यद्यच्चिंतयति प्राज्ञ तत्तद्दास्यामि केशव ।
मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥५८॥ परशुं मे गृहाण त्वं तेन मत्तोल्पगो भवेः । जेष्यसि त्वं महावीरम-
र्जुनं राजभिर्वृतम् ॥५९॥ निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः । एकविंशतिवारं त्वं सदा जयसमन्वितः ॥६०॥
नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् । उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥६१॥ यज्ञान् कृत्वा महाभाग यशः
संस्थाप्य भूतले । शांतियोगस्थभावेन मां भजिष्यसि नित्यदा ॥६२॥ एवमुक्त्वाऽन्तर्दधेऽसौ जामदग्न्यं गणेश्वरः । रामः
संस्थापयामास गणेशं ब्राह्मणैस्ततः ॥६३॥ संपूज्य स्वगृहं रामो ययौ हर्षसमन्वितः । रेणुकां जमदग्निं स ननाम परशोधरः
॥६४॥ तयोराज्ञां गृहीत्वा स भ्रातृभिश्च समन्वितः । जुहाव कार्तवीर्यं तं महाबलपराक्रमम् ॥६५॥ सिद्धेश्च कवचैर्युक्ता
राजानः सर्व आगताः । अवध्याः सर्वभावेन देवादीनां महाबलाः ॥६६॥ गणेश्वरवरदानेन परशोस्तेजसा प्रभुः । रामः
सर्वांश्च संग्रामे मारयामास यत्नतः ॥६७॥ कार्तवीर्यं तं जघान स ततो रोषतो दृढम् । युद्धं कृत्वा महाघोरं
बाहूंश्चिच्छेद लीलया ॥६८॥ ममार कार्तवीर्यश्च परशुना च प्रजापते । ततः स विजयी रामः क्षत्रियाणां वधे रतः ॥६९॥
निःक्षत्रियां धरां तत्र चकार क्रोधसंयुतः । पुनर्ब्राह्मणवीर्येण क्षत्रियाः प्रबभूविरे ॥७०॥ रामेण ते पुनः सर्वे हताः
खं. ३ अ. ३८ पान ८४
क्षत्रकुलोद्भवाः । निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥७१॥ एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् । क्षत्रियाणां
च रक्तेन तर्पयामास पूर्वजान् ॥७२॥ यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः । समुद्रेण ततस्तस्मै दत्ता पृथ्वी
भयाद्विधे ॥७३॥ तत्राऽयं संस्थितो रामो भजते गणनायकम् । अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥७४॥ इदं ते
कार्तवीर्यस्य रामस्य च महाद्भुतम् । जमदग्ने रेणुकायाश्चरितं कथितं मया ॥७५॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य
संभवेत् । भुक्तिमुक्तिप्रदं दक्ष चिंतितार्थप्रदं परम् ॥७६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः । पंचैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥१॥
जयध्वजः शूरसेनो वृषभोऽथ पुरुजितौ । जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥२॥ जयध्वजस्य पुत्रोऽभूत्तालजंघः
प्रतापवान् । तस्य पुत्रशतं जज्ञे तालजंघा इति स्मृताः ॥३॥ तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये
यादवाः पुण्यकर्मिणः ॥४॥ वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः । मधोः पुत्रशतं जज्ञे वृष्णिज्येष्ठः स वंशकृत् ॥५॥
वीतिहोत्रसुतश्चैवानंतनामा महायशाः । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥६॥ तस्य भार्या गुणैर्युक्ता पातिव्रत्य-
परायणा । वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥७॥ तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् । गते बहुतिथे
काले ययौ कण्वेन बोधितः ॥८॥ स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै । याजयामास तं कण्वः स विनीतो बभूव
ह ॥९॥ तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः । सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥१०॥ यदुपुत्रस्य वंशं वै
शृणु क्रोष्टोः प्रजापते । क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥११॥ तस्य पुत्रोऽभवच्छ्वाह्निः कुशेकूस्तत्सुतो मतः ।
कुशेश्रोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥१२॥ पुत्रश्चित्ररथस्याऽभूच्छशबिंदुस्ततोऽभवत् । दशलक्षसहस्राणि तेषु
ज्येष्ठः पृथुश्रवाः ॥१३॥ उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते । तस्माद्रुचकनामाऽभूत्ततः पंच सुता मताः ॥१४॥
तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः । तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च क्रुशक्रथौ ॥१५॥ लोमपादस्तृतीयस्तु
[शीर्षक]: सं. ३ अ. ३८ | पान ८५
बभ्रुस्तस्याऽऽत्मजोऽभवत् । कृतिस्तस्यात्मजः प्रोक्त उशिकस्तत्सुतोऽभवत् ॥१६॥ उशिकात् पुत्रको जातश्चेदिश्चैद्यस्ततो-
ऽभवत् । तस्य पुत्रो महाबाहुः प्रभावात् कौशिकः स्मृतः ॥१७॥ अभूत्तस्य सुतो धीमान् सुमंतुश्च ततोऽमलः । अमलस्य सुतः
प्रोक्तो निःश्वेतश्च महाबलः ॥१८॥ तस्य दक्षाऽभवन् पुत्राः शतं चैव महाबलाः । क्रथस्याप्यऽभवत्कुंतिर्धृष्टिस्तस्याऽथ
निर्वृतिः ॥१९॥ दशार्होऽस्य ततो व्योमस्तस्माज्जीमूतकस्ततः । विकृतिस्तस्य पुत्रो भीमरथोऽभून् महाबलः ॥२०॥ तस्मा-
न्नवरथो नाम बभूव च महाबलः । तस्य पुत्रो दशरथः शकुनिस्तस्य चात्मजः ॥२१॥ तस्मात् करंभिः संभूतो देवरातो-
ऽभवत्ततः । ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥२२॥ मधुस्तस्य सुतो जज्ञे तस्मात् कुरुरजायत । पुत्रद्वयमभूत्तस्य
सुत्रामा चानुरेव च ॥२३॥ अनोस्तु पुरुहोत्रोऽभूदायुस्तस्य सुतो मतः । आयुषः सात्त्वतो नाम तस्य सप्त सुता मताः ॥२४॥
भजमानो भजिर्दिव्यो वृष्णिर्देववृधोऽन्धकः । महाभोजश्च विख्याता यादवेषु प्रजापते ॥२५॥ भजमानस्य निम्लोचिः
किंकणो वृष्णिरेव च । अथ देववृधो राजा पुत्रार्थे तप आचरत् ॥२६॥ बभ्रुः पुत्रोऽभवत्तस्य पुण्यश्लोको महायशाः ।
सर्वशास्त्रार्थतत्त्वज्ञः श्लोकौ यस्य बभूवतुः ॥२७॥ यशसा तेजसा राजा त्रिलोकेषु विराजितः । महाभोजकुले जाता
भोजास्ते वै प्रकीर्तिताः ॥२८॥ वृष्णेः सुमित्रः पुत्रश्च युधाजिदपरस्तथा । अनमित्रः शिनिस्तस्मान्निघ्नोऽभूदनमित्रतः
॥२९॥ सत्राजिच्च प्रसेनश्च विख्यातौ निम्नजौ सुतौ । सत्राजित् सूर्यमाराध्य मणिं लेभे स्यमंतकम् ॥३०॥ शिनेरथ समुत्पन्नः
पुत्रः सर्वार्थकोविदः । सत्यकः सत्यसंपन्नः सत्यनामा महायशाः ॥३१॥ सात्यकिर्युयुधानः स जयस्तस्याऽभवत्सुतः ।
कुणिश्चाथ सुतो धीमांस्तस्य पुत्रो युगंधरः ॥३२॥ अनमित्रसुतो योऽन्यो वृष्णिः शस्त्रविशारदः । श्वफल्कश्च सुतो
वृष्णेः परश्चित्ररथोऽभवत् ॥३३॥ श्वफल्कः काशिराजस्य सुतां भार्यामविंदत । तस्यामजनयत् पुत्रमक्रूरं साधुसंमतम्
॥३४॥ आसंगसारमेयाद्या अन्ये च द्वादशाऽऽत्मजाः । अक्रूरस्याऽभवत्पुत्रो देववानुपदेवकः ॥३५॥ अभूच्चित्ररथात् पुत्रः
पृथुश्चापृथुरेव हि । अश्वग्रीवः सुबाहुश्च सुधाश्वाद्याः सुताः स्मृताः ॥३६॥ अथांधको महाबाहुर्लेभे वै चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कंबलवर्हिणम् ॥३७॥ कुकरस्य सुतो वह्निर्बहेस्तु तनयोऽभवत् । कपोतरोमा भो दक्ष
पुत्रोऽभवदनुस्ततः ॥३८॥ सोऽभवत्तुंबरोर्मित्रं सुतस्तस्यांऽधकः स्मृतः । अंधकादभवत् पुत्रस्तेजोयुक्तश्च दुंदुभिः
॥३९॥ स गोवर्धनमासाद्य तताप विपुलं तपः । ब्रह्मा तस्मै ददौ चैव वरं तन्मनसीप्सितम् ॥४०॥ वंशस्ते चाक्षयो भावी
खं. ३ अ. ३९ पान ८६
कीर्तिज्ञानादिकं यशः । सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥४१॥ अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुंदुभेः ।
पुनर्वसुः सुतस्तस्याहूकस्तस्य सुतः स्मृतः ॥४२॥ आहुकादुग्रसेनश्च देवकश्च प्रजापते । देवकस्य सुता वीरा जज्ञिरे
देवसन्निभाः ॥४३॥ देववानुपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥४४॥ धृतदेवा
तथा चैवोपदेवा देवसाक्षिता । श्रीदेवा शांतिदेवा च सहदेवा च सुव्रता ॥४५॥ देवकी वसुदेवाय ददौ सर्वाः प्रजापते ।
उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥४६॥ महायशा अभूत् पुत्रो भजमानाद्विदूरथः । तस्य शूरः शिनिस्तस्य
स्वयंभोजश्च तत्सुतः ॥४७॥ हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः । कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥४८॥
वसुदेवादयो दक्ष दश धर्मपरायणाः । वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥४९॥ देवकीपुत्रतां यातो देवैः संप्रार्थितो
हरिः । भूमिभारावताराय साधूनां पालनाय च ॥५०॥ रोहिणी च महाभागा वसुदेवादजीजनत् । संकर्षणं ततो ज्येष्ठं
शेषांशं च हलायुधम् ॥५१॥ उमा देहधरा जाता योगनिद्रा च कौशिकी । नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥५२॥
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥५३॥ सुषेणश्च ततो दायि
भद्रसेनो महाबलः । ऋतुः संमर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥५४॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत लोकनाथं तं बलभद्रं हलायुधम् ॥५५॥ जाते रामे च देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं
श्रीवत्सांकितवक्षसम् ॥५६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता । तस्यामुत्पादयामास द्वौ पुत्रौ निष्षठोल्मुकौ
॥१॥ षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा । कृष्णस्य पत्न्यः संप्रोक्ताश्चारुरूपाः सुलोचनाः ॥२॥ तासु पुत्रा बभूवुश्च
शतशोऽथ सहस्रशः । प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥३॥ प्रद्युम्नसांबमुख्याश्च महातेजोयुताः सुताः । महारथा
महाभागा बभूवुर्ज्ञानसंयुताः ॥४॥ प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् । तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥५॥
खं. ३ अ. ३९ पान ८७
मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः । जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥६॥ दक्ष उवाच । कथं विष्णुः
स्वयं साक्षात् मानुषे देहधारकः । बभूव तत्र यन्मूलं तदेव वद मानद ॥७॥ मुद्गल उवाच । कथां शृणु महारम्यां पुरा जातां
प्रजापते । यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥८॥ पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः । राज्यं त्यक्त्वा ततो
दैत्या वनेषु व्यचरन् भयात् ॥९॥ ततस्तान् हंतुमत्यंतं ययुर्देवा उदायुधाः । प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥१०॥
अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः । राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥११॥ शस्त्रादिभिर्विहीनान्नः कथं
हंतुं समुद्यताः । सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥१२॥ अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् । मा हिंस्यत
महाभागा दीनांश्चैव विशेषतः ॥१३॥ तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् । देवा हंतुं प्रारभंत पलायंताऽसुरास्तदा
॥१४॥ शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः । उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥१५॥ तत्र सर्वे भृगुं दक्ष
ददृशुर्न च दानवाः । समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥१६॥ रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् । नोचेद्वयं
मरिष्यामस्त्वदग्रे नात्र संशयः ॥१७॥ तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा । मा भयं कुरुत ह्येवं वारयामि सुरानहम्
॥१८॥ तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः । तत्र संस्थास्ततो दक्ष निःश्वासोच्छ्वाससंयुताः ॥१९॥ एतस्मिन्नंतरे
तत्राजग्मुर्विष्णुपुरोगमाः । देवा उदायुधाः सर्वे दैत्यान् हंतुं प्रचक्रमुः ॥२०॥ तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः ।
दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥२१॥ तामनादृत्य देवेंद्रो विष्णुना प्रेरितः स्वयम् । वज्रं धृत्वा ययौ हंतुं
दैत्यान् क्रोधविलोचनः ॥२२॥ ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् । सवज्रं देवराजं तं स्तंभितं प्रचकार ह
॥२३॥ तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना । शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥२४॥ एतस्मिन्नेव काले
तु भृगुस्तत्र समागतः । मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥२५॥ शशाप विष्णुमावेशात् पत त्वं पृथिवीतले ।
ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥२६॥ भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते । जीवयुक्ता कृता पत्नी
रक्षिता दानवास्तथा ॥२७॥ ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः । शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥२८॥
तत्राऽतितपसा देवं वर्षमात्रं प्रजापते । निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥२९॥ ततस्तं गणराजः स ययौ
भक्तिनियंत्रितः । उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥३०॥ गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः ।
पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥३१॥ अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह । वरं वरय दास्यामि मा खेदं कुरु
केशव ॥३२॥ श्रीविष्णुरुवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥३३॥ अत्रैव
वाससंस्थानं देहि ते भजनाय मे । निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥३४॥ ओमित्युक्त्वा स्वयं ढुंढिरूचिवान्
भक्तमुत्तमम् । मा चिंतां कुरु विष्णो त्वं शृणु मे परमं वचः ॥३५॥ भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा । करिष्यामि
कदा तस्मान् मृत्युलोके पतिष्यसि ॥३६॥ तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति । मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा
सुखी ॥३७॥ देवैः संप्रार्थितस्त्वं वै दैत्यादीनां वधाय च । धर्मसंस्थापनार्थायोऽवतारं प्रधरिष्यसि ॥३८॥ तत्र ते कीर्तिरत्यंतं
भविष्यति विशेषतः । यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥३९॥ तत्र त्वदीयभक्ताश्च भविष्यंति विशेषतः ।
तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥४०॥ पुनश्च देवकार्यं च कृत्वा देव जनार्दन । वैकुंठे ते सदा वासो भविष्यति
न संशयः ॥४१॥ स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः । मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥४२॥
अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति । वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥४३॥ इत्युक्त्वाऽंतर्दधे
दक्ष गणेशः करुणानिधिः । विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥४४॥ पूर्वदिग्भागदेशे वै स्थापितो गणनायकः ।
विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥४५॥ एत्तते कथितं दक्ष देहधारणकारणम् । विष्णोर्देवाधिपस्याऽपि
नानायोनिसमुद्भवः ॥४६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः । मुद्गल उवाच । पुरोर्वंशे महाभागा राजानो धर्मशालिनः । बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥१॥
तेषां चरित्रमत्यंतं कथनाय न शक्यते । बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥२॥ पुरोर्वंशे महाराज शांतनुः
प्रबभूव ह । विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥३॥ तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः । गंगायां सर्व-
शास्त्रज्ञो ब्रह्मचर्यपरायणः ॥४॥ सत्यवत्यां च पुत्रौ द्वौ शांतनोर्वै बभूवतुः । चित्रांगदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥५॥
चित्रांगदो महातेजाः पस्पर्धे क्षत्रियान् सदा । चित्रांगदेन युद्धे स गंधर्वेण हतोऽभवत् ॥६॥ विचित्रवीर्यकस्तत्र यक्ष्मणा
[headers]
खं. ३ अ. ४० पान ८९
पीडितोऽभवत् । मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥७॥ तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके ।
अंबिकांऽबालिका नान्द्यौ दुःखिते ते बभूवतुः ॥८॥ सत्यवत्या कृतं तत्र संतानार्थं महामुनेः। व्यासस्य स्मरणं दक्ष स्वपुत्रस्य
विशेषतः ॥९॥ स आगत उवाचैनां किमर्थं दुःखिता वद । मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥१०॥ तं प्रत्युवाच
सा देवी वंशवृद्धिं कुरु प्रभो । विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥११॥ तथेति तेन वंशस्य कृता वृद्धिः प्रजापते ।
कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥१२॥ अंबिकायां मुनेर्वीर्यात् धृतराष्ट्रो बभूव ह । पांडुरंबालिकायां वै दास्यां
च विदुरोऽभवत् ॥१३॥ यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् । मांडव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥१४॥
दक्ष उवाच । कथं मांडव्यशापश्च यमेशस्य पुराऽभवत् । धर्ममार्गरतस्याऽपि स्वपरेषु समस्य भोः ॥१५॥ मुद्गल उवाच ।
सम्यक् पृष्टं त्वया नाथ शृणु तस्य कथानकम् । पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥१६॥ मांडव्यो मुनिवर्यः स वने
तपसि संस्थितः । तत्र चोरा धनं हृत्वा पलंतश्च समाययुः ॥१७॥ राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः ।
चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसंनिधौ ॥१८॥ धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते । राजदूतैर्धनं दृष्टं संगृह्य
कुपिता भृशम् ॥१९॥ ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् । संगृह्य ताडर्यंतस्त आययुर्नगरे स्वके ॥२०॥
राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् । वृत्तांतं चौरसंभूतं नृपोऽपि कुपितोऽभवत् ॥२१॥ शूले प्रोतव्य एवं
चेद्भवद्भिश्चोरसत्तमः । तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥२२॥ तत्र दुःखसमायुक्तो मांडव्यस्तपसि
स्थितः । सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥२३॥ स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ । तं तथा
दुःखसंयुक्तं दृष्ट्वा संदुःखितोऽभवत् ॥२४॥ उवाच तं स्वशिष्यं स भज त्वं गणनायकम् । सर्वविघ्ननिहंतारं भक्तेभ्यः
शांतिदायकम् ॥२५॥ ततस्तं मुनिशार्दूलं मांडव्यः प्रजगाद वै । केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥२६॥
तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह । गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥२७॥ कश्यप उवाच । पंचधा चित्तवृत्तेश्च
चालकोऽयं गजाननः । चिंतामणिरिति ख्यातो वेदांते वेदवादिभिः ॥२८॥ संप्रज्ञातस्वरूपो वै देहस्तस्य महामुने ।
असंप्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥२९॥ तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय । भ्रमरूपां महामायां सिद्धिं विद्धि
महामते ॥३०॥ भ्रमधारकborder/रूपां त्वं बुद्धिं जानीहि सत्तम । तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥३१॥ तं भजस्व
खं. ३ अ. ४०
पान ९०
विधानेन योगशांतिमयं मुने। तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥३२॥ इत्युक्त्वा स गणेशस्य ददौ तस्मै
महामुनिः। एकाक्षरविधानेन कवचं शास्त्रसंमतम् ॥३३॥ आज्ञां संगृह्य विप्रेशः कश्यपः स्वालयं ययौ। मांडव्यस्तत्र
विघ्नेशमभजद्भावसंयुतः ॥३४॥ कवचं गणराजस्य दधार मुनिसत्तमः। कवचे संधृते दक्ष पीडाहीनो बभूव ह ॥३५॥
तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ। ददर्श तं महाविप्रं प्रणनाम कृतांजलिः ॥३६॥ रुदोद भयसंयुक्तो वचस्तं
मुनिरब्रवीत्। मा रुद् त्वं महीपाल नैव शापं ददाम्यहम् ॥३७॥ मदीयकर्मदोषेण शूलप्रोतोऽहमेव च। अजानता त्वया
राजन् कृतं तेन सहाम्यहम् ॥३८॥ ततो नृपेण विप्रार्थं लोहकारविचक्षणाः। समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥३९॥
शूलाग्रं हस्तगं तत्रैकभागं संगतं बभौ। निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥४०॥ शस्त्रैः संछेदितं तैस्तत्
शूलाग्रं हस्तगं विधे। यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥४१॥ राज्ञा संपूजितो विप्रः प्रययौ यमसंनिधिम्।
उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥४२॥ मांडव्य उवाच। मया किं प्रकृतं कर्म पापरूपं वदस्व माम्। येनाऽहं शूलजं
दुःखं प्राप्तः शीघ्रं महाशठ ॥४३॥ तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः। प्रांजलिः प्रत्युवाचेदं वचनं
कर्मसूचकम् ॥४४॥ यम उवाच। बालभावे त्वया ब्रह्मन् कीटः कंटकवेधितः। तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥४५॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः। जगाद धर्मराजं तं मांडव्यश्च प्रजापते ॥४६॥ अहो बालस्वभावेन कृतं
कर्म मया किल। अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥४७॥ अतो नीतिविहीनस्त्वं पतिष्यसि धरातले। शूद्रयोनौ
शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥४८॥ अधुनाऽहं करोम्येतां मर्यादां शृणु भानुज। अष्टवर्षवयोयुक्तैः कृतं कर्म हि
निष्फलम् ॥४९॥ मम वाक्येन भवतु गणराजप्रसादतः। तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥५०॥ मांडव्यः
स्वाश्रमे गत्वा तताप तप उत्तमम्। एकाक्षरविधानेन तोषयामास विघ्नपम् ॥५१॥ कवचस्य प्रसादेन शूलाग्रं तस्य
हस्तगम्। बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥५२॥ अणिमांडव्यको नाम्ना तदादि स बभूव ह। स्वल्पकालेन
योगीशो गाणपत्यप्रियोऽभवत् ॥५३॥ नित्यं गणपतेर्विप्रो मूर्तिपूजारतोऽभवत्। सदा गणेशभावज्ञः सर्ववंद्यो
महायशाः ॥५४॥ मांडव्यचरितं पुण्यं यः शृणोति नरोत्तमः। पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥५५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मांडव्यचरितं नाम चत्वारिंशोऽध्यायः ॥
यहाँ पृष्ठ का मूल पाठ (प्रतिलेखन) प्रस्तुत है:
शीर्षक (Header):
खं. ३ अ. ४१ | पान ९१
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । धृतराष्ट्रं च जन्मांधं त्यक्त्वा पांडुं प्रचक्रिरे । राजानं ब्राह्मणाः सर्वे स विजिग्ये
वसुंधराम् ॥१॥ छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः । धृतराष्ट्रं चकाराऽसौ पांडुः परपुरंजयः ॥२॥ धृतराष्ट्रस्य भार्या-
ऽभूद्गांधारी च पतिव्रता । पांडोः कुंती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥३॥ भार्याभ्यां संयुतो राजा वनं पांडुर्जगाम ह ।
क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥४॥ मृगरूपधरं राजा मुनिं जघ्ने शरेण सः । मृग्यासक्तं शशापाऽसौ राजानं
मरणोन्मुखः ॥५॥ भार्यासंसक्तरूपं मां हतवांश्च नृपाधम । अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥६॥ तदा ते मरणं
सद्यो मम वाक्याद्भविष्यति । इत्युक्त्वा देहसंत्यागं चकार द्विजसत्तमः ॥७॥ श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने
स्थितः । भार्याभ्यां सहितः पांडुः कंदमूलादि भक्षयन् ॥८॥ ततः कुंत्यां समुद्भूतो धर्माद्धर्मभृतां वरः । युधिष्ठिरो महाभागो
मंत्रसामर्थ्यकारणात् ॥९॥ वायोश्च भीमसेनो वै बभूव बलसंयुतः । इंद्रात् कुंत्यामर्जुनः स धनुर्विद्यापरायणः ॥१०॥
अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् । माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुक्तौ ॥११॥ गांधार्यां च शतं पूर्णं
पुत्राणाममितौजसाम् । बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥१२॥ पांडुः शापविमोहेन माद्र्यां सक्तो ममार ह । सा
वै सहगता जाता कुंती पुत्रानपालयत् ॥१३॥ ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे । पुत्रैः कुंती तथा भीष्मादिभिः
संमानिताऽवसत् ॥१४॥ ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह । पांडवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥१५॥ दग्धुं
तेनैकदा लाक्षागृहे संस्थापिताः किल । पांडवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥१६॥ इत्यादि विविधैर्भावैः द्वेषयुक्तः
स दुर्मतिः । पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥१७॥ अर्धं राज्यं च संगृह्य पुराद् गच्छंतु पांडवाः । इंद्रप्रस्थं
ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥१८॥ तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् । कृष्णस्तेषां महाभागः पक्षग्राही
बभूव ह ॥१९॥ राजसूयमखं कृत्वा शुशुभुः पांडवास्ततः । यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥२०॥ धृतराष्ट्रेण
दुर्बुद्धिरानयामास पांडवान् । द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥२१॥ वनेषु स्थापयामास पांडवान्
साहसप्रियः । वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥२२॥ त्यक्त्वा राज्यादिकं सर्वं पांडवा वनमाययुः । तत्राऽजगाम
तान् कृष्णो बलभद्रेण संयुतः ॥२३॥ पांडवान् सांत्वयामास क्रोधयुक्तो बभूव सः । दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर
॥२४॥ कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः । ब्रुवंतं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥२५॥ धर्मयुक्ततया राज्यं
[Page Header]
पान ९२
करिष्यामि जनार्दन। अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापप्रदम् ॥२६॥ अतः कोपं महाबाहो नियच्छ मम वाक्यतः।
वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥२७॥ ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह। युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं
समन्वितम् ॥२८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। शृणु दक्ष महाभाग चरितं विघ्नपस्य च। कृष्णः संकथयामास पांडवानमितद्युतिः ॥१॥
श्रीकृष्ण उवाच। युधिष्ठिर महापुण्यशीलः शृणु वचो महत्। येन त्वं संकटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥२॥ इतिहासं पुरावृत्तं
कथयामि समासतः। सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥३॥ एकदा देवदेवेशो विष्णुर्वैकुंठसंस्थितः। लक्ष्म्या सह
विलासेन विष्वक्सेनादिभिर्वृतः ॥४॥ गरुडेन समीपस्थेन सदा हर्षसंयुतः। अप्सरोभिश्च गंधर्वैर्देवैः संसेवितो बभौ ॥५॥
तमुवाच महाभागं भगवंतं सनातनम्। शृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥६॥ श्रीलक्ष्मीरुवाच। स्वामिन्निच्छामि विज्ञप्तुं
मम त्वं सततं गतिः। स्त्रीणां भर्तृसमं नैवास्ति किंचिद्वेदभाषितम् ॥७॥ त्वं साक्षाद्देवदेवेशः शंकराद्यैः सुसंस्तुतः।
षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥८॥ देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः। सर्वेभ्यो भुक्तिदाता त्वं
मुक्तिदाता तथा भवान् ॥९॥ सर्वेषां पालकस्त्वं वै तव पाता न विद्यते। तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥१०॥
एकांते पूजयसि कं देवं त्वं विष्टरश्रवाः। आनंदं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥११॥ विस्मापयति मां चित्ते त्वया
ध्यानं कृतं प्रभो। अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥१२॥ संशयच्छेदनाथं मां वद विष्णो विशेषतः।
दासीं ते पादपद्मस्य द्वंद्वहीनः सदा मतः ॥१३॥ सर्वत्र समरूपस्त्वं सदाऽऽनंदमयस्ततः। तस्मात्परं किमत्राऽस्ति कथं
मोहयसे जनान् ॥१४॥ ध्यानेन पूजनेनैव फलं किं ते भविष्यति। तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥१५॥
श्रीकृष्ण उवाच। इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः। समालिंग्य प्रजानाथ उवाच जलधेः सुताम् ॥१६॥ श्रीविष्णुरुवाच।
शृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम्। तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥१७॥ न करोमि जनानां वै
ध्यानं मोहाय नित्यदा। कुलदेवं गणेशानं भजामि सर्वभावतः ॥१८॥ गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः।
पंच देवा महाभागे तेन संस्थापिताः पदे ॥१९॥ गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः । गणेशेन गुणेशश्च स्थापितः
स्वपदे पुरा ॥२०॥ ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः । सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥२१॥ प्रसेव्य तं
महेशाना गणेशं सर्वदं वयम् । जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥२२॥ अतस्तं भावसंयुक्ता भजामो
नित्यमादरात् । स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥२३॥ विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा । जगाद तं
महाविष्णुं विनयेन समन्विता ॥२४॥ श्रीलक्ष्मीरुवाच । कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः । स्वरूपं कुलदेवस्य
भजिष्यामि जनार्दन ॥२५॥ श्रीविष्णुरुवाच । सम्यक् पृष्टं त्वया देवि शृणु तस्य स्वरूपकम् । वदामि स्नेहयुक्तोऽहं यदि तं
बोधयिष्यसि ॥२६॥ स्वानंदे सोऽपि वसति गणेशो ब्रह्मनायकः । स्वानंदः पंचधा जातः शृणु तस्य कथानकम् ॥२७॥
नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् । तत्र स्वानंदको योगोऽसद्रूपः परिकथ्यते ॥२८॥ असत्यमृतरूपं
यत्तत् सदात्मप्रवाचकम् । सत्स्वरूपं च तद्विद्धि सत् स्वानंदः प्रकीर्तितः ॥२९॥ सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा ।
आनंदात्मकरूपं तत् समस्वानंद उच्यते ॥३०॥ त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् । नेतिरूपं महाभागे
स्वानंदोऽव्यक्त उच्यते ॥३१॥ चतुर्णां योगभावोऽयं समाधिर्जायते किल । स्वानंदः पंचमो ह्यत्र सर्वसंयोग उच्यते ॥३२॥
स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः । चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥३३॥ मायाहीनतया ढुंढिरभूत्
सोऽयोगवाचकः । न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥३४॥ मायायुक्तविहीनत्वं तदेव भ्रांतिदायकम् ।
ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥३५॥ तत्र शांतिर्भवेद्देवि योगिनां नात्र संशयः । अतो योगस्वरूपा सा
कथ्यते शांतिरुत्तमा ॥३६॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥३७॥
तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते । अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥३८॥ भ्रमरूपां महामायां
सिद्धिं जानीहि मानदे । सिद्ध्यर्थं सर्वलोकाश्च विभ्रमंतीश्वरा अतः ॥३९॥ भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् ।
सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥४०॥ तयोः स्वामी सदायोगशांतिरूपोऽयमुच्यते । तस्यैव भजने देवि
ब्रह्मभूता भवन्त्यतः ॥४१॥ इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः । श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥४२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥
खं. ३ अ. ४३ पान ९४
॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । शृणु धर्म महाभाग कथां पापापनोदिनीम् । लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥१॥
श्रीमहालक्ष्मीरुवाच । भगवन् भवता प्रोक्तं महाशांतिप्रदं परम् । तथाऽपि मे सुशांत्यर्थं तत्रोपायं वदस्व मे ॥२॥ श्रीनारायण उवाच ।
षडक्षरेण मंत्रेण यदि तं साधयिष्यसि । तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥३॥ तस्य दर्शनमात्रेण शांतिं
प्राप्स्यसि निश्चितम् । तमाराधय यत्नेन तपसा योगभाविता ॥४॥ एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् । षडक्षरं
महालक्ष्म्यै विधियुक्तं विधानतः ॥५॥ ततः सा तं प्रणम्यैव तपसे वनमाययौ । हिमाचलशिरःसंस्था तताप तप उत्तमम्
॥६॥ षडक्षरविधानेन ध्यात्वा देवं गजाननम् । जजाप मंत्रराजं तं नासाग्रनयना सती ॥७॥ चित्तस्य चेंद्रियाणां संस्थाप्य
वृत्तिं गजानने । निराहारयुता देवी बभूव तपसि स्थिता ॥८॥ शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता । तामाऽऽययौ
गणाधीशो भक्त्या बद्धो धरापते ॥९॥ तमागतं महादेवी प्रणनाम चतुर्भुजम् । महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम्
॥१०॥ मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् । सिद्धिवुद्धिसमायुक्तं नानाभूषणभूषितम् ॥११॥ गले चिंतामणिमणिं
बिभ्रतं ज्योतिषां पतिम् । शेषनाभिं गजास्यं वै पोतवस्त्रैश्च शोभितम् ॥१२॥ ततस्तं पूजयामास प्रभुं नानोपचारकैः ।
प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥१३॥ श्रीमहालक्ष्मीरुवाच । नमो महोदरायैव नानालीलाधराय ते । सदा स्वानंदसंस्थाय
भक्तिगम्याय वै नमः ॥१४॥ चतुर्बाहुधरायैव चतुर्णां चालकाय ते । मूषकारूढरूपाय मूषकध्वजिने नमः ॥१५॥ अनंता-
ननदेहाय ह्यनंतविभवाय ते । अनंतहस्तपादाय सदाऽनंताय ते नमः ॥१६॥ चराचरमयायैव चराचरविवर्जित । योगशांति-
प्रदात्रे ते सदा योगस्वरूपिणे ॥१७॥ अनादये गणेशायादिमध्यांतस्वरूपिणे । आदिमध्यांतहीनाय विघ्नेशाय नमो नमः
॥१८॥ सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः । सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥१९॥ विनायकाय सर्वेषां
नायकाय विशेषतः। ढुंढिराजाय हेरंब भक्तेशाय नमो नमः॥२०॥ सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः । त्रिभिर्हीनाय
देवेश गुणेशाय नमो नमः ॥२१॥ कर्मणां फलदात्रे च कर्मणां चालकाय ते । कर्माकर्मादिहीनाय लंबोदर नमोऽस्तु ते
॥२२॥ योगेशाय च योगिभ्यो योगदाय गजानन । सदा शांतिघनायैव ब्रह्मभूताय ते नमः ॥२३॥ किं स्तौमि गणनाथं
त्वां सदा ब्रह्मपतिं प्रभो । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥२४॥ धन्याऽहं कृतकृत्याऽहं सफलो मे भवो-
ऽभवत् । धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥२५॥ एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा । साश्रुयुक्ता ननर्तैव
बाष्पकंठा युधिष्ठिर ॥२६॥ तामुवाच गणाधीशो वरं वृणु यथेप्सितम् । दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः
॥२७॥ त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां शृण्वतां देवि नानाकार्यकरं तथा ॥२८॥ पुत्रपौत्रादिकं सर्वं
लभते स्तोत्रपाठतः । धनधान्यादिसंभूतं सुखं विंदति मानवः ॥२९॥ गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तम् । हर्षेण
महता युक्ता प्रणम्य करसंपुटा ॥३०॥ श्रीमहालक्ष्मीरुवाच । यदि प्रसन्नभावेन वरदोऽसि महोदर । तदा ते भक्तिमुग्रां मे देहि
नाथ नमोऽस्तु ते ॥३१॥ अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक । भजामि भावयुक्ताऽहं तथापि शृणु मे वचः ॥३२॥
मनश्चंचलभावेन संसारे गच्छति प्रभो । संसारः पुत्रमोहाख्यस्तदर्थं भ्रमते सदा ॥३३॥ अतस्त्वं पुत्रभावेन भव मे विघ्नवारण ।
तत्र त्वां पुत्रवात्सल्येन भजामि निरंतरम् ॥३४॥ देवभावेन ते मूर्तिं गजवक्त्रादिचिह्निताम् । भजामि च तथा त्वाहं
संसारे पुत्ररूपिणम् ॥३५॥ योगरूपः स्वयं साक्षाद्यदि पुत्रो भविष्यसि । तेन योगस्वरूपा सा शांतिः प्राप्ता न संशयः
॥३६॥ तव माता पिता चैव बंधयुक्तौ यदि प्रभो । तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति ॥३७॥ अतो मे पुत्रतां याहि
तयाऽहं गणनायक । भजामि ब्रह्मभूता न संदेहो भक्तिसंयुता ॥३८॥ मह्यमेष वरो नाथ दातव्यः करुणानिधे । नान्यं
याचे महाभाग देवदेवेश ते नमः ॥३९॥ इति लक्ष्म्या वचः श्रुत्वा हर्षयन् स महोदरः । उवाच तां सुभावज्ञो भावपूर
इति स्मृतः ॥४०॥ गणेश उवाच । तव पुत्रो भविष्यमि ज्ञानारेर्नाशनाय च । दैत्यस्य ते प्रसेवार्थं भक्तिग्रहणलालसः ॥४१॥
यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् । मदीयवरदानेन योगिवंद्या भविष्यसि ॥४२॥ आदौ त्वया महादेवि मदीयं
भजनं कृतम् । तेन शांतियुता जाता योगस्था मोहवर्जिता ॥४३॥ ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकार ह । सा त्वं
नष्टा द्विजस्यैव शापतो मोहसंयुता ॥४४॥ समुद्रेण ततो देवि तथैवाऽऽराधिता पुरा । तस्य पुत्रीत्वमापन्ना त्वं विष्णोर्दयिता
सदा ॥४५॥ तेन ते विस्मृतिर्जाता मदीया नात्र संशयः । विष्णुना बोधिता मां त्वं प्राप्ता योगस्य सेवया ॥४६॥
अधुना स्मर सर्वं तत् स्मारितं ते मयाऽनघे । विष्णुनाऽप्यादिकालेऽहं पुत्रार्थे याचितोऽभवम् ॥४७॥ त्वं तथा पुत्रभावार्थं
याचसे मां समुद्रजे । करोमि ते हितं देवि विष्णोश्चैव न संशयः ॥४८॥ एवमुक्त्वा गणेशस्तां ययौ स्वानंदके पुरे ।
अंतर्धाय स्वमात्मानं लक्ष्मीः खिन्ना ततोऽभवत् ॥४९॥ स्मृत्वा योगबलेनैव पुरातनभवां कथाम् । विस्मिता मानसे जाता
सस्मार द्विरदाननम् ॥५०॥ मूर्तिं तत्र प्रतिष्ठाप्य ब्राह्मणैर्वेदपारगैः । पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता ॥५१॥
खं. ३ अ. ४४ | पान ९६
प्रणम्य तं महाविष्णुं जगाद सर्वमंजसा । वृत्तांतं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥५२॥ धन्याऽसि जलधेः पुत्रि
साक्षाद् दृष्टस्त्वया विभुः । पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥५३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । तव कृष्णमुखांभोजान्निःसृतां सर्वपावनीम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत्
॥१॥ ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह । किं कर्म तस्य यत् कृपण चेष्टितं वद विस्तरात् ॥२॥ यदर्थं गणराजः
स देहधारी बभूव ह । न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥३॥ कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः ।
चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥४॥ मुद्गल उवाच । युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः । नारायणः कथां
तस्मा अवदद्भवनाशिनीम् ॥५॥ श्रीकृष्ण उवाच । युधिष्ठिर कथां रम्यां शृणु पापापनोदिनीम् । ब्रह्मभूयप्रदां ढुंढेः सुचरित्राश्रितां
प्रभोः ॥६॥ दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च । शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥७॥ तस्य पुत्रोऽयमुत्पन्नः
संस्थितः स्वगृहे तथा । बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिामकः ॥८॥ प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः ।
रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥९॥ स तु यौवनमापन्नो दुर्मतिं पितरं सदा । सस्मार दुःखसंयुक्तो
गणेशेन हतं पुरा ॥१०॥ स शुक्रमुपसंगम्य विद्यां पंचाक्षरीमगात् । शैवीं तया वने गत्वाऽऽराधयामास शंकरम् ॥११॥
वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः । तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥१२॥ ततस्तं प्रययौ शंभुः पार्वत्या
सहितः स्वयम् । उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥१३॥ श्रीशिव उवाच । वरं वृणु महाभाग तपसा तोषितस्त्वया ।
दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥१४॥ शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुंगवः । दृष्ट्वा शंभुं मुदा युक्तः
प्रणाम कृतांजलिः ॥१५॥ प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः । तुष्टाव सुस्थिरो भूत्वा शंकरं भक्तवत्सलम् ॥१६॥
ज्ञानारिरुवाच । नमस्ते शंकरायाैव पार्वतीसहिताय ते । वृषध्वजाय शैलादिवाहनाय नमो नमः ॥१७॥ अव्यक्तदेवाय च
शिवाय शूलप्रधारिणे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥१८॥ सदाशिवाय मायाया आधाराय नमो नमः ।
मायामोहविहीनाय शंभवे ते नमो नमः ॥१९॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय
परमात्मने ॥२०॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥२१॥ मनोवागतिरूपाय
योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥२२॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो
ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥२३॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान्
मृत्युर्न मे भवेत् ॥२४॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥२५॥
तथेति शिव ऊचे तमंतर्धानं चकार ह । स दैत्यो हर्षितोऽत्यंतं स्वगृहं प्रत्यपद्यत ॥२६॥ ज्ञानारिकृतमेतत्तु स्तोत्रं पठति
यो नरः । शृणोति शंकरस्तस्मै वाञ्छितं ददते परम् ॥२७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः । शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो
राज्यकर्मणि ॥१॥ नमुचिः शंबरः कालासुरश्चैव प्रतापवान् । जंभो बलासुरः पंच प्रधानास्तस्य चाऽभवन् ॥२॥ नानादैत्य-
गणैर्युक्तः पृथिवीं सप्तसागराम् । दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥३॥ ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च
समावृतः । इंद्रः सुरगणैः सार्धं पपाल भयसंकुलः ॥४॥ ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः । तत्र ब्रह्मस्थितो
देवैर्ज्ञात्वा दैत्यं पपाल सः ॥५॥ विष्णुर्वैकुंठमुत्सृज्य पपाल च युधिष्ठिर । दैत्यस्तत्र समागम्य हर्षितः संबभूव ह ॥६॥
जगाम तत आनंदात् कैलासं दैत्यनायकः । शंकरं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥७॥ नोचेद्युद्धेन जेष्यामि त्वामहं
नात्र संशयः । शंकरः क्षुभितो भूत्वा कंपितः प्रददौ तथा ॥८॥ पपाल भयसंयुक्तः सामरः स वनं ययौ । कैलासे संस्थितो
दैत्यो ननंद भृशमोहितः ॥९॥ ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः । ययौ स्वनगरे धर्मं दैत्यपैः संवृतो बभौ
॥१०॥ सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर । सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥११॥ पुत्रजन्मप्रहृष्टः स ददौ
दानानि भूमिप । जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥१२॥ सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् । तैः सर्वत्र
खं. ३ अ. ४५ [space] पान ९८
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
कृतो नाशः कर्मणां भूममंडले ॥१३॥ न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो । कर्महीनतया देवा दुःखिता
अभवंस्ततः ॥१४॥ उपोषणसमायुक्ता विचारं चक्रुरादरात् । ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥१५॥ गते
बहुतेरे काले किं कुर्यामिति विह्वलाः । तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥१६॥ श्रीविष्णुरुवाच । चराचरमयं सर्वं तस्मात्तस्य
भयं नहि । अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥१७॥ स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् । तेन तं
निहनिष्यामः सिद्धिदाता स नो भवेत् ॥१८॥ विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः । ऊचुस्तं ते ततो ढुंढिमभजन्
भक्तिसंयुताः ॥१९॥ दशाक्षरेण मंत्रेण ध्यात्वा देवं गजाननम् । अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥२०॥ गते
वर्षे गणाधीशः प्रसन्नः स समाययौ । रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥२१॥ शृणु मातस्त्वया पूर्वं याचितः
पुत्रकाम्यया । सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥२२॥ एवमुक्त्वांतर्दधेऽसौ गणेशो गणवल्लभः । लक्ष्म्युत्संगे
ततो बालो भूत्वा चिक्रीड विघ्नपः ॥२३॥ जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् । ददर्श निजशय्यायां बालं शुंडाधरं
परम् ॥२४॥ विस्मिता हर्षिताऽत्यंतं नारायणमुवाच ह । वृत्तांतं सा महाभागा दर्शयामास विघ्नपम् ॥२५॥ सस्त्रीकः
प्रणनामाऽथ तुष्टाव गणपं प्रभुम् । गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्च माधवः ॥२६॥ धन्योऽहं सर्वभावेन त्वदंघ्रियुगदर्शनात् ।
पुत्रभावेन मां पालयसि नाथ न संशयः ॥२७॥ ततस्तत्रामराः सर्वे मुनयश्च समागताः । विस्मितास्तुष्टुवस्तं ते नानास्तोत्रै-
र्युधिष्ठिर ॥२८॥ ततस्ते जातकर्माऽपि चक्रुः परमभाविताः । एकादशदिने तस्य मुनयो नाम चक्रिरे ॥२९॥ द्वंद्वभावविहीनो-
ऽयं साक्षादानंददायकः । समो द्वंद्रेषु सर्वेषु तद्विकारविवर्जितः ॥३०॥ अतो नामाऽस्य देवेशाः पूर्णानंद इति स्फुटम् । कुरुध्वं
सर्वदाऽऽनंददायको नो भविष्यति ॥३१॥ तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः । चकार व्रतबंधं च पंचमे विष्णुरव्ययः
॥३२॥ कश्यपस्य गृहे देव्यौ संभूते पुत्रिकात्मिके । विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥३३॥ तस्मै ददौ मुदा
युक्तः कश्यपः संप्रहर्षितः । ननाम पूर्णानंदाय विप्रेशो भक्तिसंयुक्तः ॥३४॥ द्वादशाब्दवयो युक्तो बभूव गणनायकः ।
बालक्रीडनकेनैव मोहयामास देवपान् ॥३५॥ स्तनपानादिकं तस्य भोजनाच्छादनादिकम् । लक्ष्मीः स्वयं चकारैव
हर्षयुक्तेन चेतसा ॥३६॥ विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः । जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥३७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानंदावतारो नाम पंचचत्वारिंशोऽध्यायः ॥
❖❖❖
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
खं. ३ अ. ४६ पान ९९
॥ श्रीगणेशाय नमः ॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् । पूर्णानंदः कथं दैत्यं जघान कौतुकं
महत् ॥१॥ चराचराङ्गयं तस्य नास्ति नारायण प्रभो । अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥२॥ मुद्गल उवाच । युधिष्ठिर-
वचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् । तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥३॥ श्रीकृष्ण उवाच । पुत्रो बभूव दैत्यस्य
ज्ञानारेः सर्वसंमतः । एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥४॥ सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः । द्विजेरिता
द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥५॥ स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः । बालभावेऽपि विघ्नेशं चिंतयामास
सर्वदा ॥६॥ स्तनपानादिकं बालः सस्मार न कदाचन । माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥७॥ एवं सोऽपि
स्वमातृस्थः स्तनपानं चकार ह । सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥८॥ ततः पंच तथा सप्त मासास्तस्य गता
विभो । वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥९॥ धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् । चिक्षेप तत्र धूलिं
पूजोपचारककारणात् ॥१०॥ त्रिकालपूजनं तत्र चकार नियमेन सः । ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥११॥
एकदा भोजनार्थं च संस्थितो दैत्यनायकः । ज्ञानारिस्तं ददर्शैव क्रीडंतं बालभावतः ॥१२॥ गणेशाकारमूर्तिं वै भूमिमध्ये
चकार सः । पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥१३॥ ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः । पितुर्मम
निहंतारं भजतेऽयं तवात्मजः ॥१४॥ अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये । सावधानमना भूत्वा चेष्टाहीनं सुतं
कुरु ॥१५॥ पितृहंतारमेवायं करोति तनयो यतः । पुनर्हष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥१६॥ सा तथेति तमुच्चार्य
स्थिता विनयसंयुता । पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥१७॥ भर्तुर्गमनकाले सा संयता पुत्रमाददे ।
लालयामास तं तत्र न पश्यति यथा नृपः ॥१८॥ ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः । चकार भाषणं तत्र
वाचाऽस्पष्टस्वरूपया ॥१९॥ नमो हेरंब विघ्नेश गणेशाय महोदर । लंबोदराय विकटाय नमो ढुंढये नमः ॥२०॥
इत्यादिभावयुक्तश्च सस्मार गणपं सदा । अनन्यमनसा धर्मं तथा पूजापरायणः ॥२१॥ माताऽऽगृह्य ततः स्नेहवशात्पुत्रं
युधिष्ठिर । भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥२२॥ यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह । कदाचित् सा
स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥२३॥ निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती । कालातिक्रमणं चक्रे दुःखयुक्ता
युधिष्ठिर ॥२४॥ पंचमे व्रतबंधं च ज्ञानारिस्तस्य हर्षितः । चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥२५॥ कर्मभंगभयात्
सोऽपि पूजां चक्रे सुमानसीम् । ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥२६॥ ततो गुरुकुले राज्ञा स्थापितोऽभूत्
सुबोधकः । तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥२७॥ शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा ।
विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥२८॥ तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् । अतिष्ठद्विघ्नराजं स
संस्मरन् भक्तिलालसः ॥२९॥ विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् । सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितो-
ऽभवत् ॥३०॥ गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः । उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥३१॥ सुबोध
उवाच । ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः । गाणपत्या विशेषेण भजंते गणनायकम् ॥३२॥ भेदाभेदादिभिर्हीने
गणेशार्थे विचक्षणाः । मोहदामासुरीं विद्यां त्यक्त्वा वंद्या भवंत्यतः ॥३३॥ भवंतो ज्ञानशीलाश्च किं मां वदथ विप्रपाः ।
गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥३४॥ यदा स्वधर्मनिष्ठाश्चेद्व्राह्मणा वचनं तदा । तेषां ग्राह्यं न संदेहो नान्यथा
मोहकं कदा ॥३५॥ गुणयुक्तविहीनाश्चेद्व्राह्मणा मानवैः सदा । वंदनीया न संदेहः पूज्या सर्वत्र संमताः ॥३६॥ अतोऽहं
ब्राह्मणान् सर्वान्नमामि वचनं तथा । हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥३७॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा
विस्मितास्ते महर्षयः । ऊचुस्ते दैत्यपुत्रं वै शृणु धर्मं सुखप्रदम् ॥३८॥ दैत्याचार्या ऊचुः । सुबोध त्वं च बालोऽसि योगं वदसि
सूत्तमम् । स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥३९॥ न त्वया वेदविद्या या शिक्षिता सा महामते । तथाऽपि
कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥४०॥ सुबोध उवाच । माता गर्भवती मे गता पितृगृहं एकदा । तत्राऽऽययौ महाभागः
शुकः सर्वार्थकोविदः ॥४१॥ तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः । संपूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥४२॥
प्रह्लाद उवाच । व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् । त्वं जातोऽसि न संदेहो योगींद्राणां गुरोर्गुरुः ॥४३॥ पूर्वपुण्य-
बलेनैव प्राप्तं ते दर्शनं महत् । अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥४४॥ सर्वमान्यं च सर्वेषां योगशांतिप्रदं
भवेत् । नानामतविमोहस्य छेदकं वद विस्तरात् ॥४५॥ सुबोध उवाच । प्रह्लादस्य वचो रम्यं श्रुत्वा योगींद्रसत्तमः ।
जगाद तं महाभागं योगशांतिपरायणम् ॥४६॥ श्रीशुक उवाच । प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः । अतस्त्वां हि
विशेषेण वदामि हितकारकम् ॥४७॥ सर्वमान्यं तथा राजन् सर्वेभ्यः शांतिदायकम् । नानामतेषु सेव्यं यत् कथयामि
सविस्तरम् ॥४८॥ एकदा नैमिषारण्ये समाजग्मुर्महर्षयः । ब्रह्मांडस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥४९॥ यत्र योगमयी