सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. १ अ. ७ पान १७
दीयभक्तिं ये करिष्यंति सकामतः। निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥५२॥ चतुर्विधेप्ययं शेते पुरे तेनैव
पूरुषः। सोऽहंमात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥५३॥ सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति। बिंबबिंबित-
भावेन प्रकृतौ मोहितः सदा ॥५४॥ स्वयं मोहविहीनः स सोऽहंमात्रात्मकः सदा। मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं
सुखात्मकः ॥५५॥ मदीया भक्तिरचला भविष्यति तवापि च। तया बंधविहीनस्त्वं तथा मान्यो भविष्यसि ॥५६॥ तव
भक्तिं करिष्यन्ति जना भावेन संयुताः। तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥५७॥ ब्रह्मभूयपदं चैव दास्यसे
योगसेवया। साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥५८॥ प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो। तेनेयं सर्व-
सूर्विश्वं सृजिष्यति न संशयः ॥५९॥ सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा। कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥६०॥
सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते। नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥६१॥ इत्युक्त्वा गणराजस्तु
तत्रैवांतरधीयत। प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥६२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच। श्रुत्वेदं त्वन्मुखांभोजाद्धर्षश्चेतस्यजायत। पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥१॥
कथानां च रहस्यं यत्तद्देवैतन्न संशयः। पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥२॥ प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं
प्रचक्रतुः। अंतर्हिते निजानंदे गणेशे स्वेच्छया विभौ ॥३॥ मुद्गल उवाच। पार्वतीवचनं श्रुत्वा प्रहृष्टः शंकरोऽब्रवीत्।
कथां रसयुतां रम्यां पावनानां च पावनीम् ॥४॥ शंकर उवाच। शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम्। धन्यासि सादरा
जाता सप्रेमा विघ्ननाशिनी ॥५॥ अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा। सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥६॥
तपसा वरदानेन मोहयामास तत्क्षणात्। पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥७॥ नानाविभवयुक्तां तां दृष्ट्वा

[header]
खं. १ अ. ७ पान १८
[/header]

पुरुषसत्तमः । मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥८॥ संवीक्षिता महामाया पुरुषेण महात्मना । हावभावयुता तत्र
संस्थिता भक्तिभावतः ॥९॥ तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् । निक्षिप्तं सहसा देवि तेन सा गर्भवतीभूत् ॥१०॥
स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः । महता कालयोंगेन पूर्णो जातः प्रतापवान् ॥११॥ समये सुषुवे सा तं पुत्रं तेजो-
मयं परम् । तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥१२॥ अंतस्तु यत्स्थितं देवि सर्वांतर्यामि तत्परम् । लोकेषु च
महत्तत्वं ज्ञातव्यं तत्समाविना ॥१३॥ सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः । ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां
समास्थितः ॥१४॥ महता च ततः सृष्टं यदहंकाररूपकम् । स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥१५॥ अहं सर्वत्र
तिष्ठामि सदाधारमिदं स्मृतम् । तेनाहंकारनामा स सदाहंकरणात् शिवे ॥१६॥ स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् ।
इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥१७॥ त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि । सात्त्विको राजसश्चैव तामसः
कथ्यते बुधैः ॥१८॥ तेनाहंकरणस्यापि त्रिशक्तित्वं समागतम् । सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥१९॥
राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते । तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥२०॥ तत्रादौ तामसी शक्तिः
प्रेरिता विश्वयोनिना । निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥२१॥ आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये ।
स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥२२॥ वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् । तेजसश्च रसोत्पत्ती रसादापो
विनिःसृताः ॥२३॥ अद्भिश्च निर्मितो गंधो गंधाद्भूभिरजायत । तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥२४॥ तन्मात्रा
भूतसर्गश्च पंचपंचात्मकः स्वराट् । पंचभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥२५॥ ततो राजसशक्त्या च पंचभूतमयानि वै ।
इंद्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥२६॥ पंच ज्ञानेंद्रियाण्याहुर्ज्ञानरूपधराणि च । जिह्वा चक्षुस्त्वचा नासा
कर्णश्चैवाऽत्र पंचमः ॥२७॥ कर्मेंद्रियाणि पंचैव हस्तौ पादौ गुदं च वाक् । लिंगं पंचममत्रैव एभिः संजायते क्रिया ॥२८॥
पंच प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः । उदानश्च समानो वै राजसाः पंच वायवः ॥२९॥ सप्तधातुविभागार्थं क्रिया-
रूपा उदाहृताः । एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥३०॥ सात्त्विक्या मायया देवा इंद्रियाणां विनिर्मिताः ।
दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥३१॥ एता ज्ञानेंद्रियाणां च देवताः परिकीर्तिताः । अग्निविष्णुः प्रजापाल इंद्रो
मित्रश्च पंचमः ॥३२॥ एताः कर्मेंद्रियाणां वै देवताः परिकीर्तिताः । सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥३३॥

खं. १ अ. ७
पान १९

एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः। यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥३४॥ ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं
न च क्षमाः। तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥३५॥ प्रकृतिः पुरुषश्चोभौ मंत्रमेकाक्षरं परम्। अनुष्ठानविधायुक्तं
ददतुर्गणपस्य तौ ॥३६॥ ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम्। तेन संतुष्टतां यातो गणेशो गणवल्लभः ॥३७॥ प्रत्य-
क्षतां ययौ तेषां समीपे संस्थितो महान्। तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥३८॥ तत्त्वान्यूचुः। नमस्ते वक्रतुण्डाय
भक्तसंरक्षकाय च। सर्वाधीशाय सर्वाय गणानां पतये नमः ॥३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः। समाय
विषमायैव विघ्नेशाय नमो नमः ॥४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने। नामरूपधरायैव द्वाभ्यां हीनाय
ते नमः ॥४१॥ अनंतोदरसंस्थाय नानाभोगकराय च। भोगहीनाय सर्वत्र स्वानंदपतये नमः ॥४२॥ मायाधाराय वै तुभ्यं
मायाहीनाय ते नमः। मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥४३॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः। सिद्धिहीनाय
सिद्धाय सिद्धानां पतये नमः ॥४४॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः। कर्मणां फलदात्रे च कर्मरूपाय ते नमः
॥४५॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः। ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाथ ते नमः ॥४६॥ चतुर्विधधरायैव
चतुर्विधमयाय च। चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥४७॥ पाशाङ्कुशधरायैव दंताभयधराय च। चतुर्भुजाय वै
शूर्पश्रुतये तुंदिलाय च ॥४८॥ महते चैकदंताय महतां च महीयसे। लघवे लघुरूपाय लघूनां लाघवे नमः ॥४९॥ गजवक्त्राय
देवाय ब्रह्मणे ब्रह्मरूपिणे। ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥५०॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये।
नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥५१॥ कृतांजलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः। तान् दृष्ट्वा गणराजस्तु हृष्टः
सन् प्रत्युवाच ह ॥५२॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥

[शीर्षक: खं. १ अ. ८ | पान २०]

॥ श्रीगणेशाय नमः॥ श्रीशिव उवाच। शृणु देवि गणेशस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं चैव स्मरणेन
सुसिद्धिदम् ॥१॥ गजाननः प्रसन्नात्मा परमात्मा परात्परः । भक्तानंदकरः साक्षादूचिवान् भक्तिभावितः ॥२॥ श्रीगजानन
उवाच। भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसंतुष्टो भक्त्या स्तोत्रेण भावतः ॥३॥ भवत्कृतमिदं
स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥४॥ विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् ।
स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥५॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात्
वांछितं लभते परम् ॥६॥ श्रीशिव उवाच। गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः । ऋषयस्तं प्रणम्यादावूचुस्ते हृष्ट-
मानसाः ॥७॥ आदिऋषय ऊचुः। प्रसन्नो भगवंश्चद्य यदि देयो वरो महान् । त्वदीयामचलां भक्तिं देहि नो गणनायक ॥८॥
सृष्टिसामर्थ्यमत्यंतमस्माकं त्वत्प्रसादतः । अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥९॥ यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु
सर्वदा । बंधहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥१०॥ तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् । ददौ तेषामभीष्टं स
महादेवि महप्रदः ॥११॥ श्रीगजानन उवाच । दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः । इत्युक्त्वान्तर्दधे ढुंढिः ऋषीणां पश्यतां
खलु ॥१२॥ स्वानंदॆ च गते देवे गणेशे परमात्मनि । खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥१३॥ गणेशवरदानेन ज्ञानं
प्राप्य महाद्भुतम् । बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥१४॥ परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा । तेनैक-
भावतां प्राप्तास्तस्मादण्डं बभूव वै ॥१५॥ तस्मिन्नंडे पुमानादिरेकः सर्वात्मशक्तिमान् । जातो वै भगवान् साक्षाद् गुणेशो
गुणवल्लभः ॥१६॥ महता कालयोगेन देहात्तस्य विनिःसृताः । आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥१७॥ कालेनावयवी
जातस्ततः संपूर्णदेहवान् । तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥१८॥ स एव निःसृतः साक्षादसंख्यातार्कसन्निभः ।
अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥१९॥ सर्वतो हस्तपादो वै सर्वतो नासिकोदरः । सर्वतोऽक्षिमुखोऽनंतः सर्वतः
श्रुतिमान् बभौ ॥२०॥ असंख्यावयवो देवो ह्यसंख्योदारविक्रमः । असंख्यलीलया युक्तः परमात्मस्वभाववान् ॥२१॥
आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः । महतां च महीयान् यो यस्य पारो न दृश्यते ॥२२॥ अणुभ्योऽणुतरो देवो
रोमरन्ध्रेषु यस्य वै । ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चांबरे ॥२३॥ महाकारणनामा वै तुरीयो देहधारकः ।
आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥२४॥ गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते । सर्वात्मा सर्वरूपश्च नाददेहधरः

खं. १ अ. ८ पान २१
प्रभुः ॥२५॥ गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः । तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥२६॥ आपः
शरीरसंस्पृष्टास्तत्र सुप्तोऽयमीश्वरः । नारायण इति प्राप्तं नाम तस्य महात्मनः ॥२७॥ आपो नरप्रसूताश्च तेन नाराः
प्रकीर्तिताः । ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥२८॥ भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् । ब्रह्मेति तेन
संप्राप्तं नाम तस्य प्रभावतः ॥२९॥ वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः । सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम्
॥३०॥ सर्वेषां यत्नदाता स कालरूपेण वर्तते । चालकस्तेन नामाभून् महादेव इति प्रभोः ॥३१॥ कर्मणामयमाधारो जातः
सूर्य इति स्मृतः । मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥३२॥ इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा । गुणेशस्तु
तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥३३॥ कारणानां च सर्वेषां कारणं च न संशयः । महाकारणमेतच्च पुराणेषु प्रपठ्यते
॥३४॥ कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः । पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥३५॥ त्रिदेहो गुणतश्चायं
वामे राजसतां गतः । सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥३६॥ एतादृशो महात्मसावादिदेवो गुणेश्वरः ।
अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥३७॥ सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् । बहुकाले व्यतिक्रान्ते
प्रसन्नोऽभूद्गजाननः ॥३८॥ आगतो देवदेवेशो धेनुर्वत्समिवाऽदरात् । बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥३९॥
श्रीगणेश उवाच । एकाक्षरस्य मंत्रस्य जपेन तपसाऽपि ते । प्रसन्नोऽहं महाबाहो गुणेश वृणु वांछितम् ॥४०॥ इत्येवं बोधितो
देवि गणेशेन कृपावता । गुणेश्वरः प्रतुष्टाव भक्तिभावसमन्वितः ॥४१॥ गुणेश उवाच । नमामि देवं गणनाथमीशं सदा
सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशांतयोगेश्वरमानतोऽस्मि ॥४२॥ अयोगरूपं कथितुं त्वशक्यं
निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशांतयोगेश्वरमानतोऽस्मि ॥४३॥ सदा समाधिस्थमनंतपारं
प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशांतयोगेश्वरमानतोऽस्मि ॥४४॥ विदेहयोगेन च सांख्यरूपं
जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ न हितं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥४५॥ सुसंस्थितं सर्वविलासयुक्तं
हृद्विज्ञबोधात्मक्रमादिदेवम् । अभेदमात्रं परमार्थरूपं सुशांतयोगेश्वरमानतोऽस्मि ॥४६॥ अनादिमध्यान्तमनेनपारं सुसंवृतं
संततमात्मरूपम् । गणेशमाद्यं पुरुषं पुराणं सुशांतयोगेश्वरमानतोऽस्मि ॥४७॥ अनादिरूपं प्रकृतिप्रभेदं सदा
सुबिंद्रात्मकमप्रमेयम् । अमायिकं मोहकरं प्रसिद्धं सुशांतयोगेश्वरमानतोऽस्मि ॥४८॥ गुणेषु रूपेण विराजमानमपारम-

खं. १ अ. ८ पान २२
व्यक्तमयं गणेशम् । गुणैर्विहीनं गुणचालकं च सुशांतयोगेश्वरमानतोऽस्मि ॥४९॥ समस्वरूपं जगदीश-
मेकं सुषुप्तिरूपं सकलावभासम् । अनादिमायामयमोहधारं सुशांतयोगेश्वरमानतोऽस्मि ॥५०॥ जगन्मयं सूक्ष्मविभूति-
धारं हिरण्मयं स्वप्नगतं गणेशम् । जनस्य विज्ञानकरं पुराणं सुशांतयोगेश्वरमानतोऽस्मि ॥५१॥ स्तुतं सदा देवमुनीन्द्र-
सिद्धैः स्थितं जगन्मोहमयं प्रसिद्धम् । सदा परं स्थूलविहारयुक्तं सुशांतयोगेश्वरमानतोऽस्मि ॥५२॥ असत्स्वरूपं विविधे-
ष्वभेदं गणेशमायामयशक्तिरूपम् । मनोवचोहीनमहानुभावं सुशांतयोगेश्वरमानतोऽस्मि ॥५३॥ रविस্বরূপं ह्यमृतं
पुराणंमभेदमेकात्मकमात्मरूपम् । अखंडमानंदघनं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥५४॥ समं सदा विष्णुमचिन्त्य-
भावमभेदभेदादिविवर्जितं च । सदा सुखानंदमयं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥५५॥ अचिन्त्यरूपं सकलैर्विहीनं
सदाशिवं मोहविहीनमाद्यम् । अपारवेशं स्वसुखावभासं सुशांतयोगेश्वरमानतोऽस्मि ॥५६॥ पदार्थरूपं विविधप्रभेदं
विकारयुक्तं परमप्रमेयम् । बोधात्मकं त्वंपदरूपमेव सुशांतयोगेश्वरमानतोऽस्मि ॥५७॥ अखंडमेकात्मकविश्वरूपं विकारहीनं
महदप्रमेयम् । गणेशमेकं हृदि तत्पदस्थं सुशांतयोगेश्वरमानतोऽस्मि ॥५८॥ गणेश चैते विविधस्वरूपाः कलावतारा भवतो
हि भव्याः । सुशांतमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥५९॥ यदा च सर्वात्ममयं वदामि तदा तु सोऽहं
प्रकृतिस्वरूपम् । गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये ॥६०॥ मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं
णकारम् । निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥६१॥ न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि
ढुंढे । गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥६२॥ जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् । येन
दृष्टो गणाधीशः कृतकृत्योऽस्मि सांप्रतम् ॥६३॥ मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि । देहि मे परमेशान यया
मोहो विनश्यति ॥६४॥ सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् । निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥६५॥ गुणेशवचनं
श्रुत्वा सुप्रसन्नो गजाननः । मेघगांभीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥६६॥ श्रीगणेश उवाच । भविता मे महाभक्तिः सृष्टीनां
रचनास्तथा । नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥६७॥ भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ । महाकार्ये
समुत्पन्ने दास्येऽहं दर्शनं च ते ॥६८॥ स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति । पठतां शृण्वतां चैव ब्रह्मभूतकरं

खं. १ अ. ९ पान २३


महत् ॥६९॥ स्तोत्रं ब्रह्मणपतेः साक्षान्नाम्ना वै स्तुतिसारकम् । भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥७०॥ सकामेभ्यो
जनेभ्योऽपि कामदं चिंतितप्रदम् । निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥७१॥ मम प्रीतिकरं पूर्णं सारं सर्वत्र
भाषितम् । त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥७२॥ श्रीशिव उवाच । इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः ।
देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥७३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥८॥

॥ श्रीगणेशाय नमः । श्रीशिव उवाच । वरदानप्रभावेण गुणेशो ज्ञानवान्भूत् । समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥१॥
तस्य निःश्वासतो वेदा निःसृता रूपधारिणः । सर्वज्ञानकराः साक्षाद्भास्वंतो गुरवः सताम् ॥२॥ पश्चात्तेन गुणेशेन सम-
भूतात्मकं जगत् । सृष्टं सुषुप्तिसंज्ञं च महत्तत्त्वादिभिः समैः ॥३॥ आनंदव्यवहारत्वात् प्रधानमिति कथ्यते । कारण द्वंद्व-
भावानां तेन कारणकं स्मृतम् ॥४॥ माया तमःकरी यस्मात्तेन तामसतां गतम् । समानव्यवहारं च प्रधानं मोहदं बभौ ॥५॥
स्वस्यापि जडभावश्च तेन न ज्ञायते सदा । किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥६॥ तपः कृतं महोग्रं च दिव्यं वर्ष-
सहस्रकम् । तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥७॥ स्तुतः प्रपूजितस्तेन कारणेन महायशाः । सामर्थ्यं योगरूपं
च ददौ परमभावितः ॥८॥ वेदैश्चापि कृतं घोरं तपः परमदारुणम् । तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥९॥ वेदैश्च
संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः । ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥१०॥ गणेशशांतिकेनैव यजुस्तं स्तुत-
वत्तथा । नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥११॥ अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः । इत्यादि गाणपत्यैश्च
स्तोत्रैर्नानाविधैः स्तुतः ॥१२॥ पूजितो मूलमंत्रेण संतुष्टस्तेन विघ्नहा । सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥१३॥ सर्व-
मान्या जगत्पूज्या वेदास्तेन कृतास्तदा । सांगोपांगसमाचारा गुरवस्ते मताः खलु ॥१४॥ पार्वत्युवाच । तमोगुणमयं स्वामिन्

खं. १ अ. ९
पान २४


प्रधानं समरूपकम् । वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥१५॥ मुद्गल उवाच। प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः ।
तां प्रत्युवाच भगवान् स्मयन्निव सुशांतधीः ॥१६॥ श्रीशिव उवाच। शृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने । विभूतिं तस्य
देवस्य त्वं वै भाग्यवती शिवे ॥१७॥ गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् । हिरण्यगर्भमांतर्यं सात्त्विकं स्वस्वरूप-
कम् ॥१८॥ महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम्। द्वंद्वविज्ञानमूलं तदंतरिक्षस्थितं बभौ ॥१९॥ बोधहीनेन तेनैव
तपस्तप्तं सुदुष्करम्। तेन तुष्टो गणेशानो वांछितं प्रददौ वरम् ॥२०॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । हिरण्य-
गर्भो भगवान् स्वप्रमायाधरः प्रभुः ॥२१॥ तेन स्थूलस्वरूपं यत्सृष्टं राजससंज्ञकम् । जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूल-
रूपिभिः ॥२२॥ ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम्। तपसा चैव संतुष्टो गणेशः करुणानिधिः ॥२३॥ प्रत्यक्षतां ययौ
तस्य जाग्रदन्नमयस्य च । तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥२४॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् ।
ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥२५॥ जाग्रत्स्वप्नसुषुप्त्याख्यव्यवस्थाप्रचुराणि च । भिन्नभिन्नानि जातानि कोटिशः
कोटिशः खलु ॥२६॥ गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च । अंडानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥२७॥
व्याप्यरूपाणि चांडानि व्यापकश्च गुणेश्वरः । तयोर्भेदभावे सा प्रकृतिर्ब्रह्मबिंदुकम् ॥२८॥ जाग्रता सृष्टमाकाशं ब्रह्म
सर्वप्रकाशम् । शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥२९॥ आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मकवान् । वायुना रूप-
तन्मात्रं तेजः सृष्टं प्रकाशवत् ॥३०॥ तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणः। अद्भिर्गन्धगुणा पृथिवी सृष्टा धारण-
धर्मिका ॥३१॥ तत्रैकैकप्रवेशेन पंचीकरणभागतः । पृथिवी पंचगुणा जाता चतुर्भूतप्रवेशनात् ॥३२॥ आपश्चतुर्गुणा जाता-
स्त्रयाणां संप्रवेशनात् । तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥३३॥ वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् ।
आकाशमेकगुणभृद्भूतानां ब्रह्मसंज्ञितम् ॥३४॥ पंच भूतानि जातानि व्यवस्थासंयुतानि च । अष्टधा प्रकृतिः प्रोक्ता कोश-
रूपा सुशोभना ॥३५॥ तत्र कोशीस्वरूपेण गुणेशो बिंबितो यतः । तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥३६॥ अष्टा-
वरणसंयुक्तमण्डं सृष्टं स्वभावतः। तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥३७॥ पंचाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो
मया च ते। आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥३८॥ तस्माद्दशाधिको वायुस्तस्मात्खं वै दशाधिकम् ।
तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥३९॥ तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् । द्वितीयं नाम तस्यापि

खं. १ अ. १० पान २५
कथ्यते मुनिभिः सदा ॥४०॥ तस्माद्दशगुणा माया ज्ञेया सौषुप्तिकाऽधिका। गुणेशः पुरुषो ज्ञेयोऽनंतोऽपारश्चतुर्थकः ॥४१॥
विराडावरणं कृत्वा स्थिता पृथ्वी सनातना। अद्भिः समावृता पृथ्वी तेजसापः समावृताः ॥४२॥ वायुना चावृतं तेजः
खेन वायुः समावृतः। अहंकारेण संवृत्तमाकाशं देवि सर्वतः ॥४३॥ अहंकारश्च महता संवृतो राजसः स्वयम्। मायया
च महत्तत्त्वं संवृतं स्वप्नसंज्ञितम् ॥४४॥ मायावरणमान्त्यं च ज्ञातव्यं विबुधैः परम्। अष्टावरणसंयुक्तमण्डं ते कथितं
मया ॥४५॥ अण्डान्येतादृशान्येवासंख्यातानि प्रिये बभुः। तिर्यगूर्ध्वमधस्तद्वद् गुणेशेन धृतानि च ॥४६॥
ओमिति श्रीमदान्ते पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ पार्वत्युवाच। श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम्। कीदृशोऽयं महाभाग तन्मे कथय
शंकर ॥१॥ शिव उवाच। पंचकोटिप्रविस्तारे योजनानां समंततः। तस्य देहे च भूतानि स्थावराणि चराणि च ॥२॥
संस्थितानि च सर्वाणि भुवनानि चतुर्दश। तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः शृणु ॥३॥ पादयोस्तस्य पातालं गुल्फे
तस्य रसातलम्। पाष्ण्योर्महातलं तस्य जंघयोश्च तलातलम् ॥४॥ सुतलं जानुभागेऽस्य वितलं तूरुमंडले। अतलं
कटिसंधौ च कट्यां भूलोकसंस्थितिः ॥५॥ नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः। महर्लोकश्च कंठे वै जनो लोको
मुखे स्थितः ॥६॥ तपो लोको ललाटे च सत्यलोकः शिरःस्थितः। एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥७॥ सहस्र-
शीर्षशोभाढ्यः सहस्राननपादवान्। सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥८॥ सर्वत्र व्याप्यभावेन स्थितोऽसौ
परमेश्वरः। मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥९॥ तस्यांतरे स्थितं रूपं नाम्ना हैरण्यगर्भकम्। एतादृशं तथा स्वप्नं
विश्वरूपं विराजति ॥१०॥ बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः। हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥११॥ उभयोः
समभावेन बाह्यांतरस्वरूपतः। ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥१२॥ त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति।

खं. १ अ. १० पान २६
तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥१३॥ अथ शृणु विभिन्ननामुत्पत्तिं त्वल्पभावनाम् । नानाभावधरां तां वै चराचर-
मयीं पराम् ॥१४॥ विराडज्ञानभावेनावृतस्तेन तपः कृतम् । एकाक्षरविधानेन गणेशं संदधौ हृदि ॥१५॥ सोऽतपत्तप
उग्रं च दिव्यवर्षसहस्रकम् । तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥१६॥ बोधयामास तं देवो वरं ब्रूहीति
सोऽब्रवीत् । गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥१७॥ धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् । धन्या मे
संपदो देव त्वदंघ्रियुगदर्शनात् ॥१८॥ इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् । वाचा संस्पष्टया हृष्टो भगवान् विश्व-
धारकः ॥१९॥ विराडुवाच । नमस्ते गणनाथाय गणानां पतये नमः । विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥२०॥ सिद्धि-
बुद्धिपते तुभ्यं नानासिद्धिप्रदायिने । नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥२१॥ मनोवागतिभूताय योगिनां हृदि
वासिने । नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥२२॥ नमो नमो महेशाय शिवाय शिवदायिने । सर्वत्र समभावाय
विष्णवे प्रभविष्णवे ॥२३॥ तेजोरराशिफ्ते तुभ्यं भानवे ते नमो नमः । नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥२४॥
स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च । सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥२५॥ सर्वेभ्यो भिन्नरूपाय माया-
हीनाय ते नमः । मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥२६॥ गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः । अतो
मयि गणेशान कृपयाऽनुग्रहं कुरु ॥२७॥ इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् । वैराटः पुरुषस्तत्र कृतांजलिपुटः
स्थितः ॥२८॥ भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः । वरं वरय दास्यामि शंकां मा कुरु विश्वप ॥२९॥ इदं त्वया
कृतं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥३०॥ यं यं चिन्तयते कामं तं तं दास्यामि
वांछितम् । भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥३१॥ इत्युक्तवन्तं गणनाथमाद्यं वैराटदेवः प्रणनाम तं वै । भावेन
युक्तो वचनं जगाद हृष्टः स्वयं विघ्नहरं प्रभुं च ॥३२॥ वैराट उवाच । यदि तुष्टोऽसि देवेश यदि देयो वरो महान् । तव
भक्तिं दृढां देहि यया मोहो विनश्यति ॥३३॥ अतुलं सर्जनं सृष्टेः पालनं हरणं तथा । करोमि त्वत्प्रसादेन भक्तेभ्यो
भुक्तिमुक्तिद ॥३४॥ ऐश्वर्यमतुलं देहि गजानन महाप्रभो । यं यमिच्छामि तत्सर्वं सिध्यतु त्वत्प्रसादतः ॥३५॥ शिव उवाच ।
तथेति वचनं चोक्त्वा गणेशोऽन्तरधीयत । विराट् हर्षेण संयुक्तो गणेशं हृद्यभावयत् ॥३६॥ एवं देवि च सर्वत्र नानाण्डेषु
स्थितैः परैः । वैराटैस्तैः कृतं पूर्णं गणेशतप उत्तमम् ॥३७॥ तेन सर्वे महात्मानः स्वस्वकर्मणि संस्थिताः । निर्विघ्ना वरदानेन

सं. १ अ. ११ पान २७
भगवंतः सनातनाः ॥३८॥ अनंतानि प्रजानीहि ब्रह्माण्डानि न शक्यते । वक्तुं केनापि हेरंबं विना तानि यथायथम् ॥३९॥
सततं गणनाथोऽपि न संख्यातुं प्रवर्तते । गणना शब्दशास्त्रेषु यावती ह्यधिकं ततः ॥४०॥ अतः केनापि संख्यानं न
कृतं वेदवादिना । अनंतानि महाण्डानि ज्ञातव्यानि जगन्मयि ॥४१॥ एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते । गणेशो
ध्यानलोभी च भक्तेशो भक्तवत्सलः ॥४२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच । भगवन् देवदेवेश कृपां कृत्वा वदस्व मे । वैराटेन कथं सृष्टं जगत्स्थावरजंगमम् ॥१॥
अन्यच्च ब्रूहि मे नाथ ध्यानमार्गं पुरातनम् । येन साक्षात्करिष्यामि गणेशं नाऽत्र संशयः ॥२॥ मुद्गल उवाच । इति पृष्टो
महादेव्यै महादेवः प्रहृष्टवान् । कथां परमपुण्यां च कथयामास तां शृणु ॥३॥ दक्ष उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि
जायते । कथयस्व महाभाग शिवेन कथितं तु यत् ॥४॥ मुद्गल उवाच । धन्योऽसि दक्ष लोकेषु येन सादरता च ते । गणेशे-
ऽमृतधारायां कथायां नाऽत्र संशयः ॥५॥ प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत् । धन्या धन्या महाभागे शृणु सादर-
मादितः ॥६॥ शिव उवाच । गणेशं मनसा ध्यात्वा वैराटः स्रष्टुमारभत् । तस्य नाभेः समुत्पन्नो ब्रह्मा लोकपितामहः ॥७॥
मुखाद्विष्णुर्जगत्पाता नेत्राच्चाऽहं हरोऽभवम् । सृष्टिस्थितिलयाधारास्त्रिरूपगुणधारकाः ॥८॥ वामांगाच्छक्तिरुत्पन्ना त्वं
वै पार्वति मोहिनी । दक्षिणांगाद्रविः साक्षात्कर्माधारः समाभवत् ॥९॥ पंच देवाः समुत्पन्ना भिन्ना जाताः स्वभावतः ।
न विदुः किंचिदात्मानं वैराटं चापि शोभने ॥१०॥ अंधे तमसि सर्वत्र बभ्रमुर्बहुकालतः । न किंचित्प्रापुरायासात् स्थिताः
परमदुःखिताः ॥११॥ किं कर्तव्यं क्व गन्तव्यमज्ञानेनावृता भृशम् । कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् ॥१२॥ अथ
चिंतयतां तेषां बुद्धिर्जाता सुनिश्चिता । तपः कर्तुं समारब्धं यस्मै कस्मै नमोऽस्त्विति ॥१३॥ सर्वेषां मूलभूतं यद्यादृशं

खं. १ अ. ११ | पान २८
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
तादृशं खलु । स्वधीस्थं तत्समाचिंत्य तपस्तप्तं सुदारुणम् ॥१४॥ तपसा गणनायस्तु प्रसन्नोऽतरमाश्रितः । तत्र दृष्टिः समु-
त्पन्ना तेषां वै भावितात्मनाम् ॥१५॥ हृदये बीजरूपं यत्स्फुरत्तद् दृष्टमद्भुतम् । एकाक्षरं महामंत्रं प्राप्य तं हर्षमाययुः ॥१६॥
तं मंत्रं जपमानैस्तैस्तदारभ्य जगन्मयि । तेन मंत्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् ॥१७॥ दिव्यवर्षसहस्रेण प्रत्यक्षः सम-
जायत । गणेशो भक्तिभावेन पुरस्तेषां समुत्थितः ॥१८॥ अनंतकोटिसूर्यौजाः शुंडादंडविराजितः । चतुर्बाहुधरो लंबोदरः
साक्षात् विभूषितः ॥१९॥ भूषणैरायुधैश्चैव सिद्धिवुद्धिसमन्वितः । भक्तानंदकरः श्रीमानाखुवाहो महाद्युतिः ॥२०॥ तं
दृष्ट्वा भयभीतास्ते देवाः शंभुपुरोगमाः । किमिदं तेज आयाति प्रलयाग्निसमं महत् ॥२१॥ अस्मान् धक्ष्यति किं देवः विघ्नेश
करुणानिधे । तव भक्ता वयं स्वामिन् कथं विघ्नेन भाविताः ॥२२॥ इति तेषां वचः श्रुत्वा त्वभवत्सौम्यरूपवान् । तं
दृष्ट्वा हर्षिताः सर्वे प्रणेमुर्भावपूर्वकम् ॥२३॥ गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुता । तया सर्वे यथातथ्यं ज्ञातं तैः
पंचभिः पुरः ॥२४॥ ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः । हृष्टरोमाण एवं ते स्रवदश्रुजलाविलाः ॥२५॥ पंचदेवा ऊचुः ॥
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥२६॥ हेरंबाय नमस्तुभ्यं ढुंढिराजाय
ते नमः । विनायकाय देवाय ब्राह्मणां नायकाय च ॥२७॥ लंबोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय
चतुर्हस्त नमोऽस्तु ते ॥२८॥ लंबोष्ठायैकदंताय सर्वेशाय गणाधिप । अनंतमहिमाधार धरणीधर ते नमः ॥२९॥ नमो
मायामयायैव मायाहीनाय ते नमः । मोहदाय नमस्तुभ्यं मोहहंत्रे नमो नमः ॥३०॥ पंचभूतमयायैव पंचभूतधराय च ।
इंद्रियाणां चाधिपायेंद्रियज्ञानप्रकारिणे ॥३१॥ अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः । अन्नायान्नपते तुभ्यमन्नान्नाय
नमो नमः ॥३२॥ प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे । चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥३३॥ विज्ञानाय
च विज्ञानपतये द्वंद्वधारिणे । विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥३४॥ आनंदाय नमस्तुभ्यमानंदपतये नमः ।
आनंदा नंददात्रे च कारणाय नमो नमः ॥३५॥ चैतन्याय च यत्नाय चेतनाधारिणे नमः । चैतन्येभ्यः स्वचैतन्यदायिने
नादरूपिणे ॥३६॥ बिंदुमात्राय बिंदूनां पतये प्राकृताय च । भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥३७॥ सोऽहंमात्राय
शून्याय शून्याधाराय देहिने । शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥३८॥ ज्ञानाय बोधनाथाय बोधानां बोधकारिणे ।
मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥३९॥ विदेहाय नमस्तुभ्यं विदेहाधारकाय च । विदेहानां विदेहाय सांख्यरूपाय

खं. १ अ. ११ पान २९
ते नमः ॥४०॥ नानाभेदधरायैव चैकानेकादिमूर्तये। असत्स्वानंदरूपाय शक्तिरूपाय ते नमः ॥४१॥ अमृताय सदाखंड-
भेदाभेदविवर्जित। सदात्मरूपिणे सूर्यरूपधाराय ते नमः ॥४२॥ सत्यासत्यविहीनाय समस्वानंदमूर्तये। आनंदानंद-
कंदाय विष्णवे ते नमो नमः ॥४३॥ अव्यक्ताय परेशाय नेतिनेतिमयाय च। शिवाय शाश्वतायैव मोहहीनाय ते
नमः ॥४४॥ संयोगेन च सर्वत्र समाधौ रूपधारिणे। स्वानंदाय नमस्तुभ्यं मौनभावप्रदायिने ॥४५॥ अयोगाय नमस्तुभ्यं
निरालंबस्वरूपिणे। मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥४६॥ शांतिदाय नमस्तुभ्यं पूर्णशांतिप्रदाय ते। योगानां
पतये चैव योगरूपाय ते नमः ॥४७॥ गणेशाय परेशाय ह्यपारगुणकीर्तये। योगशांतिप्रदात्रे च महायोगाय ते नमः ॥४८॥
गुणांतं न ययुर्यस्य वेदाद्या वेदकारकाः। स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥४९॥ तेन वै भगवान् साक्षाच्चिता-
मणिगजाननः। प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥५०॥ इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे।
गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥५१॥ श्रीगणेश उवाच। पंचदेवा महाभागाः प्रसन्नो भवतां स्तवैः। तपसा च
तथा भक्त्या वांछितं ब्रूत वै वरम् ॥५२॥ भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम्। मम प्रीतिकरं भक्त्या
सर्वदं प्रभविष्यति ॥५३॥ यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक्। पुत्रपौत्रयुतः श्रीमानंते स्वानंदमाप्नुयात् ॥५४॥
सप्तवारं पठेन्नित्यमेकविंशतिवासरम्। कारागृहगतो वाऽपि मुच्यते बंधनात् स्वयम् ॥५५॥ एककालं द्विकालं वा त्रिकाल-
मपि यः पठेत्। स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥५६॥ मारणोच्चाटनादिभ्य एकविंशतिवारतः। तावद्दिनानि
पाठेन तस्य नैव भयं भवेत् ॥५७॥ धनधान्यादिकं सर्वमारोग्यं पशुवर्धनम्। यं यं चिंतयते कामं तं तं प्राप्नोति निश्चि-
तम् ॥५८॥ शिव उवाच॥ गणेशवचनं श्रुत्वा हृष्टा विष्णुवादयः सुराः। प्रणिपत्य गणाधीशं कृतांजलिपुटा जगुः ॥५९॥
पंचदेवा ऊचुः। सनाथा हि वयं जाताः सर्वे त्वय्यागते प्रभो। वरं देहि गणाधीश तव भक्तिं दृढां तथा ॥६०॥ तेन माया
न बाधेत नरान् देवानपि प्रभो। किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा ॥६१॥ सामर्थ्यं विविधं देहि भजतां कामपूरणम्।
स्थानं सदानंदनाम देहि नाथ नमोऽस्तु ते ॥६२॥ गणेश उवाच॥ चतुर्मुख महाबाहो रजोगुणसमुद्भव। सृष्टिकर्ता भव त्वं
वै ब्रह्मा नाम्ना महाद्युते ॥६३॥ सत्यलोकनिवासी तु हंसवाहनवान् भव। वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पितामहः ॥६४॥
चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः। पालकः सर्वलोकानां विष्णुनामा भविष्यसि ॥६५॥ वैकुंठे वसतिस्ते स्यात्

खं. १ अ. १२

वाहनं गरुडस्तव। नानावतारांश्चापि भविष्यसि महाबलः ॥६६॥ पंचवक्त्र महातेजस्तमोगुणसमुद्भव। संहारकारको नित्यं
हरनामा भविष्यसि ॥६७॥ कैलासे वसतिस्तेऽस्तु वाहनं वृषभस्तथा। तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि ॥६८॥
सहस्रकिरण त्वं वै सूर्यनामा भविष्यसि। कर्मणां चालकत्वात् षड्‌ऋतुधर्मप्रकाशकः ॥६९॥ त्रिगुणानामहंभावात्त्वं जातोऽसि
प्रकाशकः। रथोऽश्वालंकृतश्चापि वाहनं ते भविष्यति ॥७०॥ सौरलोके निवासश्च ग्रहराजो भविष्यसि। वृष्टिमूलं त्वमेवाऽसि
तेजोराशिः प्रतापवान् ॥७१॥ चतुर्भुजे महाशक्ते त्वं जाताऽसि त्रिदेहतः। नानाविषयभोगार्थं सदेहा मोहकारिणी ॥७२॥
शक्तिनाम्नी महामाया भविष्यसि न संशयः। द्विधा मोहप्रदात्री त्वं भुक्तिमुक्तिभ्रमात्मिका ॥७३॥ सिंहवाहनगा नित्यं
शक्तिलोकनिवासिनी। नानाभोगविमोहेन जगत्सर्वं मोहयिष्यसि ॥७४॥ महाकार्ये समुत्पन्ने प्रत्यक्षोऽहं भवामि वै।
मत्तुल्याः सर्वभावेन कृता देवा न संशयः ॥७५॥ आयुधं भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतम्। संकल्पसिद्धतां चैव ददौ
तेभ्यो गणाधिपः ॥७६॥ शिव उवाच। इति दत्त्वा वरान् देवो गणेशोऽन्तर्दधे स्वयम्। तेऽपि हृष्टा निजात्मानं कृतकृत्यं च
मेनिरे ॥७७॥ भजतां भक्तिभावेन कामपूराः कृता वयम्। परमेश्वरतां प्राप्ताः प्रसादाद्गणपस्य च ॥७८॥

ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते पंचदेववरप्रदानं नामैकादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ शौनक उवाच। सूत सूत महाप्राज्ञ परमानंददायक। कथाममृतरूपां च कथयस्व महाद्युते ॥१॥ वयं
प्रसन्नतां याताः कृतकृत्या यथा तथा। सुकथामृतपानेन स्वानंदेन परिप्लुताः ॥२॥ कथयस्व कथां दिव्यां पंचदेवैश्च किं
कृतम्। विस्तारेण यथाख्यायं येन मुक्ता भवाम च ॥३॥ श्रुत्वा तेषां मुनीनां च वचनं भक्तिभावितम्। हृष्टः सूतः पुनः
प्राह कथां पापप्रणाशिनीम् ॥४॥ सूत उवाच। एवमेव स दक्षेण पृष्टो योगीश्वरो महान्। मुद्गलस्तं यथोवाच तथा वच्मि
महामुने ॥५॥ मुद्गल उवाच। शृणु दक्ष महाभाग पार्वत्या शिवसन्निधौ। यत्पृष्टं यच्छ्रुतं सर्वं कथयामि सविस्तरम् ॥६॥

खं. १ अ. १२ पान ३१
पार्वत्युवाच । भगवन् देवदेवेश तारिताऽहं त्वया प्रभो । सुकथामृतपानेन कृतकृत्याऽस्मि सांप्रतम् ॥७॥ पंच देवाः समर्थाश्च
प्राभवन् वरदानतः । किं चक्रुस्ते महात्मानः कथयस्व विधानतः ॥८॥ गणेशभक्तियुक्तं चेच्चरितं कथयस्व मे । अथवा
गाणपत्यानां चरितं ब्रह्मदायकम् ॥९॥ व्यर्थसंलपनेनायुर्नाशः कार्यो न शोभनैः । धन्यास्ते साधवो लोका गणराड्भक्ति-
भाविताः ॥१०॥ मुद्गल उवाच । प्रियाया वचनं श्रुत्वाऽतिहृष्टः स महेश्वरः । उवाच स्मयमानश्चालिंग्य देवीं महायशाः ॥११॥
शिव उवाच । धन्याऽसि पार्वति त्वं च सार्थकं जन्म ते परम् । भक्त्या धृतो गणेशोऽयं हृदि तेन वरानने ॥१२॥ गणेशभक्ति-
युक्ता ये नरास्ते ब्रह्मरूपिणः । दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः ॥१३॥ गणेशं यः परित्यज्य सिद्धिमिच्छति
शाश्वतीम् । स मूढात्मा तु विज्ञेयो नारकी नात्र संशयः ॥१४॥ अन्यदेवस्य ये भक्ता गणेशं नार्चयंति चेत् । तेषां न
भविता सिद्धिर्नरेकेषु पतंति ते ॥१५॥ सुधां संत्यज्य रूक्षान्नं सेवते दुर्मतिर्यथा । गणेशानं तथा त्यक्त्वाऽन्यस्य देवस्य
सेवकः ॥१६॥ अस्माकं जनको माता सर्वेषां नात्र संशयः । ज्येष्ठराज इति ख्यातस्तेनादौ पूज्यकोऽभवत् ॥१७॥
त्यक्त्वा गणेशं मूढात्मा देवादीनपि पूजयेत् । गणेशोल्लंघनात्तं वै क्षिपामो नरके वयम् ॥१८॥ गणेशनिंदको जंतुरस्माकं
भक्तिकारकः । नारकी भज्जितः सद्योऽस्मद्गुरुद्वेषकारकः ॥१९॥ अतस्त्वं धन्यरूपाऽसि सर्वेषां मूलबीजकम् । भजसि त्वं
गणेशानं भक्तिभावसमन्विता ॥२०॥ सत्यं देवि त्वया प्रोक्तं गाणेशानां प्रकीर्तनम् । गणेशस्य च वा कार्ये तेन जन्म
कृतार्थकम् ॥२१॥ गणेशं प्रार्थयामीति शृणु चिंतामणे प्रभो । चित्ते निवासकारिन् वै गजानन महोदर ॥२२॥ गाणपत्या
महाभागास्तेषां संगः सदास्तु मे । तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥२३॥ अग्रे मे गाणपत्यास्ते पृष्ठे वामे च
दक्षिणे । सर्वत्र सह तैर्वासो गाणपत्यैर्भवत्विति ॥२४॥ येषां मुखारविन्देषु गणेशचरितं बभौ । भवबंधहरं पूर्णमिहा-
ऽमुत्र सुखप्रदम् ॥२५॥ चरितं गाणपत्यानां गणराट्सेवनात्मकम्। अहर्निशं प्रभवति चेष्टदं ढुंढिभक्तिदम् ॥२६॥ तारितोऽहं
त्वया देवि कथां पृच्छसि मां पुनः । गणेशभक्तिपूतां वा भक्तानां तस्य भावतः ॥२७॥ प्रष्टुः श्रोतुश्च वक्तुर्या ब्रह्म-
भूयपदप्रदा । इह तां तु वदामि त्वां गाणेशीं सुखदायिनीम् ॥२८॥ पंचदेवास्तथा जाता यथा गणपतिः स्वयम् । वरदः
कथयामास ईश्वराज्ञानभाविताः ॥२९॥ पंचलोकाः समुद्भूता वरदानप्रभावतः । निराधारा अखंडाश्चावसंस्तेषु
विभागशः ॥३०॥ कैलासे शंकरश्चैव वैकुंठे विष्णुरेव च । सौरलोके रविः शक्तिलोके चैव जगन्मयि ॥३१॥ सत्यलोके

खं. १ अ. १२ पान ३२
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
तथा ब्रह्मा वसति स्म मुदान्वितः । ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥३२॥ सत्यसंकल्पवंतस्त ईश्वरा ब्रह्ममानिनः ।
बहुकालेन तेषां वै मत्सरः समजायत ॥३३॥ अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः । हृदये मन्यमानास्ते विवादं
चक्रुरंजसा ॥३४॥ आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः । तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥३५॥ जले
शैवालवल्ली च समुत्पन्ना क्रमेण वै । बहुकालेन तन्मध्ये पृथिवी जाता स्वभावतः ॥३६॥ लीलार्थं विष्णुना सृष्टं नाभ्यां
कमलमुज्ज्वलम् । शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥३७॥ सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः । एककाले
जगाम स्म तत्र ब्रह्मा पितामहः ॥३८॥ कमलं तेन संदृष्टं विस्मितो हृदये भृशम् । केन सृष्टमिदं दिव्यं पद्मं
परमशोभनम् ॥३९॥ तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णवे । प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥४०॥ ब्रह्मणो
वचनेनैव समुत्तस्थौ जनार्दनः । ब्रह्माणं मानयामास स्वागतं भो पितामह ॥४१॥ तत्र ब्रह्मा महाविष्णुं प्रत्युवाच
समत्सरः । किं मोहार्थं त्वया सृष्टं पद्मं परमशोभनम् ॥४२॥ अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः । मया
प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥४३॥ सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन । मदधीनश्च सर्वेषां
भावस्तेनाहमीश्वरः ॥४४॥ ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः । उवाच मधुरं वाक्यं ब्रह्माणं सांत्वयन्निव ॥४५॥
विष्णुरुवाच । सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह । लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥४६॥ समत्सर-
मिदं वाक्यं त्वयोक्तं यत् पितामह । अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥४७॥ नान्यो पातास्ति मत्तस्ते सर्वेषां
पातृभावतः । अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥४८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

[शीर्षक]
खं. १ अ. १३ | पान ३३


॥ श्रीगणेशाय नमः ॥ शिव उवाच ॥ शृणु देवि कथां पुण्यां गणेशप्रीतिवर्धिनीम्। यज्जातमादिकाले वै तत्तेऽहं कथयामि
च ॥१॥ विष्णोर्वचनमाकर्ण्य गर्वयुक्तं प्रभावतः। भगवांस्तमुवाचेदं वेदकर्ता पितामहः ॥२॥ ब्रह्मोवाच ॥ विष्णो त्वं
यदि मां पाता सर्वेशश्च महान् प्रभुः। पश्योदरगतो भूत्वा प्रभावं मे जगद्गुरो ॥३॥ ब्रह्मणो गिरमाकर्ण्य प्रविष्टोऽसौ
जनार्दनः। योगमायाबलेनैव योगीशो जठरे विधेः ॥४॥ ब्रह्मांडरचनां तत्र दृष्ट्वा नानाविधां पराम्। नाभिपद्मयुतं
विष्णुं ददर्श पुरुषोत्तमः ॥५॥ विस्मितो हृदि मोहेन किमद्भुतमिदं महत्। पश्यन्नांतं जगामाऽसौ निःसृतो
देहमध्यतः ॥६॥ निःसृतः प्रणिपत्याऽऽदौ तं विधिं त्ववदत्प्रभुः। ब्रह्मन्नांतं प्रजानामि त्वदीयं वै न संशयः ॥७॥
त्वदीयजठरेऽहं वै स्थितस्तेन भवान् गुरुः। सर्वेशो नात्र संदेहः स्रष्टा त्वं स्वप्रभावतः ॥८॥ त्वमेव भगवन् पश्य मदीये
जठरे परम्। प्रभावं पूर्णभावेन मदीयं कीदृशं प्रभो ॥९॥ नारायणवचः श्रुत्वा ब्रह्मा विस्मितमानसः। योगस्यैव
प्रभावेण गतस्तत्र यथारुचि ॥१०॥ विष्णोश्च जठरे ब्रह्मा ब्रह्मांडं लोकसंकुलम्। ब्रह्माणमपरं तत्र स्थितं पश्यन्
विमोहितः ॥११॥ ब्रह्मा नान्तं जगामाऽसौ पश्यन् पश्यन् महात्मनः। बहिर्गंतुं मनश्चक्रे विष्णुना मार्ग आवृतः ॥१२॥
द्वाराणि योगभावेन पिहितानि स्वमायया। भ्रमन् भ्रमन् स्वयं ब्रह्मा प्राप नो मार्गमुत्तमम् ॥१३॥ तत्र योगबलेनाऽपि
ब्रह्मा वै पद्मनालतः। निर्भिद्य सहसा द्वारं ययौ तेन बहिर्विधिः ॥१४॥ बहिरागत्य विष्णुं तं क्रोधेन स जगाद ह।
वशमानीय मां किं त्वं स्वच्छंदो भवसि प्रभो ॥१५॥ अहं स्वेन प्रभावेण निःसृतो योगमायया। द्वाराणि पिहितान्येव
किमर्थं वद माधव ॥१६॥ वचनं प्राह देवस्य श्रुत्वा विष्णुर्महायशाः। प्रहस्य तमुवाचेत्थं स्नेहयुक्तं समाहितः ॥१७॥
विष्णुरुवाच। वशीकर्तुं विधे त्वाहमिच्छामि न जगद्गुरो। द्वाराणि पिहितान्येव मया क्रीडार्थमादरात् ॥१८॥ परस्परं तु
लीलार्थं कृतं यत्प्रपितामह। प्रभावं ज्ञातुकामस्य त्वपराधं क्षमस्व मे ॥१९॥ इति प्रसादितो ब्रह्मा प्रसन्नः प्राह तं पुनः।
क्रीडार्थं यत्त्वया विष्णो कृतं ज्ञातं न वै मया ॥२०॥ अहं क्रोधसमायुक्तः संजातोऽज्ञानतः प्रभो। अप्रियं भाषणं विष्णो
यत् क्षमस्व कृतं मया ॥२१॥ तवांतं नैव जानामि जठरेऽहं समास्थितः। त्वं श्रेष्ठो मे गुरुः साक्षान्नात्र संशयवान् हरे ॥२२॥
भवानहमतः प्राज्ञौ श्रेष्ठौ सर्वेश्वरौ परौ। शंभुः शक्तिश्च सूर्यश्च गर्वयुक्ता बभूविरे ॥२३॥ तेषां प्रमाणं तज् ज्ञेयमिति
सस्मरतुः प्रभू। तयोः स्मरणमात्रेण संययुस्तत्र ते त्रयः ॥२४॥ प्रथमं प्राप्तवांस्तत्र शंकरः शूलधृक् प्रभुः। उक्तवांस्तौ

[हेडर]
खं. १ अ. १३ | पान २४


किमर्थं मे स्मरणं वदतं कृतम् ॥२५॥ तत्रोचतुर्हरिर्ब्रह्मा शृणु शंकर मे वचः । तवैश्वर्यं कियन्मात्रं दर्शयस्व सदाशिव ॥२६॥
तयोर्वचनमाकर्ण्य गर्वयुक्तः सदाशिवः । उवाच क्रोधसंयुक्तो वचनं विस्मयन्निव ॥२७॥ शिव उवाच । अहं हर्ता च सर्वेषां
युवयोर्नात्र संशयः । मत्तः परं न किंचिद्वै ज्ञातव्यं सर्वभावतः ॥२८॥ इत्युक्त्वा स स्वयं शंभुर्दर्शयामास तौ वपुः ।
ज्योतीरूपं महालिंगं परं सर्वत्र संस्थितम् ॥२९॥ तत्तौ दृष्ट्वा महाश्चर्यं विस्मितौ विधिमाधवौ । अध ऊर्ध्वं पुरः पश्चाद्वाम-
दक्षिणसंततम् ॥३०॥ तत्र ब्रह्मा स्वयं विष्णुमुवाच मधुरं वचः । अधस्त्वं गच्छ देवेश ऊर्ध्वं गच्छामि भावतः ॥३१॥
शिवस्यांतं प्रपश्यावः कीदृशोऽयं महेश्वरः । अतस्त्वं त्वरितो भूत्वा कुरु शीघ्रमिदं वचः ॥३२॥ इत्युक्तो ब्रह्मणा विष्णुस्तं
प्रत्यूचे प्रभावतः । ब्रह्मन्मह्यं वरं देहि पश्चादंतं समुत्सहे ॥३३॥ भ्रांतो ब्रह्माऽभवत्तत्र वरं ब्रूहीति सोऽब्रवीत् । दास्यामि
नात्र संदेहः प्रीतस्त्वं वरयाशु च ॥३४॥ विष्णुरुवाच । त्वं मे पुत्रो भव ब्रह्मन्नेष एव वरो मतः । तस्य तद्वचनं श्रुत्वा
विस्मितो विधिरब्रवीत् ॥३५॥ वंचितोऽहं त्वया नूनं संभ्रमेऽस्मिन् समुत्थिते । दत्तो वरो यतस्तेन तव पुत्रो
भवाम्यहम् ॥३६॥ सृष्टिकाले च संप्राप्ते त्वन्नाभिकमलात् स्वयम् । देहं सृजामि योगेन पद्मजोऽहं तवात्मजः ॥३७॥
इत्युक्तः स हरिस्तत्र तं प्रणम्य तथेति च । प्रविष्टोधः शिवस्यापि द्रष्टुं पारं महात्मनः ॥३८॥ ब्रह्माऽपि त्वरितो भूत्वोर्ध्वं
ययौ पारलिप्सया । न तत्र पारमीशस्य प्राप्तवान् स पितामहः ॥३९॥ विष्णुश्च शंकरस्याधो न पारं दृष्टवान् ततः ।
बहुकालेन तौ तत्राऽऽगतौ तौ खिन्नमानसौ ॥४०॥ परस्परविचारेण शंकरं स्तोतुमुद्यतौ । बद्धांजलिपुटावेतौ स्तोत्रं
चक्रतुरुत्तमम् ॥४१॥ ब्रह्मविष्णू ऊचतुः । नमस्ते शंकरायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यंबकाय नमो
नमः ॥४२॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥४३॥ प्रसीद भगवन् शंभो नांतं
पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथंचन ॥४४॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन
ते भजनं देव जनाः कुर्वंति निर्भयाः ॥४५॥ तयोर्वचनमाकर्ण्य शंभुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च
भगवान् विधिः ॥४६॥ वामभागे स्थितं विष्णुं दक्षिणांगे पितामहम् । विश्वं चराचरं सर्वं लिंगे तत्रास्य संस्थितम् ॥४७॥
अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥४८॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शंकरः प्रभुः ।
भगवान् पूर्वरूपेण संतस्थौ वृषभध्वजः ॥४९॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोर्भावात् स्तोत्र-

खं. १ अ. १४ पान ३५
संतुष्टमानसः ॥२०॥ य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥२१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पंचदेवविवादो नाम त्रयोदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शिव उवाच । शृणु देवि प्रवक्ष्यामि यज्जातं चाद्भुतं ततः । गणेशमायामोहेन मोहितानां चरित्रकम् ॥१॥
शिवस्य वचनं श्रुत्वा विष्णुर्ब्रह्माणमब्रवीत् । वरं वृणु विरिंच त्वां शिवात्पुत्रो भवेति मे ॥२॥ तव पुत्रः शिवो जातस्तेन
मे पौत्रतां गतः । उभयोः सफलं पूर्णं वांछितं जातमद्भुतम् ॥३॥ विष्णोर्वचनमाकर्ण्य विधिः शंकरमब्रवीत् । मम पुत्रो
भव त्वं वै वर एष वृतो मया ॥४॥ विष्णुनाऽपि तदेवोक्तं तथा वै शंकरोऽब्रवीत् । तव भालाद्भविष्यामि रुद्रोऽहं त्वंशतो
विधे ॥५॥ शिवस्य वचनं श्रुत्वा संतुष्टौ विधिमाधवौ । ऊचतुः शंकरं तत्र स्नेहात्तं भावपूर्वकम् ॥६॥ विधिवच्छिव
पश्य त्वमैश्वर्यं चावयोः पृथक् । तेन तुष्टौ महादेव भविष्यावो न संशयः ॥७॥ तयोर्यदैश्वरं भावं शिवोपि ज्ञान-
चक्षुषा । दृष्ट्वा नांतं जगामाऽसौ तौ पुनः प्रत्युवाच ह ॥८॥ भवतोर्महिमानं चापारं पश्यामि शाश्वतम् । वयं त्रयः समा-
ख्याता ईश्वराः सर्वतः पराः ॥९॥ एतस्मिन्नंतरे तत्राऽजगाम स दिवाकरः । तेजोराशिः सदात्मा च पृच्छति स्म
समाहितः ॥१०॥ किमर्थं स्मरणं देवा मदीयं कृतमादरात् । तन्मे कथयताद्य त्वागतोऽहं स्नेहतः परम् ॥११॥
भानोर्वचनमाकर्ण्य प्रहृष्टास्ते त्रयो भृशम् । ऊचुः प्रसन्नभावेनैश्वर्यं ते दर्शय प्रभो ॥१२॥ तेषां श्रुत्वा गिरं सौम्यां
दर्शयामास रूपकम् । तेजोमयमपारं यच्चराचरमयं महत् ॥१३॥ सूर्यस्य तेजसा सर्वे निष्प्रभास्ते त्रयः कृताः । प्रणष्टदृष्टयो
जाता न शेकुर्दृष्टुमंजसा ॥१४॥ ज्ञानदृष्ट्या च तं दृष्ट्वा चराचरतनुं प्रभुम् । अपाररूपं भास्वंतं नतास्तं स्नेहभावतः ॥१५॥
दर्शयित्वा तथात्मानं सौम्यरूपोर्यमाऽभवत् । तमूचुस्ते त्रयो देवा नांतं ददृशिम प्रभो ॥१६॥ अस्माकमपि पश्य
त्वमैश्वर्यं स्नेहभावतः । तेषां तद्वचनं श्रुत्वा रविर्हृष्टो बभूव ह ॥१७॥ ज्ञानदृष्ट्या रविस्तेषामैश्वर्यं दृष्टवान् परम् । उवाच
प्रणतो भूत्वा विस्मितश्चेतसा भृशम् ॥१८॥ भवंतोऽपि महात्मानो नांतं पश्यामि सर्वतः । युष्माकमैश्वरं भावमद्भुतं

खं. १ अ. १४ पान ३६
दृष्टवानहम् ॥१९॥ वयं सर्वेश्वराः सर्वे भगवंतः सनातनाः । न्यूनाधिकं कलामात्रं विद्यते नैव निश्चितम् ॥२०॥
तस्मिन् क्षणे स्वयं शक्तिरागता मोहिनी परा । उवाच तान् प्रसन्ना मे किमर्थं स्मरणं कृतम् ॥२१॥ तामूचुस्ते च चत्वारो
देवाः स्नेहेन भाविताः । दर्शयस्व महादेवि ऐश्वर्यं कीदृशं तव ॥२२॥ इत्युक्ता सा स्वरूपं तद्दर्शयामास सुंदरम् । चराचरमयं
पूर्णं स्थूलसूक्ष्मादिभिर्युतम् ॥२३॥ दृष्ट्वा रूपं तदीयं वै भ्रांतास्ते शरणं ययुः । नांतं ददृशिमार्ये ते रूपस्य महतः
किल ॥२४॥ सौम्यरूपा तदा जाता तामूचुः पश्य भावतः । अस्माकं देवि चैश्वर्यं कीदृशा वयमेव च ॥२५॥ तेषां
वचनमाकर्ण्य ज्ञानदृष्ट्या स्म पश्यति । नांतं जगाम तेषां वै नता सा तान्विशेषतः ॥२६॥ उवाच स्नेहभावेन नांतं
पश्यामि कुत्रचित् । भवंतोऽपि महात्मान ईश्वराः पूर्णभावतः ॥२७॥ वयं पंच समा नाथा नांतरं दृश्यते क्वचित् । कः समर्थो
भवेद्देवो निश्चयो नैव दृश्यते ॥२८॥ गणेशमायया भ्रांता अवदंस्ते परस्परम् । प्रभुरेकश्च सर्वत्र वेदे वै पठ्यते बुधैः ॥२९॥
प्रभवः पंच कुत्रापि नोक्ताः शास्त्रेषु संमताः । अतः कोपि प्रभुर्भाव्यः स च वै कुत्र वर्तते ॥३०॥ एवं विवादे संप्राप्ते
विस्मृतं ज्ञानमायकम् । गाणेशं चित्तचांचल्यादूर्ध्वं जग्मुः प्रभावतः ॥३१॥ न किंचिद्ददृशुस्तत्राधो भागे प्रययुस्ततः । एवं
दश दिशो भ्रांताः पश्यंतस्ते परस्परम् ॥३२॥ न किंचिद्ददृशुस्तत्र स्थिता एकत्र ते पुनः । योगमार्गेण चित्ते खे ध्यानं चक्रुः
क्रमेण च ॥३३॥ ब्रह्माऽभेदस्वरूपं ते रेमिरे योगभावनः । एकीभूता इवात्मानः शांतिं प्राप्ताः स्वभावतः ॥३४॥
ततस्तान् दर्शयामास योगिध्येयमनुत्तमम् । स्वरूपं गणराजस्तु हृदये संस्थितं परम् ॥३५॥ चतुर्भुजं त्रिनेत्रं तच्छुंडादंडविरा-
जितम् । एकदंतं शूर्पकर्णं वक्रतुंडं महोदरम् ॥३६॥ रक्तवर्णं महाकायं सिंदूरालिप्तमेव च । नाभिशेषं किरीटादिनानाभूषण-
शोभितम् ॥३७॥ सिद्धिवृद्धियुतं पूर्णं विभूतिभिरुपासितम् । चिंतामणिं मणिं चैव दधत्तु हृदये शुभम् ॥३८॥ प्रसन्नवदनं
भक्तानुग्रहाणं प्रकारकम् । हृदि दृष्ट्वाऽभवन्नेव विस्मितास्ते सुराः प्रिये ॥३९॥ तमादौ शंकरस्यैव हृदि प्रकटतां गतः ।
तं पप्रच्छ स्वयं शंभुः को भवान् वद मे प्रभो ॥४०॥ शांतियोगेन संप्राप्तः किं न ब्रह्मपतिः परः । कथयस्व महाभाग त्वां
न जानामि तत्त्वतः ॥४१॥
॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते गणेशप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥