सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 94, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 94

त्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ ४४ ॥ चराचमयो भूत्वा क्रीडसि त्वं पितामह । एकानेकप्रभेदेन त्वं
स्थितोऽसि जगत्प्रभो ॥ ४५ ॥ अणुभ्योऽणुरतरस्त्वं च महद्भ्यश्च महान् किल । कस्तवां स्तोतुं समर्थः स्याद् ब्रह्माकारेण
संस्थितम् ॥ ४६ ॥ महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् । प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ ४७ ॥ यदि प्रसन्नतां
यातो यदि देयो वरो महान् । तदा मे वांछितं सर्वं पूरयस्व प्रजापते ॥ ४८ ॥ राज्यं त्रैलोक्यस्य तथा मह्यं देहि
पितामह । पंचभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ ४९ ॥ संग्रामे मत्सभः कश्चिन्नान्यः स्यान् मां कुरु प्रभो ।
अखंडैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ ५० ॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह । तपसा तोषितस्तस्मै
दातुमुत्सुकतां गतः ॥ ५१ ॥ ब्रह्मोवाच । त्वया यत्प्रार्थितं दंभ तत्सर्वं प्रहविष्यति । अन्यद्यच्चिंतितं तत्ते सिद्धरूपं
भविष्यति ॥ ५२ ॥ इत्युक्त्वांतर्दधे ब्रह्मा दंभः संहर्षितोऽभवत् । स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ ५३ ॥ नगरं
शोभनं नाम कारयामास दर्पितः । पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ ५४ ॥ ततो दैत्यगणाः सर्वे शुक्रेन
प्रेरिता मुने । आययुस्तत्र दंभस्य नगरे हर्षिता भृशम् ॥ ५५ ॥ शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः । दैत्यराज्यं
स दंभायाऽभवद्दातुं स उद्यतः ॥ ५६ ॥ शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् । ब्राह्मणैर्दैत्यराजानां राजा दंभो
बभूव ह ॥ ५७ ॥ महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः । हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ ५८ ॥ सर्वे स्वस्वगृहे
जग्मुस्ततो हर्षसमन्विताः । मुख्याश्च संस्थितास्तत्र दैत्याः परमदारुणाः ॥ ५९ ॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नगरे दंभदैत्यस्य महोत्सवयुता बभुः । जनाः सर्वे महाभागाः कंचित्कालं प्रजापते ॥ १ ॥
एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् । सुहुंडश्च तथा हुंडो रुक्मकेतुर्महाबलः ॥ २ ॥ मद्यपश्व सकोपश्च तथा क्रोधासुरो
महान् । कामासुरो बलाढ्यश्च रासभासुर एव च ॥ ३ ॥ इत्याद्या बहवश्चान्ये दंभं शोभासमन्वितम् । प्रणम्योचुर्महात्मान
उत्सुका देवनाशने ॥ ४ ॥ दैत्येशा ऊचुः । किं स्थितोऽसि महाराज वयं दासाः समागताः । त्रिभुवनं प्रजेष्यामो