सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 905, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 905

खं. ८ अ. ४० पान ९६
स गणेशं भयोद्विग्नः सस्मार हृदि सर्वपम्। राक्षसास्तस्य सान्निध्यमाजग्मुर्भक्षणार्थिनः ॥३७॥ दृष्ट्वा स जलमादाय
गणेशाय नमो इति। मंत्रमुच्चार्य तान् दुष्टान् सिषेच भयसंकुलः ॥३८॥ गणेशनाममंत्रेण मंत्रितेन जलेन ते। स्पृष्टा
जातिस्मरा जाता रुरुदुस्तं प्रणम्य तु ॥३९॥ ऊचुः प्रांजलयो भूत्वा नादकरं महामुने। राक्षसा दुःखसंयुक्तास्तं प्रणम्य
दयायुतम् ॥४०॥ राक्षसा ऊचुः। वयं ब्राह्मणजातिस्था पूर्वजन्मनि शृङ्गज। तत्राचारविहीनाश्चाभवाम स्म निरंतरम् ॥४१॥
यथेच्छं विषये सक्ता मृता यमगृहे गताः। यमेन विविधेष्वेव निक्षिप्ता नरकेषु च ॥४२॥ भुक्त्वा पापभवं दुःखं राक्षसा
मानदायक। जाताः क्षुधासमाविष्टा भ्रमामो यत्र तत्र तु ॥४३॥ दैवयोगेन ते साधो दर्शनं भाग्यगौरवात्। प्राप्तं ते
जलपातेन वयं जातिस्मराः कृताः ॥४४॥ अधुना तारयास्मां स्त्वं शरणं त्वां समागतान्। देहि पुण्यं महाभाग गणेश-
कीर्तने भवम् ॥४५॥ एवं तेषां नादकरो वचः श्रुत्वा दयायुतः। ज्ञात्वा माहात्म्यमुख्यं तानुवाच नामसंभवम् ॥४६॥
नादकर उवाच । गणेशकीर्तनस्यैव पुण्यं वक्तुं न शक्यते। कथितं गुरुभिः पूर्वं ब्राह्मणैस्तत्त्वकोविदैः ॥४७॥ अतो
राक्षसजातिस्था वचः शृणुत मे हितम्। चातुर्मास्ये मया नित्यं कीर्तनं क्रियते परम् ॥४८॥ एकनाम्नो भवं पुण्यं दास्यामि
दयया युतः। चातुर्मास्ये कृतस्यापि कीर्तनस्य न संशयः ॥४९॥ तेन बंधनहीनाश्च भविष्यथ विचक्षणाः। एवमुक्त्वा
ददौ तेभ्यः पुण्यं नामैकसंभवम् ॥५०॥ दत्ते पुण्ये समायातास्तत्र गाणेशदूतकाः। तान् गृह्य निजलोकं तेऽभवन् गता
महामुने ॥५१॥ गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूता बभूविरे। एवं व्रतस्य माहात्म्यं कथने नैव शक्यते ॥५२॥ चातुर्मास्यभवं
चित्रं चरितं कथितं मया। संक्षेपेण महाविप्र भुक्तिमुक्तिफलप्रदम् ॥५३॥ शृणुयाच्छ्रावयेद्यस्तु पठेद्भावसमन्वितः।
सोऽपि व्रतफलं लब्ध्वा मनसेप्सितमाप्नुयात् ॥५४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः ॥