सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 68, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 68

खं. १ अ. ३० पान ६८
॥ श्रीगणेशाय नमः॥ मुद्रल उवाच । गणानां च पिशाचानां वचनं दारुणं महत् । श्रुत्वा शिवः स्वयं तत्र युद्धार्थं
दंशितोऽभवत् ॥ १ ॥ ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् । चंद्रः सूर्यस्तथा वह्निस्समीराद्याश्च दंशिताः ॥ २ ॥
कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः । कृत्वा युद्धक्षमं वेषं स्थिताः शंकरसन्निधौ ॥३॥ अष्टभैरवमुख्याश्च वीरभद्रा-
दयोऽभवन् । नंदी भृंगी पुष्पदंतमहाकालरवाः स्थिताः ॥४॥ महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः । एवं नानाविधैः
सैन्यैर्वृतः शंभुर्महेश्वरः ॥५॥ वृषारूढो महातेजा आययौ युद्धलालसः । यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥६॥
शंकरं सैन्यसंयुक्तं नानायुद्धविशारदम् । नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥७॥ तद् दृष्ट्वा कुपिता देवाः
शस्त्रास्त्रैस्तानताडयन् । एवं परस्परं युद्धमभवद्दारुणं महत् ॥८॥ देवानां चैव दैत्यानामन्योन्यजयकांक्षिणाम् । शस्त्रास्त्र-
निचयैर्बाणैरंधकारः प्रवर्तितः ॥९॥ सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ । न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव
च ॥१०॥ घंटानां शंखतूर्याणां वीराणां रथिनां तथा । बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ ११ ॥ देवान् दृष्ट्वा
सुरा जघ्नुर्दैत्यान् देवास्तथापरे । असंबंधं महायुद्धं चक्रिरे सुरदानवाः ॥१२॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसंचयम् ।
मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥१३॥ संग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि । मृता मुमूर्षवः केचिच्छिन्नभिन्ना-
स्तथाऽभवन् ॥१४॥ नानाजंतुशरीरेभ्यः प्रवृत्ता रक्तसंभवा । नदी बभौ महाघोरा मांसकर्दमशालिनी ॥१५॥ रक्ता
चास्थिबलाका च केशशैवालशोभिता । चापसर्पाशिरःपद्माकबंधद्रुमवाहिनी ॥ १६ ॥ भल्लकाष्ठा महाघोरा चामरैस्तृणकै-
र्युता । छत्रावर्ता दुर्गमा च चर्मपट्टिशदर्दुरा ॥ १७॥ भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी । तां दृष्ट्वा दैत्यराजास्ते
क्रोधयुक्ताः समाययुः ॥१८॥ तैः समंताद्वलं भग्नं देवानां सर्वमंजसा । बाणजालैर्दिशो व्याप्ता गंतुं मार्गो न विद्यते ॥१९॥
पलायनपरा देवाः सर्वे दशदिशोऽगमन् । तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥२०॥ द्वंद्वयुद्धं च तत्रासीत्परस्पर-
विनाशनम् । देवानां मुख्यदैत्यानां किंचित्तेषां वदामि ते ॥२१॥ नमुचिः कामदेवेन युयुधे बलसंयुतः । शंबरो वायुना सार्द्धं
शुंभो देव्या महाबलः ॥२२॥ चंद्रेणाऽपि निशुंभश्च गुहेन च विरोचनः । कालभैरवदेवेन कालभैरवदानवः ॥२३॥
महिषासुरदैतेयः कालाग्न्याख्यहरेण च । प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥२४॥ अंधकासुरनामा च
वीरभद्रेण संयुतः । अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥२५॥ विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् । शंभुना