मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 60, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. २६ पान ६०
भालानि लसत्कुंभधराणि च । घंटासांद्रनिनादैश्च नादितानि त्वितस्ततः ॥२६॥ महावीराश्रितान्येव कुंतलाद्यस्त्रकैस्तथा ।
पूर्णानि चंचलाश्चैव पर्वता इव शोभिताः ॥२७॥ गिरीणां चैव दंताग्रैर्भेदकानि प्रजापते । शुंडाभिर्वृक्षजालानां छेदकानि
महांति च ॥२८॥ मदेनासिक्रभालानि भ्रमरैर्गुजितानि च । रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥२९॥ निःसृतानि
पुरेभ्यश्च सेनाशोभाकराणि च । दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समंततः ॥३०॥ ततोऽश्वानां महासेना निःसृता
बलवत्तराः । चंचला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥३१॥ चामरैर्वीजिताश्चैव मनोवेगा महाबलाः । उड्डीयोड्डीय
धावंत आकाशे वायवो यथा ॥३२॥ खुराघातैर्विस्फुलिंगान् प्रस्रवंत इतस्ततः । नानाशास्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥३३॥
कालस्य भयदाः सर्वे नानायुद्धविशारदाः । अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥३४॥ तत्र केचिन्महादैत्याः
खरारोहा विनिःसृताः । अजयानाधिरूढाश्च गोवाहनविराजिताः ॥३५॥ महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः ।
सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥३६॥ इत्यादिरूपेषु वाहनेषु विराजिताः । निःसृता असुराः सर्वे यममत्तुमि-
वोद्यताः ॥३७॥ ततो रथसमारूढा रथिनो निःसृताः प्रभो । अपाराश्च महाक्रोधारुणनेत्रा भयंकराः ॥३८॥ रथाश्चालंकृतास्तत्र
मणिमुक्तादिभिः परैः । नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥३९॥ ध्वजैरलंकृताः पूर्णा अश्वैर्जवनशालिभिः ।
संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥४०॥ रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे । सिंहैर्गोभिर्गजैर्ऋक्षैर्नानापशु-
भिराबभुः ॥४१॥ तत्र वज्रसमांगैश्च खरैः शतमितैर्युतम् । अलंकृतं रथं दैत्यो मत्सरः स समारुहत् ॥४२॥ तस्याऽग्रे
तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः । विरोचनादयो दैत्याः समंताज्जग्मुराजिषु ॥४३॥ पृथिव्यां तस्य सैन्यं तत् समुद्र इव
संबभौ । महारथमहावीरयुद्धभूषणभूषितम् ॥४४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरसेनावर्णनं नाम पंचविंशोऽध्यायः ॥
॥ श्रीगणशाय नमः ॥ मुद्गल उवाच । ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् । हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥१॥
विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः । युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥२॥ दैत्याः पादप्रहारेण