मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 6, कुल 1023 में से
संदर्भ में पढ़ें[शीर्षक:]
खं. १ अ. ३ | पान ६
नारद येनाहं दुःखितो म्लानतां गतः । शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥७॥ दर्पेणैवावृतः शंभुस्तस्य दर्पहृतिः
कथम् । तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥८॥ नारद उवाच । बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः । यज्ञभागविहीनं
तं तत्र शंभुं कुरुष्व भोः ॥९॥ यज्ञभागेन हीनोऽयं देवपंक्तिबहिष्कृतः । पिशाचेशो भवेच्छंभुर्देवत्वं तत्र संहृतम् ॥१०॥
प्रजापतिपतिः साक्षाद्भवान्सर्वत्र संमतः । करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥११॥ एवं परम्पराप्राप्तं तस्यैश्वर्यं
प्रकाशितम् । इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥१२॥ इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले । वीणागानरतो
भूत्वा योगी ब्रह्मणि तत्परः ॥१३॥ दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् । बृहस्पतिसवं कर्तुं समारेभे स
तत्क्षणात् ॥१४॥ तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः । आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥१५॥ तत्राजग्मु-
र्द्विजाः सर्वे नानातत्त्वार्थकोविदाः । जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥१६॥ यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः ।
गणनाथविहीनं तं यज्ञं शंकरवर्जितम् ॥१७॥ गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् । दधीचिप्रमुखास्तत्र शैवाः
क्रोधेन पूरिताः ॥१८॥ दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः । शृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥१९॥ शंकरेण
विहीनोऽयं यज्ञो नैव प्रशोभते । प्राणहीनो यथा देहस्तथैवासौ न राजते ॥२०॥ इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः ।
उवाच गर्वमोहेन शापेनैव विमोहितः ॥२१॥ शिवोऽशिवरूपश्च पिशाचानामधीश्वरः । वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ-
कर्मणि ॥२२॥ यत्र लक्ष्मीपतिः साक्षाद् भगवान्मंगलालयः । तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥२३॥ श्रुत्वा
तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् । शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥२४॥ यज्ञनाशो भवेद् दक्ष शंकर-
द्वेषतस्तव । न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥२५॥ अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः । सर्वे कलि-
युगे पापाः पाखण्डाश्च भवंतु ते ॥२६॥ स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै । विष्णुः प्रमोद्युक्तोऽत्र स वै पाखंड-
कारकः ॥२७॥ कलौ देवो भवेन्नित्यं पाखंडानां सहायवान् । पाखंडप्रियवजन्तुः कलौ मलकरः सदा ॥२८॥ शिवहीने तथा
यज्ञे मुख्यो जातो हि केशवः । वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥२९॥ सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः ।
मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥३०॥ तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः । गौतमो गालवश्चैव वामदेवो
द्वितस्त्रितः ॥३१॥ मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः । यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥३२॥