सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 58, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 58

खं. १ अ. २४ पान ५८
आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् । ब्रह्मांडस्य च राज्यं मे देहि देहि सदाशिव ॥२६॥ मुद्गल उवाच । तस्यैतद्वचनं
श्रुत्वा शिवो विस्मितमानसः । देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥२७॥ किमुक्तं मत्सरेणैवं का
गतिर्वा भविष्यति । तपसोग्रेण संतुष्टः शिवस्तं प्रत्युवाच ह ॥२८॥ शिव उवाच । यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति ।
उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥२९॥ मुद्गल उवाच । वरान् सुदुर्लभान् प्राप्य मत्सरो गृहमागमत् । हर्षितो
हर्षयन् सर्वान् सुहृदो मातरं श्रियम् ॥३०॥ आह्लादेन सदा तत्र स्थितो मान्यैः स मानितः । नानाभोगान् प्रभुंजानः
सुहृद्द्वयः सुखदायकः ॥३१॥ पुत्रौ मदकरायां द्वौ जनयामास मत्सरः । अतिक्रांतियुतौ तुल्यौ पित्रा वीर्येण तेजसा ॥३२॥
सुंदरप्रिय इत्येवं नाम ज्येष्ठस्य सोऽकरोत् । विषयप्रियनामाभूत्कनिष्ठः प्रीतिदः परः ॥३३॥ एकस्मिन् दिवसे दैत्यः
श्वशुरस्य गृहं गतः । तत्र नानाविधा दैत्या मिलितास्तमबोधयन् ॥३४॥ दैत्या ऊचुः । किं स्थितोऽसि महातेजस्त्वद्दास्यवशगा
वयम् । जेष्ष्यामः सर्वदेवादींस्त्वत्साहाय्येन मत्सर ॥३५॥ त्वत्समो नैव वीरोऽस्ति ब्रह्मांड कुत्रचित्प्रभो । वरदान-
बलाढ्यस्त्वं निर्भयोऽसि महासुर ॥३६॥ आज्ञां देहि गमिष्यामो जेतुं देवान्न संशयः । शस्त्रास्त्रैस्तान्विनिर्भिद्य भवाम
स्वर्गभोगिनः ॥३७॥ मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा मत्सरस्तानुवाच ह । भवद्भिः कथितं सर्वं हितकारकमुत्तमम् ॥३८॥
ममापि हृदये नित्यमेवं वसति दानवाः । किं करोमि च मे माता निवारयति मां सदा ॥३९॥ इंद्रस्ते स पिता पुत्र देवाः
पूज्याः सवासवाः । अतो धर्मेण वर्तस्व येनेहपरलोकभाक् ॥४०॥ मत्सरस्य वचः श्रुत्वा दैत्यास्ते त्वब्रुवन् वचः । अखिलं
धर्मकरणं बाधादं भावपूर्वकम् ॥४१॥ दैत्या ऊचुः । शृणु मत्सर वृत्तांतं पुराभूतं स्वधर्मजम् । अस्माकमेव मान्यं यत्तव संशय-
नाशनम् ॥४२॥ जलंधरः समुत्पन्नः शिववीर्यान्महाबलः । तेन शंभुजितः संख्ये देवाः सर्वे च निर्जिताः ॥४३॥ पार्वतीं
दारभावार्थं ग्रहीतुं तूद्यतोऽभवत् । दैत्या एतादृशा जाता बहवो मत्सरासुर ॥४४॥ यत्र मान्याः संति देवास्तत्र दैत्याः
प्रदूषिताः । दैत्या मान्यास्तदा देवा दूषिताः प्रभवंति वै ॥४५॥ देवेंद्राः शत्रवः संति दैत्यानां सततं प्रभो । अतस्त्यक्त्वा
स्वसंदेहं जय देवान् महाबल ॥४६॥ त्यज तां मातरं पृथ्वीं मुनिदेवसहायिनीम् । वसात्र त्वं महाभाग अस्माभिः सहितः
सदा ॥४७॥ तेषां वचनमाकर्ण्य मत्सरोऽहितकारकम् । तथैव कृतवांस्तत्र त्यक्त्वा पृथवीमुवास ह ॥४८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुण्डचरिते मत्सरासुरसमागमो नाम चतुर्विंशतितमोऽध्यायः ॥