मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 48, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. २० पान ४८
दायकः । लोभासुरप्रहर्ता वै आखुगश्च प्रकीर्तितः ॥८॥ लंबोदरावतारो वै क्रोधासुरनिबर्हणः । शक्तिब्रह्माखुगः सचत्तस्य धारक
उच्यते ॥९॥ विकटो नाम विख्यातः कामासुरविदाहकः । मयूरवाहनश्चाऽयं सौरब्रह्मधरः स्मृतः ॥१०॥ विघ्नराजावतारश्च
शेषवाहन उच्यते । ममतासुरहंता स विष्णुब्रह्मेति वाचकः ॥११॥ धूम्रवर्णावतारश्चाभिमानासुरनाशकः । आखुवाहन
एवाऽसौ शिवात्मा तु स उच्यते ॥१२॥ एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः । एते भजनमात्रेण स्वस्व-
ब्रह्मप्रदायकाः ॥१३॥ स्वानंदवासकारी यो गणेशानः प्रकथ्यते । स्वानंदे योगिभिर्दृष्टो ब्रह्मण्येव न संशयः ॥१४॥
तस्यावतारभूताश्चाऽष्टौ विघ्नहरणाः स्मृताः । स्वानंदभजनेनैव लीनास्तत्र भवंति ते ॥१५॥ माया तत्र स्वयं लीना भविष्यति
सुपुत्रक । संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥१६॥ अयोगिगणराजस्य भजनेन विनश्यति । मायाभेदमयं ब्रह्म
निवृत्तिः प्राप्यते परा ॥१७॥ योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः । तत्र शांतिः समाख्याता योगरूपा जनैः
कृता ॥१८॥ नानाशांतिप्रभेदश्च स्थाने स्थाने प्रकथ्यते । शांतीनां शांतिरूपा सा योगशांतिः प्रकीर्तिता ॥१९॥ योगस्य
योग्यता दृष्टा सर्वब्रह्मसुपुत्रक । न योगात् परं ब्रह्म ब्रह्मभूतेन लभ्यते ॥२०॥ एतदेव परं गुह्यं कथितं वत्स तेऽखिलम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥२१॥ मया पूर्णं तपश्चीर्णं गणेशस्य महात्मनः । मह्यं दत्तो वरस्तेन वांछितो
भक्तितोषतः ॥२२॥ तव वंशे च गाणेशा भविष्यंति विशेषतः । तत्राऽपि मुद्गलोऽत्यंतं गाणपत्यो भविष्यति ॥२३॥ न
मुद्गलसमो भक्तो गणेशस्य प्रदृश्यते । न भूतो न भविष्यन् वा भक्तराजः स एकराट् ॥२४॥ मुद्गलस्य प्रणामेन स्पर्श-
भाषणदर्शनैः । वायुस्पर्शादिभिर्भावैरुद्धरिष्यंति जंतवः ॥२५॥ मह्यमेवं वरं दत्वा गणेशोऽतर्दधे सुत । स त्वं मुद्गल-
नामासि मम वंशस्य भूषणम् ॥२६॥ धन्यो वंशो मदीयोद्य गाणपत्यश्च यत्र वै । समुत्पन्ना महाभागा जंतूनां नारकाः
स्मृताः ॥२७॥ त्वं साक्षात् मूर्तिमांस्तेषु गाणपत्यः प्रतापवान् । समुत्पन्नो महायोगी भविष्यसि न संशयः ॥२८॥ मुद्गलं
चैवमुक्त्वातमंगिरा उपदिष्टवान् । एकाक्षरमहामंत्रं गणेशस्य यथाविधि ॥२९॥ गच्छ पुत्र त्वमद्यैव तपसे वनमुत्तमम् ।
आराधय गणेशं स दर्शनं ते प्रदास्यति ॥३०॥ प्रणम्याऽसौ चांगिरसं मुद्गलः प्रययौ वनम् । एकनिष्ठतया तेपे तपः पूर्णं
महाद्भुतम् ॥३१॥ एकाक्षरविधानेन सांगेन परितुष्टवान् । गणेशोऽब्दसहस्रेण दिव्येन च समागतः ॥३२॥ आखुवाहश्चतु-
र्बाहुः सिद्धिवुद्धिसमन्वितः । प्रमोदा मोदकाद्यैश्च संवृतो भक्तवत्सलः ॥३३॥ नानाभूषणशोभाढ्यो गजवक्रो महोदरः ।