सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 308, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 308

खं. ३ अ. ११
पान २४

धात्रे। पिशाचगंधर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥११॥ धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते।
वाताय चाकाशमयाय धात्रे नमो नमस्तेऽस्तु महोदराय ॥१२॥ अनादिमध्यांतविहारकाय सदादिमध्यांतमयाय चित्रम्। तत्त्व-
प्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥१३॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय। वैश्याय
शूद्राय तथाऽंतिमाय नमो नमस्तेऽस्तु महोदराय ॥१४॥ गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय। वर्णाश्रमैर्हीन-
मयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥१५॥ वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव। पशुस्वरूपाय च
पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥१६॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय। चराचराकारमयाय
नाग नमो नमस्तेऽस्तु महोदराय ॥१७॥ वरांकुशाद्यैश्च सुचिह्नितायोंदुरुध्वजायाऽऽखुसुवाहनाय। त्रिनेत्रधाराय च
शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥१८॥ स्वानंदलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन्। सदैकदंताय
चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥१९॥ महोदरायादिसुपूजिताय सुवस्त्रसंभूषणभूषिताय। प्रमोदमौदादिगणैः
स्तुताय नमो नमस्तेऽस्तु महोदराय ॥२०॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकंजपाणे। गणेश हेरंब च भक्तपोष
नमो नमस्तेऽस्तु महोदराय ॥२१॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण। विकारहीनाय सुबोधदाय नमो
नमस्तेऽस्तु महोदराय ॥२२॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन। तेषु त्वमेवं सुखभोगकारिन् नमो
नमस्तेऽस्तु महोदराय ॥२३॥ भानुरुवाच। एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः। समुत्पन्नो भक्तिरसस्तेन ते
नन्दतुः पुरः ॥२४॥ साश्रुनेत्रान् स रोमांचान् रुद्धकंठान् विशेषतः। तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥२५॥
गणेश उवाच। वरान् वृणुत देवेशा देवा मुनिगणास्तथा। भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥२६॥ गणेशवचनं
श्रुत्वा हर्षयुक्ताः सुरर्षयः। तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥२७॥ देवर्षय ऊचुः। यदि तुष्टोऽसि देवेश तदा ते
भक्तिमुत्तमाम्। देहि नो गणनाय त्वं तया तृप्ताः स्म सांप्रतम् ॥२८॥ त्वया शांतिधरो दुष्टः कृतो मोहासुरः प्रभो। तेन
सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥२९॥ अधुना तापसंहीनाः कृता गणपते वयम्। त्वं नाथोऽसि जगन्नाथ अनाथानां
करोषि तत् ॥३०॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः। तथेति तानुवाचैव गणेशोऽंतर्दधे द्विजाः ॥३१॥ देवाश्च मुनयः
सर्वे स्वस्वस्थानं ययुस्ततः। स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥३२॥ एवं मोहासुरं विप्राः शांतिरूपधरं प्रभुः। चकार