सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 304, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 304

नारद उवाच । मोहासुर महाभाग मतिस्ते योगिसंमता । योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥२७॥ अतस्त्वां सकलं
दैत्य कथयामि विशेषतः । शृणुष्वैकमना ढुंढेश्चेष्टितं योगदं परम् ॥२८॥ नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् । नामरूप-
विहीनं यद्देहिरूपं जगद्धितम् ॥२९॥ तयोर्योगे च दैत्येंद्र बोधः सर्वत्र संमतः । ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥३०॥
तदेव नामरूपादियुक्तं भवति सर्वदा । तदेव नामरूपादि हीनं भवति सर्वदा ॥३१॥ तद्ब्रह्म पूर्णभावेन संस्थितं योग-
वाचकम् । दैत्यपुंगव जानीहि तदेवाऽसौ महोदरः ॥३२॥ देहदेहिकृतो भोगः स्वस्वस्वानंददः परः । सर्वत्रगः स उदरे
भुक्तभोगश्च कथ्यते ॥३३॥ उदरेन कृतो भोगो यदि बाह्यपरायणैः । तदा ते मरणैर्युक्ता भवंति स्वल्पकालतः ॥३४॥
स्वस्वानंदमयो भोगो भुज्यते सर्वभावतः । सर्वैर्ब्रह्माभिरत्यंतं जगद्द्भिश्चैव निश्चितम् ॥३५॥ भिन्नभोगश्च विश्वस्मिन्नात्मनि
ह्यमृतात्मकः । एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥३६॥ देहेषु जठरं भिन्नं जठरं मतमात्मनि । एकभावात्मकं
दैत्य जानीहि योगसेवया ॥३७॥ यदि भोगविहीनौ तौ विश्वात्मानौ महामते । विशेषतो यत्नवंतौ किमर्थं वै बभूवतुः ॥३८॥
नामरूपधरं विश्वं जातं भोगार्थमेव च । नामरूपविहीनं यद्देही जातस्तदर्थतः ॥३९॥ नास्ति भोगस्य चेच्छा चेत् किमर्थं
द्विविधं भवेत् । अतो जानीहि दैत्येंद्र भोगयुक्तौ विशेषतः ॥४०॥ विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः । महोदराख्या
संजाता तेन तस्य महात्मनः ॥४१॥ द्विविधस्य च दैत्येंद्र जठरं स्वल्पवाचकम् । स्वस्वभोगपरत्वाद्वै विचारय
महामते ॥४२॥ सकलानां विशेषेणोदरेषु स सदा स्थितः । महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥४३॥ विश्वं देहमयं
तस्य मस्तकं चात्मवाचकम् । तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥४४॥ जायते सकलं यस्मादंते गच्छति यत्र च ।
दैत्यनायक जानीहि गजरूपं तदेव वै ॥४५॥ विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः । तपसाऽऽराधितो देवो
देहधारी बभूव ह ॥४६॥ न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप । भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥४७॥
स्वसंवेद्येन योगेन लभ्यते गणनायकः । तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥४८॥ सिद्धिर्भ्रांतिप्रदा माया ततो भ्रमति
वै जनः । बुद्धिर्भ्रांतिधरा प्रोक्ता चित्तरूपा विशेषतः ॥४९॥ चित्तं पंचविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् । त्यक्त्वा शांतिमवा-
प्नोति योगीशो योगसेवया ॥५०॥ तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः । तं भजस्व महादैत्य नोचेत्त्वां स
हनिष्यति ॥५१॥ सुरासुरमयं तेन सृष्टं विश्वं विशेषतः । स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥५२॥ देवा दैत्यविनाशार्थं