मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 106, कुल 1023 में से
संदर्भ में पढ़ेंख. १ अ. ४७ पान १०६
नानामायाश्रयाय च। मायामोहहरायैव गणेशाय नमो नमः ॥ १९॥ सर्वान्तर्यामिणे तुभ्यं चिंतामणिसुरूपिणे । सततं
ब्रह्मभूताय नमस्ते जगदादये ॥ २०॥ अंते मध्ये च सर्वत्र संस्थिताय नमो नमः । आदिमध्यांतहीनाय सिंहवाहाय ते
नमः ॥ २१ ॥ अपराधानसंख्यातान् मदीयान् जगदीश्वर । क्षंतवा पाहि गणाधीश पतंतं नरके च माम् ॥ २२॥ त्वन्माया-
मोहयोगेन मोहितोऽहं न संशयः । तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ २३ ॥ सकलं विघ्नसयुक्तं
जगदेतच्चराचरम् । शिवविष्णुवादिभिः सार्धं तव मायाविमोहितम् ॥ २४॥ यदि त्वां शरणं ढुंढे शिवविष्णुवादयः प्रभो ।
गच्छंति मोहहीना वै निर्विघ्नास्ते भवंति च ॥ २५ ॥ अन्यथा भ्रष्टरूपास्ते पदहीना भवंति च । अतस्त्वं सर्वदेवानां धारको
नात्र संशयः ॥ २६ ॥ सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः । सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ २७॥
अधुना त्वत्प्रसादेन मया बुद्धं गजानन । अतस्त्वां शरणं यातो दीनोऽनाथश्च सांप्रतम् ॥ २८॥ रक्ष रक्ष गणाध्यक्ष
नरकान्मां दयानिधे । त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ २९॥ एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः ।
तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ ३०॥ मा भयं कुरु दैत्येंद्र रक्षामि शरणागतम् । नरक्रात्ते भयं नास्ति मत्स्मृतेः
करणात् कदा ॥ ३१॥ त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् । यः पठेच्छावयेद्वापि नरकात्तस्य नोभयम् ॥ ३२ ॥
धर्मार्थकाममोक्षाणां साधनं प्रभविव्यति । मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ ३३॥ श्रुत्वाऽऽकाशभवां वाणीं
बलिर्हृष्टो बभूव ह । तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ ३४॥ एतस्मिन्नंतरे विघ्नो विष्णुं तत्याज वै यतः । ततो
बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ ३५॥ वामनो मनसा तत्र ध्यायति स्म प्रजापते । मम भक्तो बलिः पूर्णस्तस्य
प्राप्तं महद्भयम् ॥ ३६ ॥ विप्रस्य ऋणमुग्रं यत्तेनायं नारकी भवेत् । अहो मयातिमूर्खेण मम भक्तः प्रपीडितः ॥ ३७ ॥
वेदबाह्यं कृतं कर्म बलिना मत्सरान् मखे । न पूजितो गणाध्यक्षः फलहीनोऽभवत्ततः ॥ ३८॥ अधुना भक्तरक्षार्थं किं करोमि
विचारतः । गणेशं शरणं यामि ततः सौख्यं भविष्यति ॥ ३९॥ एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरत् । स्मृतिमात्रेण
तस्याऽग्रे प्रकटोऽभूद्गजाननः ॥ ४० ॥ तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तितः । सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ॥ ४१ ॥
एतस्मिन्नंतरे तत्र बलिः प्रोवाच वामनम् । गणेशदर्शनेनैव प्राप्तबुद्धिर्महायशाः ॥ ४२ ॥ बलिरुवाच । ब्रह्मन् देहि तृतीयं ते पादं
शिरसि चाशु मे । देहोऽयं दानरूपेण मया दत्तो न संशयः ॥ ४३॥ तच्छ्रुत्वा हर्षितो विष्णुस्तथेति स चकार ह ।