मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 101, कुल 1023 में से
संदर्भ में पढ़ें[Header]
खं. १ अ. ४५ | पान १०१
नायं दैत्याधिपः कदा । ब्रह्माकारेण सर्वत्र सिद्धिबुद्धिपतिः स्थितः ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा कुपिता दानवास्तदा ।
ययुः स्वं स्वं गृहं सर्वे त्यक्त्वा दंभासुरं खलाः ॥ ५ ॥ दंभासुरः प्रसन्नात्मा काव्येन सहितः स्वयम् । शरणं गणनाथं च
ययौ हर्षसमन्वितः ॥ ६ ॥ नगराद्बहिरागत्य ययौ देवस्य सन्निधिम् । दंडवत्पतितः पृथ्व्यां कृतांजलिरुपस्थितः ॥ ७ ॥
तुष्टाव तं गणाध्यक्षं तद्दर्शनमहोत्सवः । यथान्यायं पूजयित्वा निबद्धकरसंपुटः ॥ ८ ॥ दंभासुर उवाच । नमस्ते ब्रह्मरूपाय
ब्रह्माकारशरीरिणे । ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥९॥ नमस्ते त्रिदशेशाय दैत्यदानवपाय च । सर्वत्र योगरूपाय
भावहीनाय ते नमः ॥ १० ॥ सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च । गणानां पतये तुभ्यं हेरंबाय नमो नमः ॥ ११ ॥
एकदंताय देवाय ह्यनंतविभवाय ते । विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२ ॥ अपारगुणधाराय दैत्यदानवमर्दिने ।
मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३ ॥ मनोवाणीविहीनाय योगिभ्यो योगदायिने । योगाय योगनाथाय विश्व-
पाय नमो नमः ॥ १४ ॥ मायाधाराय मायायाश्चालकाय नमो नमः । मायाहीनाय सर्वत्र समभावधराय ते ॥ १५ ॥
अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च । निर्मोहाय समोहाय लंबोदर नमो नमः ॥ १६ ॥ यं स्तोतुं न समर्थाश्च
वेदाः सांगा महर्षयः । योगींद्रा ब्रह्मविष्णुवाद्यास्तं किं स्तौमि परात् परम् ॥ १७॥ इत्युक्त्वा पतितः पृथ्व्यां दंभो भक्ति-
समन्वितः । तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८॥ गणेश उवाच । त्वया दंभ कृतं स्तोत्रं मम संतोषवर्धनम् ।
यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९ ॥ पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् । आधिव्याधिहरं
चैव सर्वोपद्रवनाशनम् ॥ २० ॥ एककालं द्विकालं वा त्रिकालं सततं तथा । यः पठेत् स नरोऽत्यंतं मम प्रीतिकरो
भवेत् ॥ २१ ॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न संशयः । अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२ ॥
वरं वरय मत्तस्त्वं यत्तवचित्ते स्थितं परम् । स्तोत्रेण भक्तिभावेन संतुष्टोऽहं ददामि ते ॥ २३ ॥ गणेशवचनं श्रुत्वा दंभो
हर्षसमन्वितः । उवाच गणपं तत्र भक्तिनम्रात्मकंधरः ॥ २४ ॥ दंभासुर उवाच । यदि देवेश तुष्टोऽसि यदि देयो वरो हि मे ।
अचलां देहि ते भक्तिं तदा नाथ नमोऽस्तु ते ॥ २५ ॥ आज्ञां त्वं ज्ञापय विभो वृत्यर्थं मे च सांप्रतम् । स्थानं देहि
गणाध्यक्ष तत्र स्थास्यामि निश्चलः ॥ २६ ॥ दंभस्य वचनं श्रुत्वा गणेशस्तमुवाच ह । सुप्रसन्नतया दक्ष भक्तं गंभीर-
निस्वनः ॥ २७ ॥ सिद्धिबुद्धिपतिरुवाच । भविता मयि भक्तिस्ते दृढा ह्यव्यभिचारिणी । तिष्ठ स्थाने स्वके त्वं वै दंभ