सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 1005, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 1005

खं. ९ अ. २९ | पान ७७
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
विस्मयं ययुः ॥२५॥ अथो शृणु महाभाग गौतमो हर्षनिर्भरः । आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥२६॥
द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा । सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥२७॥ शंभुः सुशीलया सार्धं जगाम
स्वाश्रयं ततः । गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥२८॥ ततः स्वल्पे गते काले सुशीला गर्भसंयुता । बभूव तां
प्रहृश्यैवाभवच्छंभुः सुविस्मितः ॥२९॥ ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् । सर्वलक्षणसंयुक्तं सुता एवं त्रयो-
ऽभवन् ॥३०॥ वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् । तान् दृष्ट्वा विस्मितः शंभुर्गुरुं सस्मार गौतमम् ॥३१॥ मौद्गले
तत्परः सोऽपि बभूवे नित्यमादरात् । अंते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥३२॥ नाना जना गणेशानं लेभिरे मौद्गलस्य
च । श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥३३॥ एतत्ते कथितं विप्र ज्येष्ठात् सार्धैकमासके । मौद्गलश्रवणस्यैव माहात्म्यं
स्वल्पभावतः ॥३४॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे
महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः
🙞🙢
॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽऽसीत् पुंड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् । नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो
विचक्षणः ॥१॥ तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी । न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥२॥ इंद्रस्य वरुणस्यै-
वानुष्ठाने तत्परोऽभवत् । ब्राह्मणैर्नित्यमत्यंतं तोषयामास मेघपम् ॥३॥ ततो वै नव वर्षापि मेघः पापेन चेरितः ।
वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥४॥ राजा राज्यं परित्यज विश्वामित्रं जगाम ह । पप्रच्छ तं प्रणम्याऽसौ
मेघवृष्टिकंरं परम् ॥५॥ तेन संकथितं विप्र मौद्गलं शृणु भूमिप । देशे वृष्टिश्च संपूर्णा भविष्यति न संशयः ॥६॥ ततो
राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् । ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥७॥ जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव
ह । प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥८॥ सर्वे हर्षयुता लोका जाता पुंड्रनिवासिनः । राजा गणेश्वरं
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖