मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
याणि यस्मात् तमपास्त्रवं परिहृतबहिर्वृत्तित्वेन-
सर्वदान्तर्मुखसमग्रेन्द्रियग्रामं, दिव्यमपि देहं
यथाभिमते कस्मिंश्चिदपि काले हित्वा संत्यज्य,
स्वरूप एवास्ते, निर्वृतो भवतीत्यर्थः। कीदृशः
सन्नित्याह-आश्चर्यचर्याधिवास इति, आश्चर्य-
प्रधाना सा आश्चर्यचर्या अत्यद्भुतत्वादप्रमेयं
स्थित्यादिपञ्चविधकृत्यकर्तृत्वं तस्या अधिवासः
उपाश्रयः। परमेश्वरवदिच्छामात्रसंपाद्ये पञ्च-
विधे स्थित्यादौ व्यापारे शक्तोऽपि स्वात्मन्ये-
वास्ते करणीयस्याभावात्-इत्येतद्विवेचितप्रायं
विद्यापाद एवेति शिवम् ॥
संक्षिप्तोक्तिः स्फुरति विततं स्फारयन्ती प्रमेयं
पौर्यापर्यक्रमविमृशनात्पौनरुक्त्यं न किंचित् ।
नातिव्याप्तिः प्रकृतकथनान्नैव चाव्याप्तिरित्थं
योगः साङ्गो जयति गदितः श्रीमृगेन्द्रागमेऽस्मिन् ॥
इति श्रीमद्विद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ योगपादप्रकरणम् ॥
समाप्तश्चायं
योगपादस्तृतीयः ॥
This page is blank and contains no text.
This page is blank and contains no text.
This page is blank and contains no text to transcribe.
This image contains a blank page/cover with no visible text to transcribe.
The provided image is a blank page (or endpaper) with no visible text to transcribe.
The provided image contains only a blank book cover (cloth/buckram binding texture) with no visible text, sutras, or commentary to transcribe.