मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 708, कुल 804 में से
संदर्भ में पढ़ें६५४ मीमांसादर्शनम् [ सू०
मिधानेन मन्त्रागमकतयाऽस्मत्पक्षेऽप्युपपन्नमित्याह—तेनेति । परपक्षनिराकरणमुपसंहरति-
अतश्चेति ।
नन्वेवं तर्हि गोत्वादेरश्वादिभ्यो व्यावृत्तत्वेन विशेषरूपत्वादाकृतिवाच्यत्वपक्षोऽनुप-
पन्नः स्यादित्याशङ्कयाह—गोत्वेति । अश्वादिभ्यो व्यावृत्तत्वेऽपि शाबलेयादिष्वनुवृत्तेः
सामान्यरूपताऽप्यस्तीत्याशयः । कुत इति सन्देहे तु प्रश्नभाष्यं द्वयोः प्रतीतेरेकाभिधाने-
नैवाविनाभावादितरप्रतीतिसिद्धेः सन्देहहेतोः स्पष्टत्वादयुक्तमाशङ्क्य, व्यक्तिपक्षनिश्चया-
भिप्रायत्वेन व्याचष्टे—कुत इत । सन्देहहेतुप्रतिपादनार्थं गौरिति भाष्यं प्रत्ययस्य व्यक्त्या-
कृत्योस्तुल्यत्वादयुक्तमाशङ्क्य, प्रत्ययहेतुशब्दशक्तिलक्षणार्थप्रत्ययशब्दाङ्गीकरणेन व्याचष्टे-
उच्यत इति । प्रत्ययशब्दस्यानाजर्वं द्योतयितुं व्युत्क्रमेण व्याख्यातम् । नन्वेवं सति
विरुद्धाव्यभिचारित्वापत्तौ केनान्येन निर्णय इत्याशङ्कयाह—शक्त्येति । नात्रान्येन निर्णयः,
किं त्वनयोरेव बलाबलावधारणेनेति भावः । प्रयोगचोदनाभावादितिसूत्रं लोकवेदाधिकरण-
सिद्धान्ते अन्यथा योजितत्वाद्विवेकायाकृत्यधिकरणपूर्वपक्षेऽप्यावृत्त्या योजयति—किं
तावदिति । लौकिक एवार्थो वेदेऽपीत्युक्तम् कोऽसावित्यपेक्षायां प्रयोगचोदनाभावं पर्यालोच्य
यो युक्तः, स इत्येवं व्यक्तिवाच्यत्वप्रतिज्ञावगतेः—व्यक्तिर्वाच्येत्युक्तम् । अर्थैकत्वमिति
सूत्रावयवं द्वयोः प्रतीयमानत्वाद् व्यक्तिमात्रवाच्यत्वं न युक्तमित्याशङ्क्यानिरकरणार्थत्वेन
व्याख्यातुम्—नन्वित्युक्तम् । एकस्य वाच्यत्वे द्वयप्रतीतिः कथमित्याशङ्क्य, द्वयप्रतीत्युप-
पादनार्थत्वेनाविभागादिति सूत्रावयवो व्याख्यातः ।
ननु शक्त्यनुसारेण शब्दानां वाचकत्वाच्छक्तेश्चान्वयव्यतिरेकाभ्यां जातावेव ज्ञातुं
शक्यत्वात्कार्ययोगाभावेऽपि तस्या एव वाच्यत्वम्, न व्यक्तेरित्याशङ्कयाह—नित्यमिति ।
वाक्यार्थप्रतिपादनात्मकप्रयोजनकाले शब्दानामुच्चारितानां वाक्यार्थप्रत्यायनार्थत्वानुसा-
रणैतद्वाक्यार्थप्रतिपादनोपयोगिपदार्थप्रतिपत्तिरेवंविधेन शब्दविभागेन भवतीति ज्ञात्वा,
तथाविधशब्दविभागावधारणम् । शब्दविभागसन्देहाभावेऽपि वाक्यार्थविशेषोपयोगिशब्दार्थ-
विशेषावधारणम् । तद्यथा श्वेतो धावतीत्यत्रार्थप्रकरणादिना गौरो निर्णेनेक्ति इत्येवं
वाक्यार्थपरत्वावधारणे श्वेत इत्येकपदत्वम्, धावतेश्च निर्णेजनार्थतावधार्यते । अस्माद्देशा-
च्छीघ्रं गच्छतीत्येतद्वाक्यार्थपरत्वेऽश्वा इति पदद्वित्वं गत्यर्थत्वं च धावतेर्निश्चीयते । एवं
यथा येन प्रकारेण जातिवाच्यत्वनिरूपणरूपेण, व्यक्तिवाच्यत्वनिरूपणरूपेण वा पदार्थानां
वाक्यार्थप्रत्यायार्थता भवति, तथा पदार्थानां जात्याख्यस्य व्यक्ताख्यस्य वा रूपस्य निरूपणं
कार्यं न शक्त्यनुरोधेन कार्यविसेयत्वेन तस्यास्तदानुगुण्येन कल्प्यत्वादिति भावः ।
प्रयोगचोदनाभावव्याख्यानार्थमालम्भनेति भाष्यं व्याचष्टे—आकृतिरिति । ननु
देवतोद्देश्यपूर्वकत्यागसङ्कल्पमात्रत्वाद्यागस्याकृतावप्युपपत्तिरित्याशङ्क्य-नेत्युक्तम् । निष्क्रि-
यत्वेनाकृतेर्यथेष्टविनियोज्यत्वलक्षणसत्तायोगात्स्वत्वनिवृत्तिरूपत्यागो न सम्भवतीत्याशयः ।
आदिशब्दोपात्तमवघाताद्ययोग्यत्वमुपपादयितुमाह—अमूर्त्ता हीति । अवघाताद्युत्तरकालं
वा व्रीह्यादेस्त्याज्यत्वादाकृतेश्चावघाताद्ययोग्यत्वात् त्यागानुपपत्त्युपपादनार्थोऽयं ग्रन्थः ।