सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 16, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 16

( २ )
नन्वेवमपि यत्र यौगिकं रूपं तत्रापि गौणताप्रसक्तिः । न चेष्टापत्तिः । गङ्गायां
घोष इत्यादावपि यौगिकार्थसम्भवेन लाक्षणिको न स्यादिति चेन्न ।
रूढिशब्दानां हि स्वावयवार्थनिरपेक्षतयैव स्वाभिधेयेऽर्थे वृत्तिः ।
यथा गवादिशब्दानाम् । अतोऽत्र स्वावयवार्थानपेक्षत्वात् गौणत्वप्रसङ्गो न ।
तस्मात्संज्ञानामसंज्ञानां च शब्दानां न गौणत्वं किन्तु मुख्यत्वमेव । न चैवं सति
प्रकृतिप्रत्ययविभागो निरर्थक इति वाच्यम् । व्युत्पाद्यशब्दानां विशिष्य व्युत्पत्ति-
प्रदर्शनार्थत्वादिति संक्षेपः ॥
अतोऽत्रैकस्य ग्रन्थकारस्य मतं सर्वथैव सर्वैरभ्युपेयं भवत्येवेत्यत्र न
किञ्चिदपि संशीतिरस्ति किन्त्विदानीं येऽपि नूतना विद्वांसोऽत्र भारते वर्षे
प्रादुरभवन् तेऽपि ग्रन्थान्तरं विलोक्यैव ग्रन्थकारस्याशयमुद्भावयामासुः ।
न च स्वेच्छया किमपि नवं न्यरूपीति न तिरोहितं प्राचामपि पण्डितानाम्
यथाऽस्मत्परमपूज्यचरणैः परमविद्वद्भिः पण्डितप्रवर-शिवदत्तशर्मभिः
प्रसिद्धकाव्यप्रकाशस्य व्याख्यायां व्यधायि तच्च सर्वं तत्र द्रष्टव्यम् ।
यतस्ते बहुतरप्रयत्नेन तत्र तदुपयोगि यत्किञ्चिद् व्याख्यानं विहितं तत्तु
सर्वैरभिनन्दितं दृश्यते । तस्मात्सर्वमेतद्विचार्य मयाऽप्यत्र कल्पलतातन्त्रे
परम्परागतप्राचीनग्रन्थानामेवावष्टम्भेन व्याख्यानं कृतमिति विभाव्य विबुधैर्मयि
कृपां विधायास्य संशोधनकार्ये दत्तचित्तैर्भवितव्यमिति साञ्जलिप्रणतिपूर्वकम-
भ्यर्थ्यत इत्यलमतिप्रपञ्चेन । सुधीभिः कृतानि संशोधनानि सानन्दमङ्गी-
करिष्यन्त इति विभाव्य विरमामि । बहुना किम् ? परगुणपरमाणून्पर्वती-
कृत्य नित्यं निजहृदि विकसन्तः सन्तः सन्ति कियन्तः ॥ इति शम् ॥
ग्रन्थस्य सम्पादक-प्रकाशकौ
विजयादशमी संवत् १९७० विजयानन्दशर्मा
४।१०।१९१३ रसिकमोहनपुस्तकालय, नवलगढ,
१९७४ वि०