मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 13, कुल 804 में से
संदर्भ में पढ़ें( ५ )
मित्यपि निर्विवादम्, निष्कृष्टवाक्यार्थावबोधनायैव मीमांसायाः प्रवृत्तत्वात् ।
अत एव वार्तिककारैरुक्तम्—'इति कर्तव्यताभागं मीमांसा पूरयिष्यति'
श्लो० वा० इति । एवं चक्रनेमिक्रमेण चाध्ययनम्, तदर्थावगतिः, यथार्थं वेद-
विहितकर्मणामनुष्ठानम् अनुष्ठानायानुष्ठेयकर्मस्वरूपावगतिः, तदर्थं मीमांसा-
ध्ययनम्, मीमांसाध्ययनतः पूर्वं वेदतदङ्गाध्ययनम्, तदर्थावगमनम् इत्येवं
मिथःसापेक्षाणामध्ययनार्थावगमनकर्मानुष्ठानपरम्परा अनिदमप्रथमताकात्काला-
त्सम्प्रवृत्तेति मीमांसायाः पूज्यत्वं विचारपरत्वमनिदमप्रथमताकात्कालात्प्रवृत्त-
त्वञ्चेति मनसि निधाय वार्तिककाराः प्राहुः—'मीमांसा तु लोकादेव प्रत्यक्षानु-
मानादिभिरविच्छिन्नसम्प्रदायपण्डितव्यवहारैः प्रवृत्ता' इति ।
एवं महर्षिजैमिनिमारभ्याद्य विंशतितमशतकपर्थ्यन्तं तैस्तैर्ग्रन्थकारैः उच्चा-
वचानां परस्सहस्रस्य ग्रन्थानां लेखनेनाध्यापनेन च परिवर्धितेयं मीमांसाद्राक्षालता
दृढबद्धमूलं वेदार्थं नानाशाखोपशाखाभिः आ च हिमवतः आ च कुमारिकायाः
आश्रितान् जनान् स्वाच्छच्छायया परिरक्षन्तं महान्तं वटमहीरुहमाश्रित्य तरुणीव
शोभमाना विराजते । नियतिकृतनियमसिद्धमिदम्, यच्छाखासु शुष्यमाणासु
तदाश्रिता लता अपि शुष्यदवस्थां प्राप्नोतीति । जैमिनेः कालत एव विशा-
लस्य वटतरोः बह्व्यः शाखाः शुष्यदवस्थामापन्ना इति 'अपि वा कर्तृसामान्या-
त्प्रमाणमनुमानं स्यात्' (जै० सू० १.३.२.) इति सूत्रादवगच्छामः । एतत्सूत्र-
भाष्यं विवृण्वाना वार्तिककारा वदन्ति--
'शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः ।
नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते' ॥ इति । (तं० वा० पृ० १६४)
ये यां वृक्षस्य शाखामाश्रित्यातिष्ठन' ते यदि प्रमादात् अलस्येन वा अध्ययन-
परम्परातो विच्युताः तर्हि सा शाखा कथमाद्रां तिष्ठतु । वेदवृक्षशाखायाः
अध्ययनाध्यापनमेव खलु जलसेचनम् । अनेन जलेन यदि न सिञ्चामस्तर्हि
वृक्षस्य तच्छाखायाश्च कथमिवार्द्रता स्यात् ? तदाश्रिताया मीमांसातन्व्या अपीय-
मेव दशा समापन्ना । सम्प्रत्यतिविरलप्रचारापीयं जीवतीत्येव वक्तव्यम् ।
ग्रन्थानां सम्पादनेन साहित्योपबृंहणं नूनं भवेत् सम्पादकानां ज्ञानवृद्धिरपि स्यात्,
किन्तु शास्त्रोज्जीवनाय तदध्ययनं परमावश्यकम् । तच्च तच्छास्त्राध्यायकेक-
साध्यम् । अध्येतृभिर्विनाध्यापकः किं करोत्विति तूष्णींभावो नोचितः । कथमपि,
छात्रानन्विष्य रुचि परिकल्प्य तेऽध्यापनीयाः । तत्तच्छिक्षणसंस्थाया अपि कर्त-
व्यमिदम् यत्केचन छात्राः विरलविषयाणामध्ययनाय छात्राः प्रोत्साहनीयाः ।
मीमांसासाहित्यभिदमतिविपुलम् । महर्षिजैमिनिप्रभृत्यद्य यावत् परस्सहस्रं-
ग्रन्था विविधप्रान्तियैर्मनीषिभिः प्रणीताः । सर्वेऽपि ग्रन्थाः प्रकाशिता इति नाभ्युप-
गन्तुं शक्यते । अप्रकाशिता ग्रन्था अनेके विद्यन्ते । तत्र केचन नाम्ना उपलभ्यन्ते,