सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 104, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 104

५२ मीमांसादर्शनम् [ सू०
रागभवने, तत्रैव युक्तम्, इह त्वनतिरिक्‍तार्थस्य सतः किमवान्तरवाक्यनिराकरण-
मेव महावाक्यस्य युक्तं फलम् । तदेतदाह—यस्मिन् सत्यविधायकमवान्तरवाक्यं
भवति, मा भूतन्महावाक्यमिति । सत्यम्, विनाऽपि तेनेति । यो नाम वेदस्य
कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति ।
तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्था-
नवाप्तिः । दृष्टं चैवंजातीयेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता
सिध्यन्तमाकाशप्रभृतिभिरभिलपन्ति, न च जाड्यं लभन्ते । तथाऽत्र लिङादि-
भिरपि सिध्यन्तमर्थवादभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपाय-
प्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति, तथाऽन्येनापि विधिसिद्धा-
वर्थवादप्रतिपादितविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघु-
मुपायमनुपादाय गुरुपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर
आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव
प्रयुज्यन्ते, तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वा-
त्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वाद-
विवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त
इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्‍तव्यम् । तदुच्यते
तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाम स्तुतिसंबन्धः समस्तस्य पूर्व-
स्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्वचिदपि शक्ति-
रपह्रियते, ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते ।
भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्वाधितेत्यन्यत्रापि बाध्यते, कदाचिदा-
विर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते, तत्रोऽऽविर्भूता
शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिः, तत्र वाक्यभेद-
प्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते ।
तस्मादेकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोच्यमाना अनुष्ठातॄणामिति ।
“रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्य-
न्तरत्वादिति चेत् ? न, तत्रापि रुचिसंबन्धानपह्लवात् । अथ सामान्यविवक्षया
षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः
केभ्यः प्ररोच्यमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुप-
करिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका
इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कञ्चिदर्थं स्तुवन्तीति शत्रन्तम् ।
कञ्चिदिति विधेयं तत्संबन्धिनं वा कञ्चिद्वा विदधति क्रियां तत्संबन्धिनं वा
तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् ।
विध्युत्खाति-पक्षनिरासः ।