सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 36, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 36

२४ मत्तविलास-प्रहसन
नटी—(सहर्षम्) एवस् । लद्धो अय्यमिस्साणं पसादो । [एवम् ।
लब्ध आर्यमिश्राणां प्रसादः ।]
सूत्रधारः—बाढम् । लब्धः ।
नटी—जइ एवं, किं दे पिअक्खाणिअं देमि । [यद्येवं, किं ते
प्रियाख्यानिकं^५ ददामि । ]
सूत्रधारः—अलं प्रियाख्यानिकपुनरुक्तेन । पश्य,
उद्भिन्नरोमाञ्चकपोलरेख-
माविर्मयूखस्मितमञ्चितभ्रु ।
लब्ध्वा प्रिये ! दुर्लभमाननं ते
भूयोऽपि किं प्रार्थयितव्यमस्ति ॥२॥
नटी—किं दाणि अय्येण पउज्जिदव्वं । [किमिदानीमार्येण^६
प्रयोक्तव्यम् । ]
सूत्रधारः—ननु त्वयैवाभिहितं मत्तविलासप्रहसनमिति ।
नटी—णूणं इमस्सि पक्खवादी मे कोवो, जेण अभिप्पाअणु-
रूवं भणाविद ह्मि । अय्य कदमो उण सो कवी, जो इमाए किदीए
पआसीअदि । [नूनमस्मिन्^७ पक्षपाती मे कोपः, येनाभिप्रायानुरूपं
भणितास्मि । आर्य ! कतमः पुनः स कविः, योजनया^८ कृत्या
प्रकाश्यते । ]
सूत्रधारः—भवति ! श्रूयताम् ।^९ पल्लवकुलधरणिमण्डल-^१०
कुलपर्वतस्य सर्वंनयविजितसमस्तसामन्तमण्डलस्य आखण्डल सम-
पराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतराजराजस्य श्रीसिंह-
विष्णुवर्मणः पुत्रः शत्रुषद्वर्गनिग्रहपरः परहितपरतन्त्रतया महाभूत-
सधर्मा महाराजः श्रीमहेन्द्रविक्रमवर्मा नाम । अपि च,
प्रज्ञादानदद्यानुभावधृतयः कान्तिः कलाकौशलं,
सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः ।
अप्राप्तस्थितयः समेत्य शरणं याता यमेकं कलौ,
कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥३॥
किञ्च,

५. न कुतः, उद्भिन्न—। ६. नाटकं नाटयितव्यम् । ७. आम्, अ— ।
८. येनानया कृत्या आत्मानमेव प्रकाशयिष्यति । ६. ताम् । विदितप
१०. लपर्वत