सामग्री पर जाएँ
सर्वकोश
मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

Manusmriti with Kulluka Bhatta Tika & Hindi Translation

महर्षि मनु द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished649 पृष्ठ

पृष्ठ 96, कुल 649 में से

संदर्भ में पढ़ें
पृष्ठ 96

६४ मनुस्मृति।
इति मन्त्रेण या नारी श्रीचूर्णमभिमन्त्रितम् ।
स्नात्वा धारयते नित्यं सा लक्ष्मीव विराजते ॥ ६१ ॥
लक्ष्मीरूपमिदं द्रव्यं पुण्ड्रमध्ये बिभर्ति यः ।
दास्यं स लभते विष्णोः सत्यं सत्यं ब्रवीम्यहम् ॥ ६२ ॥
पुण्ड्ररूपेण मां विद्धि रेखारूपेण वै श्रियम् ।
संधारयन्ति ये भाले बाहुवक्षःस्थलादिषु ॥ ६३ ॥
ज्ञानाय मुक्तये चूर्णं पुण्ड्रमध्ये बिभर्ति यः ।
स प्रियो ह्यावयोर्भूत्वा मामकं धाम याति हि ॥ ६४ ॥
शूद्रोऽपि ज्ञानसिद्ध्यर्थं मुक्त्यर्थं चापि यो भजेत् ।
ज्ञानं मुक्तिमवाप्नोति रहस्यं ते ब्रवीम्यहम् ॥ ६५ ॥
हरिद्रासंभवं चूर्णं टङ्कणेन समन्वितम् ।
भावितं चाम्लद्रव्येण रक्तत्वमुपयाति हि ॥ ६६ ॥
वैवाहिकेपु योगेषु स्नात्वामलकवारिणा ।
संस्मृत्य परमां देवीं कमलां मम वल्लभाभू ॥ ६७ ॥
हिरण्यवर्णाममलां वसुपात्रकरद्वयाम् ।
मातुलिङ्गधरां देवीं गन्धद्वारां मनोरमाम् ॥ ६८ ॥
पूजार्थं तव देवेशि वैकुण्ठप्राणवल्लभे ।
आज्ञां देहि महामाये श्रीचूर्णं साधये यथा ॥ ६६ ॥
हिरण्यवर्णेतित्यूचां पंचकेन महामनाः ।
प्रोक्षयेद् रजनीद्रव्यं पञ्चगव्येन शोधयेत् ॥ १०० ॥


१ कैसा सुलभ अनुष्ठान है ।
२ यही पदार्थ श्री-रोली-कुङ्कुम-आदि नाम से प्रसिद्ध है । श्री हनुमान् आदि
कतिपय मूर्ति पर रोली के बदले सिन्दूर चढ़ाया जाता है वा सिन्दूर का स्वतन्त्र
विधान है ?