मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 116, कुल 649 में से
संदर्भ में पढ़ें११४ मनुस्मृति ।
वचन और निन्दा सत्य प्रतीत होते हैं विचार के बाद सब
निर्मूल हैं—
' शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमात् ।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ।
मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् ॥
काणादेन च संप्रोक्तं शास्त्रं वैशेषिकं मतम् ।
गौतमेन तथा न्यायं सांख्यं तु कपिलेन च ॥
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् ।
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥
बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम् ।
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ॥
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ।
अपार्थं श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् ॥
परेशजीवयोरैक्यं मयात्र प्रतिपाद्यते ।
ब्रह्मणोऽस्य परं रूपं नैर्गुण्यं वक्ष्यते मया ॥
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे ।
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ॥
मयैव वक्ष्यते देवि जगतां क्लेशकारणात् ।
द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः ॥
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ।
षोडशाध्यायसंयुक्तं तामसं तामसप्रियम् ॥'
पद्मपुराण उत्तरखण्ड.
देखिये—पञ्चरात्र को निकाल दिया है जिसके बारे में
पहिले मतामत का विचार होचुका है । वास्तव में निषिद्ध पाशु-