मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 82, कुल 145 में से
संदर्भ में पढ़ें४६ मन्त्ररामायण
तब शूर्पनखा की विरूपता को देखकर राम लक्ष्मण के वध के लिये
आये हुए खर-दूषण और त्रिशिर को राम ने मार डाला । दुष्टों का दमन
करने वाले राम ने संसार के दूषण रूप दूषण को, बहुत स्वर करने वाले
खर को और छः नेत्र तथा तीन सिरवाले त्रिशिर को मार डाला । इनके
द्वारा खर-दूषणादि को मारने वाले विशिष्ट बल से त्रित नामक अंगुली
के अग्रभाग के नख से वराहाकार-दानव मारा गया ।
ततः शूर्पणखां विरूपितां दृष्ट्वा तद्द्वयरामलक्ष्मणवधार्थमागतान् खरदूषण-
त्रिशिरस्संज्ञान् रामो जघानेत्युच्यते-कं नश्चित्रीयेण मन्त्रेण स एव रामः दासं
लोकान् उपक्षिण्वन्तं दूषणं तु चीरवं महास्वनं खरं षडक्षं त्रिशीर्षाणं नेत्रषट्कवन्तं
त्रिशिरसं च पतिः पाता दन् दुष्टानां दमकः दमयन् दमितवान् हतवान् । अस्यैव
दूषणादिहन्तुः विशिष्टेन ओजसा बलेन वृधानो वर्धमानः त्रितांनाम अंगुल्या
अयो अग्रया अयोवत्तीक्ष्णनखया वराहं महान्तं वराहाकारं दानवं हन् हतवान् ।
अयं खलान् हन्तीति किं चित्रम् अनेनानुगृहीता अपि तान् घ्नन्तीत्ययमेवास्म-
त्कामैराराधनीय इति भावः ॥ ५२ ॥
यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।
मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥५३॥
ऋ. १०. ५४, २
इस प्रकार खर आदि को मारकर स्थित राम की देवता स्तुति
करते हैं: 'हे राम ! जनस्थान में आपने अपने महान बल से राक्षसों
का नाश कर दिया । पौराणिक जिन युद्धों को कहते हैं वह आपकी
माया है। पहले अथवा वर्तमान काल में शत्रु का नाश करना आप
निश्चित रूप से जानते हैं।'
एवं खरादीन्हत्वा स्थितं रामं देवाः स्तुवन्ति तां सूक्तीयेन मन्त्रेण-यदचर
इति । हे इन्द्रजनेषु जनस्थानेषु तन्वा शरीरेण वावृधानो महीयमानः बलानि
सामर्थ्यानि प्रब्रुवाणःकथयन् रक्षांसि निघ्नन् यदचरः सञ्चारं कृतवानसि, यानि
च युद्धान्याहुः पौराणिकाः, सा ते तव मायेत् मायैव । यतस्त्वम् अद्य पुरा वा
शत्रुं शातनीयं ननु निश्चितं न विवित्से न जानासि सर्वेषामन्तरात्मत्वादिति
भावः । अत्र खरो मानो, दूषणो मत्सरः, त्रिशिरा धनविद्याभिजनजस्त्रिविधो
मदः तान् स्पृहादिसहितान्निघ्नन्योगी मायामात्रं जगदिति पश्यतीत्यर्थः ॥ ५३ ॥
स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।