मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 54, कुल 145 में से
संदर्भ में पढ़ेंदप्यासतमो हितोपदेष्टत्वादित्यर्थः । कीदृशास्ते ऋचा द्वात्रिंशदक्षरया अनुष्टुभा
शोचन्तः शोकं कुर्वन्तः शोकेन द्वात्रिंशदक्षरं वाक्यमुच्चारयन्त इत्यर्थः । कीदृशाः
अव्रतान् हिंस्रान् सन्दहन्तः तेनैव शोकाग्निना भस्मीकुर्वन्ति ते संस्वरन्तः
स्वकृतेनैव संस्वरेण मायया मूलाविद्यया सार्धं असिक्नीं कृष्णवर्णां तमोमयीं त्वचं
शरीरं अपधमन्ति दूरीकुर्वन्ति श्रोतॄणामित्यर्थात् । कीदृशीं त्वचम् इन्द्रद्विष्टाम्
इन्द्र आत्मा द्विष्ठो नानायोनिनिपातनेन दुःखवान् कृतो यया ताम् भूमतः
भूलोकात्, दिवः द्युलोकाच्च परिपरिच्युतामित्यर्थः । मुक्तानां हि शरीरं लोक-
त्रयेपि नास्तीति स्पष्टम् “अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः” इति श्रुतेः
॥ ६ ॥
प्रत्नान्मानादध्याये समस्वरन् श्लोकयंत्रासो रभस