सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 81, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 81

४६ मानमारे [अध्यायः

चतुर्दिक्षु विदिक्ष्वपि दुर्गाङ्कं(ङ्ग)गणपालयम् ।
सुग्रीवस्य पदं चैव षण्मुखस्यालयं भवेत् ॥ १६५ ॥
अग्निने(ग्नौ) पूषपदे वाऽपि ज्वरदेवालयं भवेत् ।
आदित्ये तु पदे वाऽपि भास्करस्यालयं भवेत् ॥ १६६ ॥ 392
सौम्यके वाऽपि मुख्ये वा भुवनेशालयं भवेत् ।
तत्तत्पदे [च] मध्ये तु विष्णुरुद्रालयं भवेत् ॥ १६७ ॥
एतानि स्थानानि(स्थानान्येतानि) परितो नराणां सदनं भवेत् ।
अन्तर्वीथी चैकपञ्चं(चा) बाह्यवीथी द्विपञ्चकम्(का) ॥ १६८ ॥ 396
एवमालयवास्तु स्याद्वाह्ये पञ्चाभिरचयात् ।
एवमन्तर्गतान्देवान् बहिरङ्गे यथेच्छया ॥ १६९ ॥
शुद्धा चैव प्रतिष्ठा चेल्लिङ्गपाशुपतं तथा ।
नगर्यां तत्रतिष्ठे(ष्ठा) तु चोक्तवत्स्थापनं भवेत् ॥ २०० ॥ 400
अन्येषां सर्वलिङ्गानां नगराणां बहिरङ्गतः(र्भवेत्) ।
वैखानसप्रतिष्ठा चेदन्तस्थापनमिष्यते ॥ २०१ ॥
विष्णुदेवैरि(वस्ये)ति प्रोक्तं पाञ्चरात्रं(त्रो) बहिर्भवेत् ।
दुर्गां गणपतिं चैव बौद्धं जैनं(न)गतालयम् ॥ २०२ ॥ 404
अन्येषां षण्मुखादीनां स्थापयेन्नगराद्वहिः ।
तत्तद्देवालयं वाऽपि कुर्याद्दोषो न विद्यते ॥ २०३ ॥
अपि सर्वेषु नगरेषु संस्थापनमिष्यते ।
नगरस्य बहिश्चोदक्पूर्वे वाऽप्यतिदूरतः ॥ २०४ ॥ 408
चामुण्डालयं [च] कुर्यादुत्तराभिमुखं तथा ।
तस्य(तस्माद्) देवालयात्पूर्वं चण्डालकुटिकान्वितम् ॥ २०५ ॥
पूर्वे चोत्तरदेशेऽथ पश्चिमे वाऽथ नैर्ऋते ।
नगरात्तु बहिर्देशे तत्सेनालोकनार्थकम् ॥ २०६ ॥ 412
उत्तुङ्गवेदिकाचो(को)र्ध्वं [पि] चोक्तवन्मण्डपं भवेत् ।
शेषं प्रागुक्तवत्कुर्याद्युक्त्या च शिल्पि(ल्प)वित्तमः ॥ २०७ ॥
प्रस्तरस्य तु विन्यास लक्षणं वक्ष्यतेऽधुना ।
आयतं वा समं वाऽपि प्रस्तरस्याकृतिस्तथा ॥ २०८ ॥ 416