सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 49, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 49

१४ मानमारे [अध्यायः
शङ्कुस्थापनलक्षणम्
अथातः संप्रवक्ष्यामि शङ्कुस्थापनलक्षणम् ।
आदित्योदयकाले तु शङ्कुस्थापनमारभेत् ॥
उत्तरायणमासे तु दक्षिणायनमे(न ए)व वा ।
शुक्लपक्षे यथा(ऽथवा) कृष्णपक्षे शुभतमे दिने ॥ २ ॥ 4
पौर्णमीं(पूर्णिमां) चाप्यमावास्यां वर्जयेत्सुमुहूर्तके ।
प्रभाते स्थापयेच्छङ्कुमपराह्णात्(ह्ने) ततः स्थितम् ॥ ३ ॥
स्थापनात्पूर्वदिवसे स्थलशुद्धिं प्रकारयेत् ।
आप्रभूमध्यदेशे तु चतुरश्रं समन्ततः ॥ ४ ॥ 8
चतुर्हस्तप्रमाणेन विश्वतः सलिलस्थलम् ।
कृतमाल(लं) शमीशाखा चन्दनं रक्तचन्दनम् ॥ ५ ॥
खदिरं तिन्तु(न्दु)कं चैव शङ्कुदारु प्रकीर्तिता(तम्) ।
श्वेतक्षीरिवि(शी)वृक्षं(क्षो) वा शुभदन्तमथापि[वा] ॥ ६ ॥ 12
शङ्क्वायामं तु हस्तं स्यान्मूलतारं रसाङ्गुलम् ।
अग्रतारं द्विमात्रं स्यान्मूलाग्रान्तं क्षयं क्रमात् ॥ ७ ॥
सुवृत्तं निर्व्रणं चैव छत्राकारं तदग्रकम् ।
एवं तु चोत्तमं शङ्कु मध्यसं तत्प्रवक्ष्यते ॥ ८ ॥ 16
अष्टादशाङ्गुलायामं मूलतारं शराङ्गुलम् ।
अग्रमेकाङ्गुलं तारं शेषं प्रागुक्तवन्नयेत् ॥ ६ ॥
कन्यसं द्वादशाङ्गुल्यं शङ्क्वायामं विशेषतः ।
चतुरङ्गुलविस्तारं मूलमग्रं त्र्याङ्गुलम् ॥ १० ॥ 20
अथवायामसंमूले नाहमग्रे नवाङ्गुलम् ।
शेषं पूर्ववदुद्दिष्टं स्वीकृतीकृतभूतले ॥ ११ ॥
तन्मध्ये बिन्दुतस्त्वक्षो शङ्क्वायामद्वयेन च ।
भ्रामयेन्मण्डलं कुर्यात्तन्मध्ये शङ्कुमर्पयेत् ॥ १२ ॥ 24