सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 442, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 442

६७] प्रलम्बलक्षणम् ४०७
शक्तीनां कुक्षिदेशे तु प(चै)काङ्गुलान्तरं तु वा ।
शक्तीनां पुष्प(पूर्व)हस्तं तु स्तनान्तं कट(टि)कामकम् ॥ ६८ ॥ 136
तदङ्गुष्ठावस(सा)नान्तं च ह्यन्तरं चतुरङ्गुलम् ।
तच्छ्रोण्या[त्] कूर्परान्तं तु ह्यन्तरं षडङ्गुलम् ॥ ६९ ॥
अंसादालम्बनं हस्तं ह्यन्तरं पूर्ववद् भवेत् ।
तत्तद् विचित्रवर्णादिभूषणाद्यैरलङ्कृतम् ॥ ७० ॥ 140
सर्वेषां वास्तुवस्तूनि प्रतिमादि यथोक्तवत् ।
कारयेत्सर्वसम्पत्त्यै भुक्तिमुक्तिफलप्रदम् ॥ ७१ ॥
अज्ञानाद् वास्तुवस्त्त्वादि विपरीतं चेद् विपत्करम् ।
तस्मात्परिहरेद् विद्वान्न्यथा पूर्वोक्तं सर्वतः ॥ ७२ ॥ 144
एवं प्रोक्तं वास्तुवा(व)स्त्वादि हर्म्यैः
प्राकारायैर्मण्डपाद्यैश्च शाला[भिः] ।
भूपालाङ्गै भूपतीनां च लिङ्गैर्
देवादीनां कारयेत्संपदा(द)र्थम् ॥ ७३ ॥ 148
इति मानसारे वास्तुशास्त्रे प्रतिमाधिकारे प्रलम्बलक्षणविधानं नाम सप्तषष्टितमोऽध्यायः ॥