मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 431, कुल 856 में से
संदर्भ में पढ़ें३८६ मानमारे [अध्यायः
एवं तु गलमाने स्यात्तदर्धं निर्गमं बुधैः ।
नयने तन्त्रिपादं च ललाटे नेत्रमानकम् ॥ ५४ ॥ 108
अथवा तन्त्रिपादं च चार्धं वाथ त्रिधा भवेत् ।
संहारं च स्थितिः सृष्टिर्दृष्टिरेवं शिवस्य च ॥ ५५ ॥
नवत्यष्टरोमदृष्टिनन्दं ध्यात्वा शिल्पिवित्तमः ।
ग्रीवांशं यथा कृत्वा तस्य मानं न योजयेत् ॥ ५६ ॥ 112
यथा युक्त्या तथा वक्त्रे कुर्यात्तु तत्प्रदेशके ।
द्वियवाधिकमष्टांशं बाहुमध्यमविस्तृतम् ॥ ५७ ॥
कूर्परं तद् विशालं स्यात्सप्तमात्रं प्रशस्यते ।
प्रकोष्ठमध्यविस्तारं यवोपेतांशरांशकम् ॥ ५८ ॥ * 116
मणिवन्धविशालं तु सार्धवयङ्गुलं भवेत् ।
तत्तले मूलविस्तारं सप्तमात्रं तु कारयेत् ॥ ५९ ॥
तन्मध्यमविशाले तु सार्धषण्मात्रकं भवेत् ।
तलाग्रप्रतारमर्धमाधिक्यं पश्चाङ्गुलं विधीयते ॥ ६० ॥ 120
बहिः सार्धषडङ्गुल्यं मणिवन्धा[त्] तलायतम् ।
तस्मात्तु चाङ्गुलानां च दीर्घं(दैर्घ्यं) युक्त्या तद्वहिर्भवेत् ॥ ६१ ॥
पुरोक्तानां तत्तद्दीर्घं(दैर्घ्यं) मङ्गुलीनां तत्तदायतम् ।
सपादोपेतवेदांशं चानामिकाङ्गुलदीर्घकम् ॥ ६२ ॥ 124
प्रादेशिन्यायामं भूतांशं स(च) वेदाङ्गुष्ठकनिष्ठकम् ।
अङ्गुष्ठमूलविस्ता˙ सपादामुलमेव च ॥ ६३ ॥
तर्जन्यनामियमूले तु विस्तारं तच्छिखांशकम् ।
मध्यमाङ्गुलिमूले तु विशालं स्यात्त्रियं(यवां)शकम् ॥ ६४ ॥ 128
षड्य˙ तत्कनिष्ठे तु विशालं तस्य मूलके ।
तत्तद्द्विरष्टभागे तु तदेकांशविहीनकम् ॥ ६५ ॥
शेषाङ्गुल्यमविस्तारं विभजेत्त्रियं(त्र्यवां)शकम् ।
द्विभागं नखविस्तारं शेषं तु तद् द्विपार्श्वयोः ॥ ६६ ॥ 132
अङ्गुष्ठं(ष्ठे) नखविस्तारे चतुर्भागैकमधिकम् ।
नखायाममिति चार्धं द्वियवं तत्प्रशस्यते ॥ ६७ ॥