मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 412, कुल 856 में से
संदर्भ में पढ़ेंगरुडलक्षणम्
विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुना ।
मूलबेरसेमो(ममु)त्तुङ्गं [तत्] त्रिपादमर्धमेव वा ॥ १ ॥
उत्सवोच्चं समं वापि द्विगुणं त्रिगुणमेव वा ।
त्रिगुणाधर्धिकं वापि तच्चतुर्गुणमेव वा ॥ २ ॥
एवं नवोदयं प्रोक्तमुत्तमादि त्रयं त्रयम् ।
तत्तत्रिंशतिकं कृत्वा ए(चै)कैकांशविवर्धनात् ॥ ३ ॥
पञ्चविंशच्छतान्तं स्याद्यच्छुभायादिसंभवम् ।
अथवाङ्गुलमानेन कल्पयेद् गरुडोदयम् ॥ ४ ॥
एकाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥ ५ ॥
द्विजराजायं वापि मानयेद् गरुडोदयम् ।
पीठतारसमा(मम)ध्यर्धं पादोनं द्विगुणं तु वा ॥ ६ ॥
द्विगुणात्पादमाधिक्यं त्रिगुणाधर्धिकं तु वा ।
पादोनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥ ७ ॥
एवं नवविधं मानं कन्यसादीनि कारयेत् ।
तदायामसमं वापि त्रिपादं चार्धमेव वा ॥ ८ ॥
उत्तमादि त्रयं प्रोक्तं गरुडस्योदयं विदुः ।
न कुर्यात्पदशुभायादि कुर्यात्तद्वंशमानतः ॥ ६ ॥
स्थानकं चासनं चैव गमनं च यथाविधि ।
उष्णीषात्पादपर्यन्तं गृहीत्वोत्तुङ्गं मानतः ॥ १० ॥
तत्तन्मानवशात्केचिन्मूलबेरवशान्न्यसेत् ।
उत्सवे चोत्सवं प्रोक्तमङ्गुलं मानविश्रुतः ॥ ११ ॥
47