सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 326, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 326

४३] रथलक्षणम् २९१
महोत्सवरथानां च सर्वेषां चक्र(क्रं) वर्तते ।
षट्सप्ताष्टनवं वापि दशचक्रं क्रमाद् विदुः ॥ ६७ ॥ 136
युद्धयोग्यं त्रिकं वेदि मखा(चा)र्थं द्वयमेव वा ।
नित्योत्सवस्थाश्चै(थस्यै)कद्वित्रिवेदि प्रकल्पयेत् ॥ ६८ ॥
महोत्सवरथे वेदि त्रितयादि नवान्तकम् ।
कल्पयेत्सार्वभौमस्य चैव नवश्रे(चे)ति वेदिका ॥ ६९ ॥ 140
महाराजे(जस्य) सप्तान्तमेकादि [च] प्रकल्पयेत् ।
नरेन्द्राख्यनृपतेः(तेश्चैव) पञ्चकादि योजयेत् ॥ ७० ॥
पार्ष्णीकाख्यस्य भूपानामेकादि चतुरान्तकम् ।
विष्णोस्त्रयम्बकस्यापि चैकाद्ये(दि) नववेदिकाः ॥ ७१ ॥ 144
बौद्धादिजिनकान्तानां सप्तान्तं चैकादितः(कम्) ।
अन्येषामपि देवानां वेदी(देवी)नां वेदसंख्यकम् ॥ ७२ ॥
एकादिपञ्चसंख्यान्तं कुर्याच्छिल्पिवरैर(वरैऽ)पि ।
रथानामूर्ध्वदेशस्य चालङ्कारं प्रवक्ष्यते ॥ ७३ ॥ 148
मानं यथायुक्तिवशादेकद्वित्रितलं तु वा ।
कुर्याद् देवरथानां तु शेषमागमतो(मो)क्तवत् ॥ ७४ ॥
अ(र)थाग्रो गुरुपादसरोरुहम् ।
गुरुवरं च षण्मुखं सरस्वतीम् । 152
गणपतिं त्वथ शङ्करवल्लभां
विविधवाहनवस्त्रविभूषितान् ॥ ७५ ॥
अथ रथाभरणं परिकथ्यते
शिखिशिखण्डकचामरतोरणम् । 156
विविधकिङ्किणीनिर्मलदर्पणम्
व्यजनकेतकमाल्यमनोहरम् ॥ ७६ ॥
आदौ रथस्य तलतोऽपि भुर्वरवेश्या
लास्याङ्गना सकलभावन(ना) सम्यक् वि(ग्वि)वस्त्राम् । 160
प्रत्युच्चमर्द्दलनिस्वन(नं) धार्य
चोर्ध्वोऽर्धमल्पमरुतं समे(गगने) दधानाम् ॥ ७७ ॥