मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 298, कुल 856 में से
संदर्भ में पढ़ें३७] गृहप्रवेशविधानम् २६३
शक्तिगायत्रिमन्त्रेण पूर्णाहुतिं समाचरेत् ।
अधिवासितकुम्भस्थजलेनैवाभिषेचयेत् ॥ २६ ॥ 52
वेश्मद्वारन्तदी(रान्तादि)वेश्मकं गृहं प्रति गृहं प्रति ।
वाहनादीनि संप्रोक्ष्य स्थपतिस्थापकावुभौ ॥ २७ ॥
सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् ।
पश्चाद् गृहमङ्गलं कुर्यान्नानावस्त्रैश्च शोभितम् ॥ २८ ॥ 56
वितानध्वजसंयुक्तं पुष्पमाल्यैरलङ्कृतम् ।
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ २९ ॥
श्वेतानुलेपनं स्थाप्य(प्यं) स्वर्णयज्ञोपवीतवान् ।
नवशुक्लांशुकोपेवः श्वेतांशुकोत्तरीयवान् ॥ ३० ॥ 60
पादप्रक्षालनं कुर्यात्सकलीकरणां कृतम् ।
धूपदीपं ददेत्(त) पश्चाद् गन्धपुष्पाक्षतैः सह ॥ ३१ ॥
ब्राह्मणैश्च यथाशक्ति वापयेत्स्वस्तिवाचनम् ।
यजमानस्य प्रीत्या च अ(त्यैस्तु चा)न्यैरनुचरैः सह ॥ ३२ ॥ 64
गृहप्रदक्षिणं कुर्याज्जयशब्दादिमङ्गलैः ।
गृहद्वारस्य पुरतः स्थित्वावान्तं च वाचरेत् ॥ ३३ ॥
लक्ष्मीशं ततो नमस्कृत्य याचयेद्धि(दि)ष्टमानकम् ।
मन्त्रम्
हे लक्ष्मि गृहकर्तारं पुत्रपौत्रधनादिभिः ॥ ३४ ॥ 68
सम्पूर्णं कुरु चायुष्यं प्रार्थयामि नमोऽस्तुते ।
एतन्मन्त्रं समुच्चार्य स्थपतिस्थापकावुभौ ॥ ३५ ॥
यजमानाय पश्चात्तु दद्यान्नैवेद्यशेषकम् ।
स्थपतिः(तये) स्थापकानां च(केभ्यो) विप्राणां च(प्रेभ्यश्च) विशेषतः ॥ ३६ ॥ 72
दद्याद् दक्षिणा(णां) ताम्बुलं तत्र सद्यःप्रवेशने ।
तैभ्यः सह स्वपत्न्या चान्नक्षीरोदकादिभिः ॥ ३७ ॥
नानाभूषणदिव्यैः गन्धमाल्याम्बरादिभिः ।
द्विजानां वेदघोषैश्च गीतनृत्तादिवाद्यकैः ॥ ३८ ॥ 76