मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 296, कुल 856 में से
संदर्भ में पढ़ेंगृहप्रवेशविधानम्
अथ वक्ष्ये नराणां च गृहवेशस्य लक्षणम् ।
सर्वेषां जातिहर्म्याणां चोक्तवत् क्रियान्वितम् ॥ १ ॥
उत्तरायणमासे तु दक्षिणायन मे(ने वै)व वा ।
मिथुनं धनुः कन्यां च मीनं चैव विवर्जयेत् ॥ २ ॥
प्रशस्तपञ्चनक्षत्रे सुमुहूर्त्ते सुलग्नके ।
उभयोः स्थिरराशौ च शुक्लपक्षे प्रवेशयेत् ॥ ३ ॥
स्थपतिः स्थापकश्चोभौ गृहवेशं समारभेत् ।
गृहाग्रे मण्डपं कृत्वा प्रपां वा कूटमेव वा ॥ ४ ॥
पञ्चसप्तकरं तत्र गेहता समाग्रकम् ।
षोडशस्तम्भयुक्तं वा द्वादशस्तम्भमेव वा ॥ ५ ॥
विविधानां विधानानां नानावस्त्रैरलङ्कृतम् ।
गोमयालेपनं कृत्वा चोक्तवत्कृतसद्मकम् ॥ ६ ॥
गृहे वा मध्यरङ्गे [वा] पार्श्वे वा चैशकोष्ठके ।
कुर्यादुक्तवच्छिल्पी सा(चा)ङ्कुरार्पणमेव वा ॥ ७ ॥
वास्तुमध्यो(ध्ये ऽ)क्तवच्छिल्पी साधारणबलिं दिशेत्(क्षिपेत्) ।
आपादाष्टारणां च(पाद्यष्टामरांश्चैव) पूजयेत्स्थपतिः प्रभुः ॥ ८ ॥
आर्यादीनां चतुर्षानां(र्णां च) स्थापकेन बलिं(लिः) ददेत्(दीयेत) ।
ब्रह्मादिदेवताश्चैव पूजयेद् विधिवत्(धिना) सह ॥ ९ ॥
वास्तुहोमं ततः कृत्वा तृप्त्यर्थं वास्तुदेवताः ।
शुद्धिं कृत्वा ततः पश्चात्पर्यग्निकरणं गृहम् ॥ १० ॥
जलसंप्रोक्षणं कुर्यात्पुण्याहं वाचयेत्ततः ।
पञ्चगव्येन संप्रोक्ष्य स्थपतिः स्थापकैः सह ॥ ११ ॥