सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 283, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 283

२४८ मानमारे [अध्यायः
दण्डकानां च सर्वेषां प्रमुखे मण्डपं न्यसेत् ।
विस्तारं तत्समं वापि द्विगुणं त्रिगुणं तु वा ॥ ८२ ॥ 164
यथेष्टांशेन परितो मण्डपं मध्यमाङ्गणम् ।
मुखे वासविशालं स्यात्तत्समं पृष्ठभद्रकम् ॥ ८३ ॥
तदर्धं निर्गमं वापि भद्र(द्रं) वासवशान्यसेत् ।
मण्डपस्य वशाद् भद्रं तन्मुखे कर्करीकृतम् ॥ ८४ ॥ 168
शालाया दण्डकायामे नवभाग(गे) विभाजिते ।
गृहस्य दक्षिणे पञ्चभागं वामे गुणांशकम् ॥ ८५ ॥
तद्द्वयोर्मध्यदेशे तु द्वारं कुर्याच्च विचक्षणः ।
सर्वेषामपि शालाश्च(व) कर्तुं(र्तृ) राश्या(शिम)नुबर्ज(र्त)येत् ॥ ८६ ॥ 172
प्रह्वयं दण्डकाः(का)शाला गृहिणी चा(ण्या)नुकूलकम् ।
मेषस्य मीनकुम्भस्य पूर्वस्य(र्वे च) दक्षिणे शुभम् ॥ ८७ ॥
कुलीराच्चमिथुनस्य दक्षिणे पश्चिमालयम् ।
तौलि(तुला)सिंहस्य(योः) कन्यायाः पश्चिमे चोत्तरे शुभम् ॥ ८८ ॥ 176
ग्राह्यवृश्चिकचापस्य प्रागुदग्दिशि रा(चा)लयम् ।
न कुर्यादेकशालाश्च शुभमन्यैः पुरोक्तवत् ॥ ८९ ॥
एवं राशिबशाच्छाला दण्डकं तदुदीरितम् ।
एकशालाश्चतुर्दिक्षु गृहारम्भमिहोच्यते ॥ ६० ॥ 180
कुम्भे च मकरे पूर्वे मेषे च वृषभे यमे ।
सिंहकर्कटके प्रत्यक् वृश्चिके तौलि(तुले) चोत्तरे ॥ ६१ ॥
गृहारम्भमिति प्रोक्तं सुमुहूर्ते सुलग्नके ।
अन्यथा सर्वशालाश्च यद्यन्मासे समारभेत् ॥ ६२ ॥ 184
अन्यानुक्तचतुर्मासे सर्वहर्म्यांश्च कारयेत् ।
चतुर्दिक्षु वास्तुपुरुषं चतुर्भागेन योजयेत् ॥ ६३ ॥
यन्माने सर्वहर्म्यं च कारयंतु शुभावहम् ।
विदिक् वास्तुपुरुषं चेत्सर्वहर्म्यं न कारयेत् ॥ ६४ ॥ 188
वास्तुभूतयथाहर्म्यं विपरीते विपत्करम् ।
तस्मात्तु वास्तुशयनं ज्ञापयेद् वक्ष्यतेऽधुना ॥ ६५ ॥