मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 28, कुल 856 में से
संदर्भ में पढ़ेंभूमिका
अस्य खलु मानसारस्य ग्रन्थ-तामीळ-तैलङ्ग-मलयालं-नागरीतिपञ्चप्रकाराभिर्लिपिभिर्लि-
खितानि प्राचीनहस्तलिखितपुस्तकानि समालोक्य पाश्चात्त्याधुनिकसरणिमवलम्ब्य मया
प्रथमसंस्करणं विहितम् । तथा च राजभाषायामनुवादोऽपि कृतः ।
संस्कृतभाषायामेव मानसारं लिखितमिति हि प्रसिद्धिः । परन्तु सा भाषा सर्वथैवा-
संस्कृता । बूलरादिपाश्चात्यपण्डितैस्तथा च भाण्डारकरादिभारतीयविद्वद्धुरन्धरैरेतद् बर्बर-
जनोचितसंस्कृतमिति वर्णितम् (१) ।
मानसारमाधुनिकैर्दुर्बोध्यमनधिगम्यं चेत्यत्र कारणान्तरमपि वर्त्तते यतोऽदसीयसहस्र-
त्रयपरिमितपारिभाषिकशब्दानामर्था दृष्टचरसकलभाषाभिधानसाहाय्येनाप्यधिगन्तुं न
शक्यन्ते । अतो मया सहस्रपृष्ठात्मकं भारतीयशिल्पशास्त्रविषयकमेकमभिधानं सम्पादितम् ।
तच्चाधुना प्रकाशितमेव । तत्र तु सर्वेभ्य एव वास्तुशास्त्रेभ्यः सर्वेभ्यश्च शिलालेखेभ्यस्तथा
वेदब्राह्मणोपनिषद्भ्यः पुराणागमरामायणमहाभारतेभ्यः काव्यनाटकेतिहासेभ्यो नीतिज्यो-
तिषशास्त्रेभ्यश्च संगृहीतानां चतुःसहस्राधिकशिल्पीयशब्दानां प्रयोगं सोदाहरणं प्रदर्श्य
तदर्थानां स्थिरीकरणे यत्नमकार्षम् । एतदभिधानसाहाय्येनैव मानसारस्यार्थोपलब्धिश्चानु-
वादश्च सम्भाव्येते स्म ।
मानमारे प्रस्तुतानां विषयाणां संक्षेपेण विवेचनमधुना कर्त्तव्यम् । मानसारं खलु
गृहादिनिर्म्माणविषयकवास्तुशास्त्रान्तर्गतम् । वास्तुशास्त्रं तु शिल्पशास्त्रान्तर्भूतम् । शिल्पानां
बहवो भेदाः सन्ति । तथा च वात्स्यायनीयकामशास्त्रे चतुःषष्टिकलात्मकानि शिल्पानि
(१) एपिग्राफिआ इण्डिका, प्रथमखण्डम्, पृ० ३७७ ।
( ७ )