सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 156, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 156

१७] सन्धिकर्मविधानम् २१
पूर्वे च शयितं दारु दक्षिणे निर्गमं भवेत् ।
दक्षिणे शयितं दारु पश्चिमे निर्गमं भवेत् ॥ २८॥ 56
पश्चिमे शयितं दारु निर्गमं चोत्तरे तथा ।
उत्तरे शयितं दारु प्राग्दिशि निर्गमं भवेत् ॥ २९ ॥
आधाराधेययोगेन पूर्ववत्परिकल्पयेत् ।
नन्द्यावर्तमिति प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना ॥ ३० ॥ 60
प्राक्शयितं दारु सर्वेषां दक्षमूलोत्तराग्रकम् ।
दक्षिणे शयितं दारु प्रत्यङ्मूलाग्रपूर्वके ॥ ३१ ॥
तद्द्वयोर्मूलमग्रं च चाग्निकोणे च बन्धनम् ।
प्रत्यग्दिक्शयितदारोर्मूलं याम्येऽग्रमुत्तरे ॥ ३२ ॥ 64
सौम्ये शयितदारूणां प्रत्यङ्मूलाग्रपूर्वके ।
वायुकोणे दिशं(शि) बन्धं त्रीणि दार्वी(र्वा)ग्राणि एव वा ॥ ३३ ॥
दक्षिणे पश्चिमे सौम्ये दारु तत्प्रागुदग्मकम् ।
नैर्ऋते वायुकोणे च बन्धयेत्तद् द्विसन्धिकम् ॥ ३४ ॥ 68
पूर्वे च दक्षिणे प्रत्यग्दारु प्रागुत्तराग्रकम् ।
वह्निर्नैर्ऋत्यकोणे च दारु संबन्धयेत्सुधीः ॥ ३५ ॥
एतत्संधिविशेषोऽस्ति चाधाराधेयपूर्ववत् ।
दारूमूलं तु सच्छिद्रं दार्वी(र्वा)ग्रं सशिखान्वितम् ॥ ३६ ॥ 72
दक्षिणे दारुमूले च छिद्रं प्रत्यक् शिखान्वितम् ।
एतन्नैर्ऋतिकोणे तु युक्त्या दारुं(रु) सं(च) योजयेत् ॥ ३७ ॥
एवं तु चाग्निकोणे तु युक्त्या दारु सुयोजयेत् ।
सौम्ये च दारुमूले तु छिद्रं प्रत्यक्छि(शि)खान्वितम् ॥ ३८ ॥ 76
एवं तु वायुकोणे तु कारयेत्तच्चकोत्तमः ।
एवं तु स्वस्तिकं प्रोक्तं युक्ताग्रे चैशकोणयुक् ॥ ३६ ॥
प्राच्ये दार्वी(रुषा) च सच्छिद्रं सौम्याग्रं च शिखान्वितम् ।
छिद्रयुक्तं तदाधारमग्रमिदं सशिखान्वितम् ॥ ४० ॥ 80
वास्तुमध्ये ग(ऽङ्ग)णं युक्तं तद्बाह्ये वृतदारुणा ।
यथेष्टदिग्भद्रसंयुक्तं युक्ताद(त्तत्रा)न्यैस्तु यांगतः ॥ ४१ ॥