सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

उपसंहारः 62
तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् ।
किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥
आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः ।
तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥
यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः ।
अन्तरात्मा महोदारः वासुदेवस्स तुष्यति ॥
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ।
यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥
इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा ।
प्रयोजनपरिच्छेदं समग्रहीत् चान्तिमम् ॥
प्रीयतां भगवान् वासुदेवः.
इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू-
भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग-
नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री-
मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम-
द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि-
तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत-
महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो
लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु
मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः
द्वितीयः समाप्तः समाप्तश्च प्रबन्धः.
श्रीः.