मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
[Header] कथा 40
यदि शून्यविदन्यं प्रत्याहानाधिकृतिं सुधीः ।
तस्य चाप्रतिवादित्वात् निग्रहस्थानमेव तत् ॥
अत्रोत्तरं पुनरिदं ते वादानधिकारिणः ।
इत्यन्तेवसतां सोऽयमुपदेशो भवेदिति ॥
कथानधिकारवाचा निष्प्रयोजनतोदिता ।
इति मार्गान्तरं न्यायपरिशुद्धावुदीरितम् ॥
प्रयोजनानुयोगेन वितण्डावादिनिग्रहः ।
वात्स्यायनोदितः सोऽध्वा विद्वद्भिरनुगम्यते ॥
विस्तरश्शतदूषण्यां वेदान्ताचार्यसूरिभिः ।
कृतः कथाऽनधिकारवादे नावमिके पुनः ॥
3 वादेषु नियमा एते कल्प्यन्ते प्रौढिसिद्धये ।
अदन्त्यो वा निरोष्ठ्यो वा लुङ्प्रयोगोऽथवा तथा
यङ्प्रयोगो यक्प्रयोगः इत्यादिश्शब्दगोचरः ।
अनुमानेनैव तथा शब्देनैव तथेति वा ॥
वैदिकेनागमेनैवेत्येवं मानव्यवस्थितिः ।
छलजात्यादयोऽप्येवं निग्रहस्थानलक्षणाः ॥
कक्ष्यादिनियमाश्चापि न्यायशास्त्रे हि विश्रुताः ।
एवंविधा हि निर्बन्धाः वादिनां जयहेतवः ॥
4 अर्थिप्रत्यर्थिनोस्तावन्न द्वयोर्जयसंभवः ।
एकस्य विजयेऽपि स्यात् सफला सत्कथैव सा
यत्र द्वयोर्न विजयः नवा तत्त्वविनिश्चयः ।
कुकथां कथयन्त्येनां असदुक्तिपरंपराम् ॥
तां द्विकक्ष्यादिकामेके षट्कक्ष्यावधिकां विदुः ।
पूर्वत्रासंभवात् सभ्यैः उत्तरत्र निवारणात् ॥
असदप्रतिभादौ तु पक्षैकत्वमपि क्वचित् ।
सभ्येष्वसत्स्वदक्षेष्वप्युपर्युपरि धावति ॥
5 अथ पत्रमुखो वादो विदुषां हृदयंङ्गमः ।
प्रमेयाम्बुजमार्त्तण्डोदाहृतः कश्चिदुच्यते ॥
प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् ।
साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥
श्वान्तभासितभूताद्यत्यन्तात्मदुभान्तवाक् ।
परन्तद्योतितोदीप्तमितितस्वात्मकत्वतः ॥
चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः ।
यदित्थं न तदित्थं न यथाकिंचिदिति त्रयः ॥
तथाचेदमिति प्रोक्तौ चत्वारोऽवयवा मताः ।
तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥
6 छलैश्च निग्रहस्थानैः जातिभिश्चापि साधनम् ।
उपालम्भश्च वादे चेत् स जल्प इति निर्णयः ॥
विद्यायाः पालनार्थं सः न लाभाद्यर्थमिष्यते ।
छलं च त्रिविधं प्रोक्तं तद्द्वाविंशतिधा पुनः ॥
कथा 40
निग्रहस्थानमुदितं चतुर्विंशतिधा परम् ।
इति न्यायविदः प्राहुः परैर्विविधमिष्यते ॥
7 छलं च प्रायशः विश्वव्यामोहनमिति स्थितम् ।
जातिः स्वव्याघातकत्वादसदुत्तरमुच्यते ॥
परापादितदोषाणामनभ्युपगमेन वा ।
तदुद्धारेण वा दोषं ब्रूयादिति विनिर्णयः ॥
तथैवाप्रतिपत्त्या वाऽथवा विप्रतिपत्तितः ।
प्रतिज्ञादिपरित्यागान्निग्रहस्थानसंभवः ॥
तूष्णींभावो यदा तूष्णींभावो निग्रहकारणम् ।
प्रलपेत्तु यदा तत्र भवेत्प्रलापितं तु तत् ॥
यथायथा चेष्टते सः तथा निग्रहहेतुता ।
अनन्तं निग्रहस्थानं कीर्तितं धर्मकीर्तिना ॥
एवं नानाविधकथाभासतत्त्वावलोकिनाम् ।
सदुत्तरैस्तदुत्थानात् तत्त्वधीजयसंभवः ॥
अन्यथा षण्डचेष्टावद्भवेयुरफलाः कथाः ।
इति प्रख्यापनायात्र कथाभास उदाहृतः ॥
8 वादरूपैवैकधेति कथां तामार्हता विदुः ।
वीतरागकथा वाद इत्यतो विश्रुतो भुवि ॥
विश्रुता वीतरागास्ते नाम्नाऽपि प्रायशो बुधाः ।
पराजयभयाद्वीतरागता यशसेऽपि वा ॥
408 मानमेयरहस्यश्लोकवार्तिके
इति भेदानादरस्स्यादित्याहुर्वादकौतुकाः ।
नियोज्यः पर्यन्नूयोज्यः न कश्चित्कस्यचिद्भुवि ॥
संभवैतिह्यचेष्टादिप्रमाणानां यथायथम् ।
अनुमानप्रभृतिषु ह्यन्तर्भावो बुधैर्मतः ॥
चेष्टा सामायिकी शब्दव्यवहारानुसारिणी ।
अस्येयं बोधिकेत्येवं भरताद्यागमे स्थिता ॥
एवं लिप्यादिकमपि यथासंभवमर्हति ।
अन्तर्भावं ततस्तत्र न विकल्पोऽस्ति वादिनाम्
इत्येवमनुमानस्य सारांशः परिकीर्तितः ।
बहुभिर्बहुधा प्राज्ञैः प्रायशो विस्तरः कृतः ॥
(83) उपमानम्
1 वृद्धनैयायिकास्तत्रातिदेशवचनं श्रुतम् ।
संज्ञाप्रतीतिफलकमुपमानं प्रचक्षते ॥
उपायमात्रावगमे शब्दव्यापारविश्रमात् ।
निरपेक्षोपेयबोधतत्परादागमाद्भिदा ॥
यथा परार्थानुमानं नागमः किंतु भिद्यते ।
लिङ्गसामर्थ्यरूपस्योपायस्य प्रतिपादनात् ॥
2 नव्यनैयायिकानां तु सिद्धान्तोऽथ प्रदर्श्यते ।
श्रुतातिदेशवाक्यस्य तथा विपिनगामिनः ॥
ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।
सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् ।
वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार इष्यते ।
गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥
तस्मादयं स गवयो नामेत्येवंविधा मतिः ।
उपमानैकजन्यैव न प्रमाणान्तरोद्भवा ॥
साधर्म्यादथ वैधर्म्याद्धर्ममात्राच्च तत् त्रिधा ।
गवयो गौरिवेत्यादिवाक्यं साधर्म्यमूलकम् ॥
गवादिवन्न द्विशफः भवेद्वाजीति यद्वचः ।
तद्वैधर्म्यनिदानं स्यात् धर्ममात्रात्पुनर्यथा ॥
दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः ।
सादृश्यवचनं चैतद्द्वयोरस्यादुपलक्षणम् ॥
प्रत्यक्षप्रत्यभिज्ञास्स्युः सादृश्यादिधियो यतः ।
गवयेन सदृग्गौरित्येषा नोपमितिस्ततः ॥
प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते ।
गवा गवयपिण्डस्य न तु युक्तो विपर्ययः ॥
यच्चावगतविज्ञानं प्रत्युत्पन्ननिदानजम् ।
सा संगतिः स संवादः सोऽनुवाद इतीर्यते ॥
सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपिवा ॥
M.R. 52
प्रायस्सर्वेऽनुमानान्तर्भावमाहुर्यथापुनः ।
एषैव गौरसेतिबुद्धिरनुमाऽन्योन्यहस्तवत् ॥
यद्वाऽऽप्तवाक्याद्युत्पत्तिश्चिह्नोन्नीतानिमित्ततः ।
३ अथ मीमांसकैकान्तः किंचित्संगृह्यतेऽधुना ॥
दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् ।
असन्निकृष्टसादृश्यज्ञानं मैमांसकं मतम् ॥
गवयस्थितसादृश्यदर्शनं करणं भवेत् ।
फलं गोगतसादृश्यज्ञानमित्यवधार्यते ॥
तस्माद्यत्स्मर्यते तत् स्यात्साहश्येन विशेषितम्
प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥
प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते ।
विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥
प्रत्यक्षे च यथा देशे स्मर्यमाणे च पावके ।
विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥
तथोपमानप्रामाण्यं विदुषां हृदयङ्गमम् ।
आग्नेयवाक्यं स्वसदृक्सौर्येणोपमितं यदा ॥
तदाचोपस्थिते स्वार्थे तृतीयोंऽशो ह्यपेक्षितः ।
सौर्यभावनया ग्राह्य इत्यस्त्येतत्प्रयोजनम् ॥
तथा प्रतिनिधिद्रव्यसंग्रहोऽपि क्वचिद्भवेत् ।
नचेदमनुमानादिनेति मानं पृथक्ततः ॥
उपमानम् 47
4 उपमानप्रमेयं चेत्संबन्धः स्यात्पदार्थयोः ।
स सामयिक एव स्यात् आरण्यकनरश्रुतः ॥
एवमारण्यकाः केचित् केचिन्नागरकास्तथा ।
केचिद्देशान्तरनरविश्रुताः कतिचित्पुनः ॥
द्वीपान्तरनरप्रोक्ता एवं सर्वे पदात्मकाः ।
शब्दास्स्युरिति संकेतसिद्धान्तः विजयी भवेत् ॥
औत्पत्तिकं तु संबन्धं शब्दस्यार्थेन ये विदुः ।
अर्थापत्तिप्रमाणेन साक्षात्तैस्तद्ग्रहो मतः ॥
प्रत्यक्षं चानुमानं च तदुत्पादे प्रवर्तते ।
अतस्संबन्धविज्ञानं त्रिप्रमाणकमुच्यते ॥
संबन्धाक्षेपशान्त्यन्ते वागेषा श्लोकवार्तिके ।
शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ॥
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ।
अन्यथाऽनुपपत्त्या च बुद्धयेत् शक्तिं द्वयाश्रिताम् ॥
अर्थापत्त्याऽवबुध्यन्ते संबन्धं त्रिप्रमाणकम् ।
न च सामयिकस्तस्मात्संबन्ध इति निर्णयः ॥
ये तु सामयिकं तं च संबन्धं तार्किका विदुः ।
तेषां व्याकरणादीनि प्रमाणानीति निश्चितम् ॥
अतस्संकेतसंबन्धसिद्ध्यर्थं मार्गशोधनम् ।
तन्मार्गप्रतिरोधाय त्रिप्रमाणकतोदिता ॥
412 मानमेयरहस्यश्लोकवार्तिके
सर्वमेतच्च वेदस्यापौरुषेयत्वसिद्धये ।
तत्पौरुषेयतायै च नदीनां सागरो गतिः ॥
(84) अर्थापत्तिः
1 प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवेत् ।
अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता ॥
तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता ।
तथैवानुमितात्सूर्ये यानात्तच्छक्तिशालिता ॥
तथैवोपमितार्थात्स्यादर्थान्तरकल्पना ।
इत्यायूह्यं बुधैस्तत्र निर्णयांशोऽवगम्यताम् ॥
साधारणप्रमाणानामसाधारणमानतः ।
विरोधादविरुद्धांशे धीरर्थापत्तिरुच्यते ॥
यथा जीवनमानस्य मन्दिराभावमानतः ।
विरोधात्करणीभूतात् बहिर्भावस्य कल्पना ॥
तस्माद्यो विद्यमानस्य गृहाभावोऽवगम्यते ।
स हेतुस्स बहिर्भावमगृहीत्वा न गृह्यते ॥
प्रमेयस्य प्रवेशोऽयं विशेषोऽस्त्यनुमानतः ।
विलक्षणप्रमाणत्वात् तस्य नास्त्यत्र दोषता ॥
2 तार्किकध्वंसनोपायमेतादृशमजानता ।
गुरुणा कल्पितः कश्चिज्जीवनस्यात्र संशयः ॥
अर्थापत्तिः 413
जीवनं किल विज्ञातं वेश्मवर्तितया पुरा ।
तस्माज्जीवनसंदेहः भवेद्वेश्मन्यदर्शनात् ॥
संदिग्धं जीवनं त्वेतत् बहिर्भावस्य बोधकम् ।
अर्थापत्तेः प्रभावोऽयं यत्सन्दिग्धोऽपि बोधयेत् ॥
एवं जीवनसंदेहे स्यात्संदिग्धविशेषणः ।
हेतुरित्यनुमानत्वनिरासः सुकरो मतः ॥
तत्संदेहव्युदासाय कल्पना या प्रवर्तते ।
संदेहापादकादर्थादर्थापत्तिरसौ मता ॥
दृष्टान्तदृष्टनियमस्मरणे त्वनुमा मता ।
प्रतिघातालोचने स्यादर्थापत्तिर्विलक्षणा ॥
विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम् ।
नयता दृष्टमर्थं या साऽर्थापत्तिस्तु कल्पना ॥
3 अर्थापत्तेस्तु नैवेह प्रमाणान्तरतेष्यते ।
व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥
सत्त्वभोजनयोर्व्याप्ये स्यातां जीवनपीनते ।
जीवित्वे च गृहासत्त्वं बहिसत्त्वं प्रसाधयेत् ॥
पीनत्वे च दिवाऽभुक्तिः रात्रिभोजनसाधनम् ।
इति नैयायिकाः प्राहुः इतरेऽपि तदध्वगाः ॥
अनियम्यस्य नायुक्तिः नानियन्तोपपादकः ।
न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥
इदमादित्येन पद्यं तस्य चार्थोऽयमुच्यते ।
व्याप्यमेवोपपाद्यं स्यात् व्यापकश्चोपपादकः ॥
विरोधे नैव मानं स्यात् अनुमानेऽपि सा भवेत्
विस्तरो न्यायकुसुमाञ्जल्यादौ वीक्ष्यतां बुधैः ।
4 यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये ।
शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥
पीनो दिवा च नात्तीति सांकाङ्क्षवचनश्रुतेः ।
तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥
तामर्थगोचरां केचिदपरे शब्दगोचराम् ।
कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते ॥
प्रायशश्चानया वेदे व्यवहारः व्यवस्थितः ।
सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः ॥
वह्निसंसर्गतो दाहस्यान्यथाऽनुपपत्तितः ।
क्लृप्तिर्दहनशक्तेस्तु दृष्टार्थापत्तिरुच्यते ॥
प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितोऽधिका ।
श्रुतार्थापत्तिरेष्टव्या प्रमेयग्राहिणी परा ॥
5 प्राभाकरास्त्विमं भेदं न विवक्षन्ति तद्यथा ।
अर्थं बुद्ध्वा शब्दक्लृप्तिरिति सर्वत्र विश्रुता ॥
केवलं द्वारमित्युक्ते पिधेहीति न कल्प्यते ।
किंतु क्लृप्तिः पिधानस्य तदर्थस्यैव लाघवात् ॥
अतएवच शब्दस्य नाध्याहारमिमे विदुः ।
भाट्टा नैयायिकाश्चापि शब्दाध्याहारवादिनः ॥
पुष्पेभ्य इति शुद्धोक्तौ स्पृह्यार्थो यदि कल्प्यते ।
चतुर्थ्यनुपपत्तिस्स्यात् शब्दस्तदुपपादकः ॥
अर्थाध्याहारपक्षे तु कार्यं वेदार्थ इष्यते ।
स एव धर्मः वेदैकगम्यता न विरोत्स्यते ॥
द्रव्यक्रियागुणादीनां धर्मत्वं ये विदुर्बुधाः ।
अन्यथाऽनुपपत्त्या हि तेषां वेदस्य कल्पना ॥
लौकिकोऽलौकिकश्चेति यथा शब्दो द्विधा मतः ।
लौकिक्यलौकिकी चेति श्रुतार्थापत्तिरप्यसौ ॥
(85) अनुपलब्धिः.
1 प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि।
तत्र तृतीयपादेनानुपलब्धिर्विवक्षिता ।
तुरीयेन तु पादेनाभावबुद्धिर्विवक्षिता ॥
प्रमायाः करणत्वे तु फलं हानादिबुद्धयः ।
इति न्यायोऽभ्युपेतव्य इति वार्तिककृन्मनः ॥
अथ तस्यैव विवृतिः सम्प्रदायप्रवर्तकैः ।
प्रकाशितो लिख्यतेऽत्र पुनः वैशद्यसिद्धये ॥
2 अधोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम् ।
अभावाख्यं प्रमाणं स्यात् अभावस्यावबोधकम् ॥
विषयं तद्घधीनांश्च सन्निकर्षादिकान्विना ।
उपलम्भस्य सामग्रीसंपत्तिरिह योग्यता ॥
सा च ज्ञाततयाऽभावज्ञानस्य सहकारिणी ।
अज्ञातोऽनुपलम्भस्तु सत्तामात्रेण बोधकः ॥
योग्यत्वावगमार्थं हि सूक्ष्मार्थाभाववेदने ।
सूक्ष्मबोधकनेत्रांशुसंपातार्थं प्रयस्यते ॥
योग्यत्वस्य च संदेहे विपर्यासेऽथवा सति ।
अभावेऽपि हि संदेहः भ्रमो वाऽस्त्येव तद्यथा ॥
तमसि भ्रष्टमन्विष्यन् कराभ्यामङ्गुलीयकम् ।
सर्वोर्वीस्पर्शसंदेहात् अभावेऽप्येति संशयम् ॥
तथैव सर्वतोऽस्पर्शो मत्वा सर्वाभिमर्शनम् ।
सत एवाङ्गुलीयस्याप्यभावं बुध्यते भ्रमात् ॥
द्विविधोऽनुपलम्भः स्यात्प्रतियोगिप्रभेदतः ।
प्रमितिश्च स्मृतिश्चेति तत्राद्या प्रतियोगिनी ॥
प्रत्यक्षादिप्रभेदेन प्रमितिः पञ्चधा स्थिता ।
तथैवानुपलम्भोऽपि प्रविभागमिहार्हति ॥
अभावाख्यं तु वस्त्वेव नास्तीत्याह प्रभाकरः ।
हसन्ति चिन्तां तस्यान्तेवसन्तः पुनरीदृशीम् ॥
अनुपलब्धिः 4
3 इति मीमांसकाः प्राहुः अत्र नैयायिका जगुः ।
अभावः प्रत्यक्ष इति सर्वानुभवसाक्षिकः ॥
येनेन्द्रियेण या व्यक्तिः गृह्यते तेन तद्गता ।
जातिश्च तदभावश्च गृह्येते इति निर्णयः ॥
विशेषणतया सन्निकर्षेणैष प्रतीयते ।
सां हि स्वरूपसंबन्धः न च ज्ञाननिरूपिता ॥
स्याद्योग्यानुपलब्धिश्च करणे सहकारिणी ।
प्रतियोग्युपलम्भे चाभावो नैवोपलभ्यते ॥
यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ।
तादृशप्रतियोगित्वं योग्यताऽनुपलब्धिगा ॥
तस्मात्तमसि कुम्भादेरभावो नोपलभ्यते ।
तत्र कुम्भोपलब्धिस्तु प्रसङ्गं नैव चार्हति ॥
तस्मादनुपलब्धिस्तु न मानान्तरमिष्यते ।
अपिचानुपलम्भस्याज्ञातस्य यदि हेतुता ॥
ज्ञानाकरणकत्वेन प्रत्यक्षत्वमिहाक्षतम् ।
यदि ज्ञातस्य हेतुत्वं तत्रापि तदपेक्षया ॥
दुरुद्धराऽनवस्था स्यात् साऽपि चाभावलक्षणा ।
भावान्तराभाववादेऽनुपलब्धिः न विद्यते ॥
स्वरूपेण पुनर्जाने भावरूपेण वेद्यते ।
प्रतियोगिस्पर्शितायां अभावत्वेन तद्ग्रहः ॥
M.R. 53
4 दृश्यसत्ता भवेद्व्याप्या दर्शनं व्यापकं मतम् ।
व्यापकानुपलब्ध्यैव व्याप्याभावोऽवसीयते ॥
लिङ्गेनानुपलब्ध्यैव ह्यभावस्य गतार्थता ।
इति बौद्धाः तन्न युक्तं लिङ्गज्ञानानवस्थितेः ॥
अभिप्रायस्सौगतानां तेषामेषोऽवधार्यताम् ।
यो न्यायमञ्जरीन्यायरत्नाकरविशोधितः ॥
दृश्यं सद्यत्र यत्किंचिद्वस्तु नैवोपलभ्यते ।
नास्ति तद्वस्तु तत्रेति बुद्धिसत्त्वे पुमानिव ॥
न दृश्यते चात्र देशे दृश्योऽपि कलशस्त्विति ।
स्वभावहेतुरनुपलब्धिः स्यात्प्रतिषेधकः ॥
यैवैकज्ञानसंसर्गिवस्त्वन्यतरगोचरा ।
धीस्सैवैकतरस्येष्टाऽनुपलब्ध्यभिधा ततः ॥
उपलब्धेरभावोऽन्यो नोपलब्ध्यतिरेकतः ।
तस्मान्न तस्यानुपलब्ध्यन्तरापेक्षयाऽस्थितिः ॥
योऽसावन्यतरस्योपलम्भः स स्वयमेवहि ।
संवेद्य इत्यपि ततो नैव चात्रानवस्थितिः ॥
नास्तीत्यादिव्यवहृतियोग्यताऽभावशब्दिता ।
तादात्म्यमेव संबन्धः तया तस्या इति स्थिति ॥
बहुधाऽनुपलब्धिर्हि तीर्थकृद्भिर्निरूपिता ।
एकादशविधामेके परे षोडशधा विदुः ॥
व्यापकानुपलब्धिस्तु प्रायशस्सर्वसम्मता ।
व्यापकानुपलब्ध्या हि पक्षे व्याप्यं निवर्त्यते ॥
या व्यापकविरुद्धस्य चोपलब्धिरनन्तरा ।
पृथिवीत्वव्यापकस्य द्रव्यत्वस्य विरोधिनः ॥
गुणत्वस्योपलम्भेन पृथिवीत्वनिषेधधीः ।
तया संपद्यत इति साऽपि सर्वत्र सम्मता ॥
5 अत्र प्रतिब्रुवन्त्येवं कुमारिलमुखा बुधाः ।
अक्षादेवोत्पद्यतेऽसावभावो मानमिष्यते ॥
त्रिरूपलिङ्गजन्यार्थदृक्प्रमाणमितीरयन् ।
कथं तुच्छस्वरूपस्य कारणापेक्षितां वदेत् ॥
अनुमा दुर्निरूपाऽत्र मानमित्यैक्यवादिना ।
तस्मादनुपलम्भोऽस्ति, प्रमाणं वाऽथवा न सः
अक्षापेक्षा तु नाभावग्रहणायोपयुज्यते ।
किंतु दृश्यादर्शनाय भूतलाद्यवबुद्धये ॥
दृश्यादर्शनमक्षं च मिलित्वैवावबोधयेत् ।
अभावेन विशिष्टं तं भावं यद्भूतलादिकम् ॥
नच भिन्नेन्द्रियग्राह्यं किंचिदस्त्यनुरागकृत् ।
नहि लाक्षानुरक्तेऽपि स्फटिके धीस्त्वगादिभिः
इत्यादिवचनं तु स्यात्संबन्धाग्रहगोचरम् ।
प्रकृते तूभयोश्चैव संसर्गोऽभावगोचरः ॥
-20 मानमेयरहस्यश्लोकवार्तिके
त्वाचं क्षीरं तस्य रसः संसर्गोऽपि च रासनः ।
तथाच मधुरं क्षीरमिति लोके विशिष्टधीः ॥
शब्दस्तु श्रावणः तस्य चार्थे श्रोत्रो न चान्वयः ।
तस्मान्न चक्षुः शब्दादिरहितस्यावबोधकृत् ॥
6 अत्र नैयायिकानां तु सिद्धान्तोऽयं निरर्गलः ।
सर्वोपाख्यावियुक्तत्वान्नेयमस्तीति वोच्यताम् ॥
अभावश्चाक्षुषज्ञानविषयो वाऽभ्युपेयताम् ।
अभावस्य विचारे तु कृत एतस्य विस्तरः ॥
(86) शब्दाक्षेपः.
1 नन्वत्र प्रथमं शब्दे प्रामाण्यं नावकल्पते ।
प्रामाण्येऽपि पृथग्भावो नास्तीत्यथ परीक्ष्यते ॥
अर्थप्रतीतिजनकं प्रमाणमिति सम्मतम् ।
विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी ॥
अङ्गुल्यग्रे हस्तियूथशतमित्यादिवाक्यतः ।
एष वन्ध्यासुतो यातीत्यतो वाऽर्थः क इष्यते ॥
लोलाक्षीणां लक्षमभिरमयेद्यः पुमानिह ।
स गन्धर्वपदं प्राप्नोतीति च श्रूयते स्वनः ॥
स्वर्गकामो दर्शपूर्णमासाभ्यां च यजेदिति ।
वाक्यस्यार्थे कथं लोके न स्यात् श्रद्धैव केवलम्॥
शब्दक्षेपः 421
अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते ।
वक्तुं, न जातिः न व्यक्तिः न तद्वानाम् कश्चन ॥
संबन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथवा ।
शक्यः संन्नपि वा बोद्धुं अर्थे कथमतीन्द्रिये ॥
वाक्यार्थोऽपि न निर्णेतुं पार्यते पारमार्थिकः ।
नियोगभावनाभेदसंसर्गादिस्वभावकः ॥
तत्प्रतीत्यभ्युपायश्च किं पदार्थः पदानि वा ।
वाक्यं वा व्यतिषिक्तार्थं स्फोटो वेति न लक्ष्यते ॥
सिद्धायामपि तबुद्धौ तस्याः द्रढिमकारणम् ।
नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥
पदे नित्येऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः ।
नित्या वा कृतकत्वेऽपि कृताः केनेति दुर्गमम् ॥
कर्ताऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् ।
स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥
परस्परविरुद्धाश्च सन्ति भूयांस आगमाः ।
तेषां कस्येश्वरः कर्ता कस्य नेति न गम्यते ॥
वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता ।
फलस्यानुपलम्भश्च तथा फलविपर्ययः ॥
सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः ।
किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्र वा ॥
२२ मानमेयरहस्यश्लोकवार्तिके
तेन वेदप्रमाणत्वं विषमे पथि वर्तते ।
जीविकोपायबुद्ध्या वा श्रद्धया वाऽभ्युपेयताम् ॥
२ विकल्पयोनयश्शब्दा विकल्पाश्शब्दयोनयः ।
कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यतः ॥
भिक्षुणा जातिमात्रस्य तथा जातिमतोऽपि वा ।
जातिमद्योगस्य चापि वाच्यत्वमिह दूषितम् ॥
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥
वस्तुरूपं हि निर्भागं तत् प्रत्यक्षनिवेदितम् ।
अतो बलाल्लिङ्गशब्दौ अपोहविषयौ मतौ ॥
नागोर्निवृत्तिर्नासप्तिनिवृत्तिर्वाऽवबुध्यते ।
किंतु वस्तुस्वरूपेण स शब्दार्थोऽवगम्यते ॥
व्यावृत्तेष्वनुवृत्तं तं अपश्यन्तः परीक्षकाः ।
अतद्व्यावृत्तिरूपं तं सुनिष्कृष्य प्रचक्षते ॥
अनादिवासनावेगात् व्यावृत्तिरपि सा पुनः ।
सद्रूपमिव भिन्नं च तत्रतत्रावभासते ॥
३ इति सौगतसिद्धान्तः एष शाब्दिकसौगतः ।
तद्वाक्यार्थात्मना वाक्यं निर्भागं हि विवर्तते ॥
वाक्यार्थो वाक्यतो नार्थान्तरमित्यवधार्यते ।
शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ॥
शब्दप्रामाण्यवादः 423
विभागैः प्रक्रियामात्रमविद्वान् प्रतिपद्यते ।
शाब्दवैवर्तवादोऽयं वाक्यार्थे ह्यस्य विस्तरः ॥
4 शाक्या वैशेषिकाश्चापि पृथक् शब्दस्य मानताम्।
नाङ्गीकुर्वन्ति तैरुक्तं वचनं चेदमुच्यते ॥
प्रत्यक्षमनुमानं च प्रमाणे सदृशात्मनः ।
अप्रत्यक्षस्य संबन्धात् अन्यतः प्रतिपत्तितः ॥
अपोद्धृताभिधायी च शब्दः वस्तु न संस्पृशेत् ।
अपोहवाचोयुक्त्या च शून्यता सैव सम्मता ॥
प्रशस्तपादभाष्यानुवादोऽप्येष निशम्यताम् ।
वक्तृप्रामाण्यसापेक्षः श्रुतिस्मृत्यादिलक्षणः ॥
आम्नायोऽप्यनुमानं तद्वचनादिति सूत्रणात् ।
वक्तृज्ञानानुमानेन प्रामाण्यं तस्य सम्मतम् ॥
(87) शब्दप्रामाण्यवादः.
1 अत्रोच्यते वेदविदां सम्प्रदायस्य संग्रहः ।
यदर्थं सकलं शास्त्रं मीमांसाख्यं प्रवर्तितम् ॥
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥
तेनाभिधातृदौरात्म्यकृतेयमयथार्थता ।
प्रत्ययस्येति, शब्दानां नार्थासंस्पर्शिता स्वतः ॥
हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् ॥
या तु जात्यादिशब्दार्थपराकरणवर्त्मना ।
अर्थासंस्पर्शिता सैषाऽपोहवादे निराकृता ॥
2 तत्रानुमानमेवेदं बौद्धैर्वैशेषिकैःश्रितम् ।
भेदस्सांख्यादिभिस्त्विष्टः न सूक्तं भेदकारणम् ॥
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ।
यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः ॥
धूमादौ देशकालादिद्वारा त्ववगते सति ।
संबन्धनियमे तेन गमकत्वं प्रतीयते ॥
शब्दस्य गमकत्वं तु प्राग्वृद्धेभ्योऽवगम्यते ।
न संबन्धान्तरं तत्र नचाप्यत्रात्मसंश्रयः ॥
वृद्धेषु पूर्वपूर्वेषु गमकत्वं हि गृह्यते ।
अथोत्तरोत्तरेषां तु गमकत्वग्रहो भवेत् ।
यावन्तो यादृशा येच यदर्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्याः ते तथैवावबोधकाः ॥
तेषां तु गुणभूतानामर्थप्रत्यायनं प्रति ।
साहित्यमेकवक्तृत्वं क्रमश्चापि विवक्षितः ॥
तस्माद्गमकतैवादावभिधायकता ततः ।
ज्ञायते तन्निमित्तेति संज्ञासंज्ञित्वलक्षणा ॥