सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

308 मानमेयरहस्यश्लोकवार्तिके
नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च ।
कल्पनाऽपि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥
तस्माद्यन्नास्ति नास्त्येव यच्चास्ति परमार्थतः ।
तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ॥
स्वप्नादिभोगवच्चापि योपभोगस्य कल्पना ।
तन्निवृत्त्यर्थमेवेह परमार्थे प्रयतते ॥
3 इत्यस्य विवृतिः काचित् एषा सर्वार्थसिद्धितः ।
संगृह्य लिखिता ज्ञेया धीमतां तत्र विस्तरः ॥
अथ संवृतिसत्यत्वं संवृतेस्सत्यतेष्यते ।
यद्वा संवृतिसंबन्धात्सत्यतेत्यभिधीयते ॥
सत्यत्वेन त्वसत्यं वा किं संवृत्याऽवभासते ।
संवृत्यां भ्रमरूपायां तथा वा भानमुच्यते ॥
यद्वा तैमिरिके केशस्तवकभ्रान्तिरीरितः ।
संवृत्याख्ये दोषभेदे किमध्यस्तमितीर्यते ॥
संवृतेस्सत्यतापक्षः वार्तिकेन विशोधितः ।
द्वितीयादिविकल्पानां समाधिरभिधीयते ॥
अथ संवृतिसंबन्धात् स्वभावादन्यजातिमत् ।
अन्यजातीयतां यायादिति दृष्टं नहि क्वचित् ॥
अन्यथाख्यातिरेवेयं स्यात्तृतीयतुरीययोः ।
पञ्चमे संवृतिर्दोष इति नैव प्रसिद्धयति ॥

दूरासन्नत्वसादृश्यकाचादिषु हि दोषता ।
व्यावहारिकसत्यत्वमित्यत्राप्येवमूह्यताम् ॥
4 सत्त्वासत्त्वविकल्पोऽपि प्रसङ्गादिह कीर्त्यते ।
व्यक्तीभविष्यति प्रायः निदानं सर्वदर्शने ॥
सत्त्वं प्रमाणसंबन्धः कालसंबन्ध इत्यपि ।
अर्थक्रियाकारिता वा निर्विकारत्वमेव वा ॥
सत्ताश्रयत्वं द्रव्यत्वं महासामान्यमित्यपि ।
व्यवहारार्हता वा स्याद्यद्वा नानास्वभावता ॥
वस्तुत्वं वाऽथ भावत्वं ध्रुवोत्पादविनाशिता ।
एवमादिप्रभेदेन बुधैस्तैस्तैर्निरुच्यते ॥
असत्त्वमपिचैवेत्थं विपश्चिद्भिर्विकल्प्यते ।
असत्तुच्छं निःस्वभावमलीकं शून्यमित्यपि ॥
आरोपितमनिर्वाच्यमध्यस्तं कल्पितं तथा ।
निरुपाख्यं च निष्प्रख्यं विचारासहताऽपिवा ॥
विवर्तं संवृतं मिथ्याऽभावो व्यावृत्तमित्यपि ।
निषिद्धं चेत्येवमाद्यान् शब्दानत्र प्रयुञ्जते ॥
प्रायस्तेषामर्थभेदः कल्प्यते पारिभाषिकः ।
केचित्क्वचित्त्वैक्यदृष्ट्या कुर्युः खण्डनमण्डने ॥
कैश्चिच्च देशकालादिनियतं चोभयं मतम् ।
अतो विधिर्निषेधश्च नास्त्येव निरुपाधिकः ॥

इत्येतेषामभिप्रायः, अतएव परे बुधाः ।
नैरात्म्यं वाऽथ सार्वात्म्यमर्थानामिति जानते ॥
पूर्वां कोटिं माध्यमिकाः पश्चिमामार्हताश्रिताः।
अन्तरा सर्वसिद्धान्ता इति तत्त्वविदो विदुः ॥
(63) प्रत्यभिज्ञावादः.
1 अथ सोऽयं घट इति ज्ञानमेकमुत द्वयम् ।
ग्रहणं स्मरणं चेदं निरन्तरसमुद्भवात् ॥
प्रत्यभिज्ञां विदुः ज्ञानद्वयमित्येव सौगताः ।
तार्किकाः पुनरन्येऽपि प्राहुस्तां ग्रहणात्मिकाम् ॥
परे सांकर्यसोढारस्तामिच्छन्त्युभयात्मिकाम् ।
दर्शनादर्शनाभ्यां च व्यवस्थोपाधिनीतितः ॥
2 सर्वथा प्रत्यभिज्ञानं प्रमाणं सविकल्पकम् ।
करणाकरणादीनां कालभेदाद्युपाधितः ॥
अविरोधान्न बीजादौ शक्यते भेदकल्पना ।
दीपादिष्विव सर्वत्र बाधकादेरसंभवः ॥
अन्यथा देशभेदेन करणाकरणादिभिः ।
एकं जगति नैव स्यात् इति स्यात्सर्वशून्यता ॥
3 तस्मादिरुद्धसंसृष्टविषयप्रत्यभिज्ञया ।
स्थिरत्वं सर्ववस्तूनां सर्वेषामपि चात्मनाम् ॥

प्रत्यभिज्ञावादः 311
4 संवादो नाम विज्ञानं जात्यन्तरमितीतरे ।
गृहीतविषयं शब्दहेतुकं तद्विदुः परे ॥
शाब्दप्रभेद इत्यन्ये प्राहुरेवं धियामिह ।
विवादा बहवस्सूक्ष्माः विद्वद्भिरुपदर्शिताः ॥
स्मृतिः गृहीतविषया मतिः तात्कालिकी मता ।
प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ॥
अनन्तो बुद्धिभेदोऽयमलंकारादिशास्त्रतः ।
विज्ञेयो ननु बुद्धयैव बाह्यान्तरविकल्पना ॥
(64) स्वयंप्रकाशवादः.
1 एवं सौगतसिद्धान्तः तत्तत्सिद्धान्तनिष्ठितैः ।
निरस्यते रीतिभेदैः अन्योन्यपरिपन्थिभिः ॥
प्रतिभावादिनो ये स्युः वार्ताक्षौदुम्बरायणाः ।
प्रतिभागोचरश्शब्दः तदर्थश्चेति तन्मतम् ॥
2 अत्र कश्चित्स्वतन्त्रोऽस्ति सिद्धान्तस्सोऽवधार्यताम्
ज्ञानं नाम पदार्थो यस्स नास्त्येवेति तन्मतम् ॥
ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता ।
तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥
स एव भूतचैतन्यवादिनः परमाशयः ।
अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥

312 मानमेयरहस्यश्लोकवार्तिके
अतीन्द्रियजडज्ञानवादिनो ये कुमारिलाः ।
दुरुद्धरा वागुरेयं तेषामिति परे विदुः ॥
3 नचोपलभते कश्चिदज्ञातेऽर्थे धियं क्वचित् ।
ज्ञातेऽनुमानाज्जानीत इत्याह शबरस्स्वयम् ॥
4 इदं संवेद्म्यहमिति कर्मकर्तृकरम्बितम् ।
उपलब्धं समाश्रित्य धीराः तस्य स्वभासताम्।
अङ्ग्यकार्षुस्सौगताद्या अपि नातोऽनवस्थितिः ।
सर्वं ज्ञानाधीनसिद्धि व्यवहाराय कल्पते ॥
ज्ञानं चापश्यतां सर्वशून्यत्वाद्बिभ्यतां सताम् ।
गतिः स्वयंप्रकाशत्वाहते नान्योपलभ्यते ॥
5 ज्ञानाज्ञानेऽपि विषयव्यवहारं विदुः परे ।
घटोऽयमिति विज्ञाने घटमात्रं हि भासते ॥
अङ्गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति ।
स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥
इत्याहुरथचात्रैव केचित्स्वायम्भुवादयः ।
नतु चित्तं स्वप्रकाशं न चित्तान्तरसिद्धयपि ॥
सर्वं सवृत्तिकं चित्तं साक्षिवेद्यं सदा स्थितम् ।
सर्वोपपत्तिरेतस्मिन् सिद्धान्त इति मन्वते ॥
तमेव पक्षं प्रायेण तथौपनिषदा अपि ।
आश्रित्य निर्वहन्त्यत्र व्यवहारं हि साक्षिणा ॥

स्वयंप्रकाशवादः
व्यवहारो हि जगति भवत्यालम्बने क्वचित् ।
न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते ।
सामान्यतो निश्चिते हि विशेषः स्याद्बुभुत्सितः
कृतकक्षणिकानेकं ज्ञानमात्मेति केचन ॥
नित्यस्थिरैकविज्ञानमात्मानमपरे विदुः ।
विधाभेदे विवादोऽयं धर्मी तूभयसम्मतः ॥
धर्मधर्म्यैक्यवादे तु विवादोऽनवकाशभाक् ।
तदर्थमेव तादात्म्यं केचिदिच्छन्ति सूरयः ॥
प्रकाशं विषयत्वं च विभिन्नं ये विदुर्बुधाः ।
संविदः स्वप्रकाशेऽपि वेद्यतां तां न मन्वते ॥
विषयत्वं प्रकाशं च ये त्वनर्थान्तरं विदुः ।
संविदन्तरसंवेद्यामप्याहुस्संविदं तु ताम् ॥
अन्यथा गुरुशिष्यादेः सर्वलौकिकसम्मतः ।
व्यवहारो विलुप्येत प्राज्ञाज्ञायविनिश्चयात् ॥
स्वसत्तयैव प्रकाशमानत्वमनुभूतिता ।
इति संवित्स्वप्रकाशवादिज्ञानत्वनिर्णयः ॥
वर्तमानदशायां स्वसत्तयैवाश्रयं प्रति ।
प्रकाशमानत्वमनुभूतित्वमिति केचन ॥
सत्तयैव स्वविषयसाधनत्वमितीतरे ।
परप्रकाशविज्ञानवादिनैयायिकादयः ॥
M.R. 40

514 मानमेयरहस्यश्लोकवार्तिके
6 आत्मनोऽनुभवो नाम स्वरूपं निर्विशेषिणाम् ।
स्वेनैव स्वस्य विषयीकरणे विकृतिर्भवेत् ॥
फलव्याप्यत्वमेवास्य शास्त्रकृद्भिः निराकृतम् ।
ब्रह्मण्यज्ञाननाशार्थं वृत्तिव्याप्यत्वमिष्यते ॥
या चावरणभङ्गावच्छिन्ना वृत्तिः फलं हि सा ।
तद्व्याप्यताऽप्यन्यैराचार्यैर्नोपगम्यते ॥
व्यवहारोपपत्तिर्हि सर्वथा निर्विशेषिणाम् ।
अपेक्षिता ततस्सूक्ष्मचिन्ता विज्ञानचातुरी ॥
7 सविशेषविदां तत्त्वं प्रसङ्गात्किंचिदुच्यते ।
आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥
स्फुरतः स्फुरणं धर्मः सैव स्याद्भासमानता ।
व्यवहारानुगुण्यं वा वह्नेरौज्ज्वल्यवत्तु तत् ॥
स नित्य आत्मनो धर्मः न तेन स्याद्विकारिता ।
तथैव चेश्वरात्माऽपि स्वानुभाव्य इतीष्यते ॥
धर्मभूतं ज्ञानमपि सर्वेषामात्मनां सदा ।
विषयव्यक्तिवेलायां स्वयमेवावभासते ॥
नित्यमुक्तेश्वराणां तु सर्वदैव विकासि तत् ।
अनुग्रहेच्छासंकल्पप्रमुखाकारभागपि ॥
न तावता स्वभावस्य विकारश्शङ्क्यते क्वचित् ।
स्वभावोपाधिभेदेन गुणदोषव्यवस्थितिः ॥

स्मृतिः ३१५
अनित्यमपि विज्ञानमीश्वरेऽस्तीति केचन ।
तद्विकारोऽनुग्रहेच्छासंकल्पास्त्विति चाभ्यधुः ॥
औपाधिकागन्तुकेनाकारेणैव विकारिता ।
स्वभाविको य आकारः धर्मिणो भूषणं तु तत् ॥
तथैव द्वैतसिद्धान्ते धर्मभूतधियः स्थले ।
स्वरूपमेवाभिषिच्य सर्वमित्थं निरूह्यते ॥
(६५) स्मृतिः.
१ अथ स्मृतिविचारोऽसौ क्रियते विदुषां मुदे ।
स्मृतिरेवहि संस्कारो वासनेत्यपि कीर्त्यते ॥
स्मृतिशक्तौ स्थितस्सर्वः प्रपञ्च इति सुस्थितम् ।
वासनामात्रनिष्ठं चेज्जगत्स्याच्छून्यलक्षणम् ॥
इति हार्दं सौगतानां स्मृत्यप्रामाण्यवादिनम् ।
२ लोके स्मृत्यैव हि कृताकृतयोः पर्यवेक्षणम् ॥
स्मृत्यैव कवयन्त्यत्र काव्यानि कवयः पुनः ।
स्मृत्यैव किल शब्दादिप्रमाणानां प्रवृत्तयः ॥
स्मृत्यैव हि परब्रह्मसाक्षात्कारादिरिष्यते ।
व्यवहारस्य सर्वस्य स्मृत्यप्रामाण्यवादिनः ॥
अव्यवस्थाप्रसङ्गेन भवन्त्येवाव्यवस्थिताः ।
स्मृतिशक्तिविहीनांस्तु चोन्मत्तानिति जानते ॥

316 मानमेयरहस्यश्लोकवार्तिके
स्मृतिमात्राप्रमाणत्वं न युक्तमिति वीक्ष्यताम् ।
अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥
बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता ।
विशुद्धस्मृतिमूलेऽपि मानवादौ प्रसङ्गतः ॥
भ्रान्तिं प्रमातो भिन्दन्तः नचाहुः स्मृतिमानताम् ।
स्मृतित्वमेव हि व्यक्तमप्रामाण्यं तु तन्मते ॥
पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते ।
चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥
ततश्च प्रतिपत्तौ वा व्यवहारोदयेऽपिवा ।
तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तिव्यवस्थितिः ॥
तस्मात् स्मृतिर्नाप्रमाणं बाधानर्हार्थदर्शनात् ।
प्रतिभास्मृतिशक्त्यादिशालिनस्स्युः परीक्षकाः ॥
अनुमाने हि गुरवो गृहीतग्राहितां विदुः ।
धारावाहिनि चाध्यक्षे तार्किकास्तां विजानते ॥
सर्वज्ञवादिनां तादृक् द्वितीयं योगजं मतम् ।
अनित्यमीश्वरज्ञानं तादृशं हीशवादिनाम् ॥
अप्रामाण्यं वदन्तोऽपि स्मृतेर्वैशेषिकादयः ।
स्वके शास्त्रे हि याथात्म्याद्विद्याकोटौ पठन्ति ताम् ॥
तदेकदेशिभिरपि प्रामाण्यं स्वीकृतं ततः ।
ऐन्द्रपाणिनिदृष्टानां प्रामाण्यं सर्वसम्मतम् ॥

भ्रमविचारः 317
वागीश्वरादिभिः प्राच्यैरुक्तं मानमनोहरे ।
प्रामाण्यमिति हि न्यायपरिशुद्धावुदीरितम् ॥
3 इति स्मृतीनां प्रामाण्यं विदां वेदविदां मतम् ।
अप्रामाण्यं वदन्तो ये तेषां भावोऽयमुच्यते ॥
स्मृतिर्न बाह्यविषया नष्टेऽर्थे स्मृतिदर्शनात् ।
तस्मान्न प्रत्यभिज्ञाऽपि प्रामाण्यं लब्धुमर्हति ॥
ततः क्षणिकसिद्धान्तः निर्निरोध इतीतरे ।
परे विदुः प्रत्यभिज्ञात्यागिनां लोकबाह्यताम् ॥
शाक्यनिर्ग्रन्थसंसारमोचकानां स्मृतेः पुनः ।
अप्रामाण्यप्रतिष्ठायै स्मृतिमन्ये समत्यजन् ॥
पूर्वमीमांसका एते, तद्वर्त्मैवानुवर्त्यते ।
नैयायिकादिभिरपि गतानुगतिकं जगत् ॥
4 अगृहीतार्थगन्तृत्वं प्रोक्तं प्रामाण्यलक्षणे ।
स्मृतिव्यावृत्तये पूर्वैः दूषितं तन्तु तार्किकैः ॥
न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् ।
अपित्वनर्थजन्यत्वमित्याहुः किल तार्किकाः ॥
शब्दस्यानुपलब्धेऽर्थे प्रामाण्यं प्राह जैमिनिः ।
सर्वप्रमाणविषयं तदित्याहुः कुमारिलाः ॥
संप्लवन्ते प्रमाणानि प्रमेयमिह भूरिशः ।
व्यवतिष्ठन्तेऽपि तथा क्वचित्त्विति बुधा विदुः ॥

318 मानमेयरहस्यश्लोकवार्तिके
तस्मात्स्मृतिमूलशुद्ध्या प्रमाणमिति निश्चितम्
मूलान्तर्भावदृष्ट्या तु पृथक्प्रामाण्यनिह्नवः ॥
(66) प्रतिभावादः
1 जन्मौषधितपोयोगजनितास्सिद्धयस्तथा ।
प्रातिभाद्वा सर्वमिति सिद्धीराह पतञ्जलिः ॥
प्रतिभैव प्रसंख्यानं विवेकख्यातिरुच्यते ।
तदर्थं संयमस्याऽनुष्ठाने तत्सिद्धिसूचकम् ॥
उदेति प्रातिभं सूर्योदयात्प्रागरुणो यथा ।
तेन तारकसंज्ञेन योगी सर्वं हि पश्यति ॥
योगोत्थशुक्लधर्मानुगृहीताच्चित्तमात्रतः ।
दिव्यान् भोगान्विजानाति योगीति मुनयो विदुः॥
2 एतच्छ्रुत्वैव कतिचिदायासालसबुद्धयः ।
प्रमाणान्तरमिच्छन्ति प्रतिभां तन्निशम्यताम् ॥
ननुच प्रतिभा काचित् यथार्था मानमिष्यताम् ।
बाह्यार्थनैरपेक्ष्येण बाह्यज्ञानक्षमाऽस्तु सा ॥
विशिष्टकालपुरुषाद्यपेक्षोत्कर्षसंभवा ।
इति चेदत्र कथितमभियुक्तैरिदं तु तत् ॥
3 सत्यं कालादिभेदस्तु दुर्विवेचोऽस्मदादिभिः ।
सन्नप्यसौ व्यवहृतौ नोपयोगीत्युपेक्ष्यते ॥

प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः ।
तदाऽन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ॥
पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी ।
तस्मात्पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम् ॥
साऽपि प्रागुक्तयोगीन्द्रप्रत्यक्षेऽन्तर्भवत्यसौ ।
इति तस्मान्न प्रमाणमतिरिक्तं तदिष्यते ॥
(67) सर्वज्ञवादः
1 अथ बुद्धागमादीनां धर्मप्रामाण्यशङ्कया ।
सर्वसर्वज्ञविद्वेषि मीमांसकमतं त्विदम् ॥
शाक्यार्हतार्षभेदेन सर्वज्ञास्त्रिविधाःश्रुताः ।
स्वसार्वज्ञ्याय ते सर्वे निरस्ताः श्लोकवार्तिके ॥
सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः ।
नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥
वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ।
यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकल्पने ॥
इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ।
उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥

३20 मानमेयरहस्यश्लोकवार्तिके
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ॥
येऽपिचातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् ।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ।
निराकरणवच्छक्या नचासीदिति कल्पना ॥
नचागमेन सर्वज्ञः, तदीयेऽन्योन्यसंश्रयात् ।
नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥
अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् ।
कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥
सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति ।
उपमानेन सर्वज्ञं जानीमो हि ततः परम् ॥
नचापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते ।
विगानाच्छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् ॥
सर्वज्ञोऽसाविति ह्येव तत्काले तु बुभुत्सुभिः ।
तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥
कल्पनीयाश्च सर्वज्ञाः भवेयुर्बहवस्तदा ।
य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्ध्यते ॥

सर्वज्ञवादः 321
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥
रागादिरहिते बुद्धे निष्व्यापारे व्यवस्थिते ।
देशनाऽन्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥
सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामाणेखिव ।
निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥
एवमाद्युच्यमानं तु श्रद्दधानस्य शोभते ।
कुड्यादिनिस्सृतत्वाच्च नाश्वासो देशनासु नः ॥
किंनु बुद्धप्रणीतास्स्युः किमु कैश्चिद्दुरात्मभिः ।
अदृश्यैर्विप्रलम्भार्थं पिशाचादिभिरीरिताः ॥
एवमेवार्हतैः ज्ञानमिन्द्रियाद्यनपेक्षिणः ।
सूक्ष्मातीतादिविषयं जीवस्य परिकल्पितम् ॥
नर्ते तदागमात्सिद्ध्येत् न च तेनागमो विना ।
दृष्टान्तोऽपि न तस्यान्यः नृषु कश्चित्प्रवर्तते ॥
किंच नादृष्टपूर्वेऽर्थे क्वचिद्भवति भावना ।
आगमात्तु परिच्छिन्ने धर्मे भावनयाऽपि किम् ॥
अतश्च संप्रदायेऽस्मिन् नैकः पुरुष इष्यते ।
बहवः परतन्त्रास्स्युः सर्वेऽप्यद्यत्ववन्नराः ॥
यथाच लङ्घनाभ्यासोऽवधिं नात्येति कुत्रचित् ।
एवं च भावनाभ्यासः सावधिस्स्यात्स्वभावतः ॥
M. R. 41

322 मानमेयरहस्यश्लोकवार्तिके
2 अत्र सर्वज्ञसिद्धान्तवादिनेयायिकादिभिः ।
प्रत्युक्तं विस्तरेणात्र सारांशस्त्वयमुच्यते ॥
परश्शतपरिक्षोदात्परस्तादपि वादिभिः ।
उपलम्भबले स्थेयं तदादावेव गृह्यताम् ॥
वैशेषिकादिभिस्त्वार्षं सिद्धदर्शनमित्यपि ।
अलौकिकं च विज्ञानं किंचिदङ्गीकृतं यथा ॥
विद्याऽविद्याविभेदेन ज्ञानं द्विविधमिष्यते ।
प्रात्यक्षिकी लैङ्गिकी च स्मृतिश्चाप्यार्षलक्षणा ॥
एवं चतुर्विधा विद्या तथाऽविद्या चतुर्विधा ।
विपर्ययस्संशयश्च यश्चाप्यालोचनात्मकः ॥
स्यादनध्यवसायस्सः चतुर्थस्स्वप्नलक्षणः ।
एवं ये ऋषयस्सिद्धाः ते वै सर्वज्ञलक्षणाः ॥
मनःकरणकं ज्ञानं भावनाभ्याससंभवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥
यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः ।
स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥
तथैव भावनाभ्यासात् योगिनामपि मानसम् ।
ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥
अस्मदादेश्च रागादिमलावरणधूसरम् ।

प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् ।
योगिनां तु मनश्शुद्धं कमिवार्थं न पश्यति ॥
तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् ।
निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥
अपिचानागतज्ञानं अस्मदादेरपि क्वचित् ।
प्रमाणं प्रातिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते ।
नानर्थजं न संदिग्धं न बाधविधुरीकृतम् ।
न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥
क्वचिद्बाधकयोगश्चेत् अस्तु तस्याप्रमाणता ।
यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥
काकतालीयमिति चेत् न प्रमाणं प्रदर्शितम् ।
नैतत्काकतालीयमिति चाशङ्कितुं क्षमम् ॥
स्वप्नज्ञाने हि संवादोऽदृष्टेन क्वचिदिष्यते ।
एवं प्रकृष्टदृष्टेन किमसाध्यं भविष्यति ॥
न त्वं वेत्सि मदध्यक्षं त्वदध्यक्षं न वेद्म्यहम् ।
अन्याध्यक्षं पुनश्चावां नैव जानीवहे उभौ ॥
योगीन्द्रियागोचरत्वं धर्मे वेत्ति कथं भवान् ।
उभयस्यापरोक्षत्वान्निषेद्धुं न हि शक्यते ॥
त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् ।
तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥

य एव स्यादसर्वज्ञस्स सर्वज्ञं न बुद्ध्यते ।
इति तद्बोधबोधार्थी तन्निषेधेऽपि न क्षमः ॥
य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्ध्यते ।
इति ब्रुवाणास्सार्वज्ञ्यं लभन्तां तन्निषेधतः ॥
3 इदं च पद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् ।
फलाफलविचारोऽथ क्रियते संग्रहादिह ॥
जायमाने भावनयाऽप्यनया धर्मदर्शने ।
चोदनैवेत्येवकारः शिथिलस्त्विति तार्किकाः ॥
मीमांसकास्तु तां दृष्टिं स्मृतिरित्येव जानते ।
पातञ्जलाः पुनर्योंगदृष्टिमन्यां प्रचक्षते ॥
साक्षात्कुर्वन्ति मन्वाद्याः न हि धर्मं स्वरूपतः ।
किंतु वेदैकवेद्यत्वाकारेणेति विनिर्णयात् ॥
न चोदनालक्षणत्वशास्त्रयोनित्वयोरपि ।
विरोधो योगिदृष्ट्येति वेदान्ताचार्यनिर्णयः ॥
किमर्थं तर्हि वेदानां वेदान्तानां च यत्नतः ।
अप्राप्तविषयत्वं यद्भवदीयैस्समर्थ्यते ॥
उच्यतेऽत्रातथाप्राप्तौ साक्षादेवाप्रमाणता ।
तथाप्राप्तौ पुनः प्रेक्षावद्भिरालस्यशालिभिः ॥
मानान्तरमपेक्ष्येत वेदस्य त्याज्यताऽऽपतेत् ।
फलतोऽप्रामाण्यमेतत् इति सिद्धान्तसंग्रहः ॥

सर्वज्ञवादः 325
4 यदि प्रामाणिको योगी पुराणं च श्रुतिः स्मृतिः ।
तत्र मानं, नानुमानं वर्ततेऽतिप्रसङ्गतः ॥
धर्मादिविषयत्वं तु मनसो यदि शिष्यते ।
चक्षुरादेस्तथाभावः नेष्यते केन हेतुना ॥
यथौपनिषदस्त्वीशः नानुमानेन सिद्धयति ।
तथा योगी च शास्त्रेण केवलेन प्रसिद्धयतु ॥
कैश्चित्तु चक्षुषाऽनेन ब्रह्मदर्शनमिष्यते ।
योगजेनाचिन्त्यशक्तिधर्मेण सहकारिणा ॥
दिव्येन चक्षुषा कैश्चिद्ब्रह्मदर्शनमिष्यते ।
शब्दादप्यपरोक्षस्य संभवः कैश्चिदुच्यते ॥
अतीतेऽनागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपिच ।
प्रत्यक्षं योगिनामिष्टं कैश्चिन्मुक्तात्मनामपि ॥
वैशद्यातिशयात्कैश्चित् स्मृतेर्दर्शनरूपता ।
भावनाया महिम्नेष्टा समानाकारता तु सा ॥
जैमिनीयाश्शाबराश्च भाट्टाः प्राभाकरा अपि ।
सर्वज्ञप्रतिषेद्धारः, सौगता आर्हताः तथा ॥
कापिलाद्या दार्शनिकाः सादिसर्वज्ञवादिनः ।
यौगास्तार्किकमुख्याश्चानादिसर्वज्ञवादिनः ॥
स्यातामागमसर्वज्ञावनादी च प्रवाहतः ।
बीजाङ्कुरवदित्युक्तं सादिसर्वज्ञवादिभिः ॥

326 मानमेयरहस्यश्लोकवार्तिके
ज्ञानमेव हि सर्वेषां सिद्धान्तानां समाश्रयः ।
तत्रापिच विवादश्चेन्नियन्ता जन्तुरत्र कः ॥
नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥
(68) विज्ञानवादः.
1 अथ विज्ञानवादस्य सारोपन्यासपूर्वकम् ।
संगृह्यते प्रतिक्षेपसारो नयविदां मतः ॥
योगस्य लक्षणं त्वेतत् शमथा च विपश्यना ।
समाधिशमधेत्युक्तः सम्यग्ज्ञानं विपश्यना ॥
ताभ्यां द्वाभ्यां बलीवर्दसदृशाभ्यां य ऊह्यते ।
स मार्गो योग इत्युक्तः तेनाचरति यः पुनः ॥
स योगाचार इत्युक्त इति भास्करभाषितम् ।
शमथादिपदं प्रायः पालीभाषेति गम्यते ॥
अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
इति योगाचारमतं प्रायः सर्वत्र विश्रुतम् ।
वैशेषिकमतं चापि यौगमित्येव कीर्त्यते ॥
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् ।
चक्रे वैशेषिकं शास्त्रमिति प्राशस्तभाषितम् ॥

विज्ञानवादः 327
तथाच योगाचाराख्याः केचिद्वैशेषिका अपि ।
प्रथिता इति गम्यन्ते युक्तिमानादिसाम्यतः ॥
२ तद्योगाचारसिद्धान्तयुक्तयः क्रमशॊऽधुना ।
निरूप्यन्तेऽत्र संगृह्य विप्रकीर्णाः क्वचित्क्वचित् ।
नीलपीतादिवस्तूनां ज्ञानाकारत्वकल्पना ।
लघ्व्यर्थाकारपक्षे तु न स्वतो भासते जडः ॥
तद्ग्राहकाकारता च कल्पनीयेति गौरवम् ।
बाह्यान्तरकृतो भेदः परमार्थो न हीष्यते ॥
ग्राहकाद्विच्छिन्नता हि मता ग्राह्यस्य बाह्यता ।
न शरीरापेक्षयाऽतः विच्छेदोऽसिद्ध एव सः ॥
बहिर्वदवभासोऽपि भेदवासनया कृतः ।
परिच्छेदान्तराद्योऽयं भावो बहिरिव स्थितः ॥
ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ।
सहोपलम्भनियमाद्भेदो नीलतद्धियोः ॥
ज्ञानमेवैवमाकारमात्मना प्रथते यतः ।
नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥
संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः ।
अर्थान्तरस्य च ग्राह्यलक्षणं न हि युज्यते ॥
ज्ञानं प्रकाशकं लोके ह्यप्रकाशस्य वस्तुनः ।
तस्मात् ज्ञानं ग्रहीतव्यं प्रागर्थादिति निश्चितम्