मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 3, कुल 672 में से
संदर्भ में पढ़ेंश्रीरस्तु
अवतरणिका.
─────
आर्या महाशयाः इदानीमिदमत्रावधारयितुमर्हन्ति तत्रभवन्तः भवन्तः,
य एष मानमेयरहस्यश्लोकवार्तिकनाम्ना संगृहीतः प्रकाशितश्च प्रबन्धः सोऽसौ
नानतिचिरेण प्रयत्नेन निष्पन्नः, असाधारणेन सर्वानपि कालान् सार्थक्यतो
संग्रहिष्णुतास्वभावेन क्रमेणोपचिता नानाशास्त्रप्रमेयाः एकराश्यसंपादनेन
प्रबन्धस्यास्य प्रमेयरूपतामनीयन्त, प्राणीयन्त च सुग्रहत्वाय स्थिरत्वाय च
वार्तिकश्लोकरूपेणेति ॥
यत्पुनः सर्वस्वं विज्ञानसंपदां भारतधरित्र्याः बहोः कालात् बहुभिः
कृतबुद्धिभिः समाजितं संवर्धितं च सर्वोपजीव्यं कुलधनं, प्राचीनैः परा-
चीनैश्च क्वचित्क्वचित् महाप्रबन्धगुहासु निक्षिप्तं विप्रकीर्णं वा, तदेतत्
एकदा एकधा एकत्र सर्वेषां समुपभोगार्हत्वाय समुद्धृत्य पर्यष्कारि प्रबन्ध-
रूपेणेति च ॥
विदितमैवैतत्सर्वेषां सहृदयानां प्रायेणात्मीयस्य वस्तुनः गुणेषु सुद-
र्शनं दोषेष्वदर्शनमिति, अथापि—"ग्रन्थे यदि गुणाः सन्ति विकसन्त्येव ते
स्वयम्" इत्यनुसन्धाय सविनयमावेदयति कथंचित् उपकरोतु जगतां मह-
तामनुग्रहेणेदमिति ॥
iii