मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 143, कुल 672 में से
संदर्भ में पढ़ेंआकाशवादः 101
अवकाशोऽयमाकाश इति चार्वाकसौगताः ।
नतुपश्लेषविरहादसद्रूपतिरस्कृतिः ॥
अपोहजातिवादे च यथा वस्तुतयैव धीः ।
वासनावशतस्तद्वत् परीक्षायां तु शून्यता ॥
तलत्वं मलिनत्वं च विपुलत्वं तथाऽल्पता ।
बालातपादिसंनिध्येनारुण्याद्यपि दृश्यते ॥
केशोण्ड्रूविभ्रमनिभाः निरधिष्ठानविभ्रमाः ।
दुःखाभावे सुखाध्यासः स्यात्सर्वजनसाक्षिकः ॥
तेजोऽभावे च नीलादिरध्यस्तो न्यायविन्मतः ।
अतीतेषु च वर्णेषु क्रमस्संख्या च दृश्यते ॥
अतीतानागतादौ च प्राकट्यं वित्तिवेद्यता ।
स्मृतेः प्रमोषो नीलादिवस्तूनामिति केचन ॥
२ समवायितया शब्दस्याकाशः परिशेषतः ।
अनुमानात्सिध्यतीति प्राहुर्वैशेषिकादयः ॥
स च नित्यो विभुश्चैक इति लाघवयुक्तितः ।
उपाधिभेदात्कार्याणामुपष्टम्भक इष्यते ॥
नेश्वरादतिरिच्यन्ते दिक्कालगगनानि तु ।
इति लाघवविज्ञानाः प्राहुर्ये नव्यतार्किकाः ॥
३ उद्भूतरूपमाकाशं विदुस्सांशं च चाक्षुषम् ।
सांख्याः प्राथमिकं भूतं अवकाशप्रदं विदुः ॥