मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 141, कुल 672 में से
संदर्भ में पढ़ेंकालवादः 9
दिवाकरकरालातपातनिर्दग्धवीरुधः ।
मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥
शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः ।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥
मौक्तिकाकारविस्तारितारानिकरचित्रितम् ।
शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥
आयामियामिनीभोगसफलाभोगविभ्रमाः ।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥
आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः ।
वदन्ति शिशिरं वाताः तुषारकणकर्कशाः ॥
तस्मादेकोऽप्ययं कालः क्रियाभेदाद्विभिद्यते ।
एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥
11 कौमारिलाश्श्रावणत्वमाहुर्दिक्कालयोरपि ।
कालश्चैको विभुर्नित्यः प्रविभक्तोऽधिगम्यते ॥
वर्णवत् सर्वभावेषु व्यज्यते केनचित्क्वचित् ।
आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये ॥
कालस्य प्रविभागास्ते जायन्ते ध्वन्युपाधयः ।
तस्मात्सर्वेन्द्रियग्राह्यः सत्तावत्काल इष्यते ॥
12 अथ पातञ्जलाः कालं महान्तं नोपयन्ति ते ।
क्षणैरेव मुहूर्तादिव्यवहारं प्रचक्षते ॥