सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 58, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 58

तृतीयोऽध्यायः । ३१
कालमानं देशमानं राजमानमतः परम् ।
सभामानमर्थमानं यशोमानमिति क्रमात् ॥ २२ ॥
कथिताश्च चतुःषष्टिरित्येते ज्येष्ठिनो गुणाः ।
इति ६४ गुणाः ॥ २३ ॥
एवं सोमेश्वरः श्रुत्वा पुनः पप्रच्छ केशवम् ।
सोमेश्वर उवाच ।
कथिताः कृष्ण सर्वे च भवता ज्येष्ठिनो गुणाः ॥ २४ ॥
भगवन् कथयेदानीमन्तरज्येष्ठिनो गुणान् ।
श्रूयतामिति तं कृष्णः प्रत्युवाच कृतादरः ॥ २५ ॥
कृष्ण उवाच ।
कुलीनो र(द)क्ष(:) सर्वेषु नीतिशीलश्च सर्वदा ।
प्रमाणसुशरीरश्च सुविस्तरस्तनुस्तथा ॥ २६ ॥
शौर्ययुक्तो निरालस्यो व्यवसायी तथैव च ।
अग्रवृत्तिर्भगवृत्तिर्धैर्यप्राणसमन्वितः ॥ २७ ॥
अर्धश्रमगुणयुतः सत्यभाषी तथैव च ।
⁴ज्येष्ठि गुणवृद्धिकरः शौर्यवृद्धिकरस्तथा ॥ २८ ॥
पुण्यगुणवृद्धिकरो यशोवृद्धिकरोऽपि च ।
लघुवृत्तिकरस्तद्वत् गुणेषु कुशलस्तथा ॥ २९ ॥
भयहरः स्थानपरः सदा हेतुपरः स्मृतः ।
जितश्रमो विश्वासवान् ज्येष्ठिनः श्रमपूरकः ॥ ३० ॥
प्राणवान् बलवाँश्चैव सर्वकार्यविचारवित् ।
अन्तरज्येष्ठिनस्त्रिंशत् कथिता मध्यमा गुणाः ॥ ३१ ॥
इत्यन्तरॅज्येष्ठिनः ३० गुणाः ।
ब्रह्मोवाच ।
इत्युत्तममध्यमांश्च श्रुत्वा सोमेश्वरो गुणान् ।
४ गुणवृद्धिकरः शौर्ये यथा वृद्धिकरस्तथा P. ५ अन्तरे P.