सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 47, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 47

Here is the line-by-line transcription in original Unicode Devanagari and English:

प्रथमोऽध्यायः ।
ब्रह्मोवाच ।
धर्मारण्यस्य मध्येऽभूत् शृणु नारद सादरम् ।
लोहाखुरस्यै पूर्वं च मोहेरस्यै समीपतः ॥ २० ॥
मयेदं स्थापितं पूर्वं विद्यास्थानं महाद्भुतम् ।
युतं द्विजगणैः शुद्धं सर्वरत्नसमन्वितम् ॥ २१ ॥
स्वच्छोदकैः सुविस्तीर्णैः सरोभिरुपशोभितम् ।
आरामै रमणीयै च नाना वृक्षसमाकुलैः ॥ २२ ॥
अनुलित्तैं(सं) सुधामिश्र संगत सुरमन्दिरैः ।
संकीर्ण पुण्यलभ्यं च रम्यं स्वर्गमिवापरम् ॥ २३ ॥
वातेरितपताकाभिः सेवितं च दिवानिशम् ।
युक्तमक्षय्यमानीर्थैर्ब्राह्मणैरुपशोभितम् ॥ २४ ॥
धूञ्जमिधूमपटलैर्यन्त्रान्तरितमण्डलम् ।
न पीडयति दक्षिणांशुग्रीष्मेऽपि च तँपस्विनः ॥ २५ ॥
सुन्दरीगणसंपूर्णं वेदध्वनिसमाकुलम् ।
पवित्रं तीर्थभूतं च धर्मारण्यप्रदेशजम् ॥ २६ ॥
कृते तु नाम्ना चेशानं त्रेतायां च श्रीमालकर्म ।
द्वापरे मयूरवं बालं कलौ देवालयं स्मृतम् ॥ २७ ॥
अधिश्रितं सुरैः सर्वैः पालितं पुण्यसंपदौ ।
विद्याधरैः सिद्धगणैरप्सरोभिः समन्वितम् ॥ २८ ॥
वापीकूपतडागैश्च पुण्यैर्जलैर्युतैर्यृतम् ।
अनेकगुणपूर्णं च पुण्यं जननिषेवितम् ॥ २९ ॥
११ लेहासुर P. १२ मोहेरस्य (मोदेरा) P. १३ अनुलित्तैः B. १४ ˚नानार्थै˚ B.
१५ ˚यन्त्रान्तरित˚ B. १६ तपस्विनः B. १७ तीर्थभूमिंश्च B. १८ कृते तुनाम्न । रत्नारव्य
ब्त्रेतायां कनकवाल्य मे P. १९ सुपरिग्रहैः P. २० P has this additional śloka—
दक्षिणे कृतभानुश्च प्रतीच्यां ब्रह्मणःस्थितः । उत्तरे च महावीरो विदिक्षु यक्षकास्तथा ॥