सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 45, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 45

मल्लपुराणम् ।
प्रथमोऽध्यायः ।
एकस्मिन् कमला कटाक्षविवरे सानन्दमाधार्यते१
क्षीराब्धेरपरत्र दीर्घधवलैः कल्लोललोलोत्करैः ।
व्यग्रस्यापि समार्थितप्रमथनव्यापारलब्धोदया-
श्चत्वारो वितरन्तु वाञ्छितफलं वन्द्या हरेर्बाहवः ॥ १ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २ ॥
नारद उवाच ।
धर्माधर्मविधिः प्रोक्तो ब्रह्मन् सम्यक् श्रुतो मया ।
विद्याश्च विविधाः स्वामिन् वर्णभेदास्त्वनेकधा ॥ ३ ॥
मल्लविद्या त्वया प्रोक्ता मम संक्षेपतः पुरो२ ।
विस्तरेण मम ब्रूहि तस्यां कौतूहलं हि मे ॥ ४ ॥
ब्रह्मोवाच ।
शृणु पुत्र शुभां विद्यां कथ्यमानां३ मयानघ ॥
यदभ्यासान्नरः सम्यक् शत्रून् जयति सत्वरः ॥ ५ ॥
पुरा कंसे हते४ दैत्ये५ चाणूरे च निपातिते ।
संप्राप्ते मथुराराज्ये भोगान् भुक्त्वा बहूँस्तथा६ ॥ ६ ॥
कृष्णश्च बलभद्रश्च परमात्मदयान्वितौ ।
स्वीकर्तुं द्वारकां रम्यां चलितौ हर्षसंयुतौ ॥ ७ ॥
सुखप्रयाणकैर्देशान् पश्यन्तौ विविधान् बहून् ।
प्राप्तौ मयूरवं बालं नाम्ना नगरमुत्तमम् ॥ ८ ॥


१ माधुर्यते P. २ In B. this line reads as under मल्लविद्या त्वया तात
प्रोक्ता संक्षेपतः पुरा । ३ मध्यमाना P. ४ ययोक्तं सहते P. ५ दैत्यै B. ६ तदा B.