मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
२४० मालतीमाधवे
कामन्दकी—अये, भद्रम्। सौदामिनि।
माधवमकरन्दौ—कथमियं सा भगवत्याः पक्षपातस्थानमाद्य-
शिष्या सौदामिनी। यतः सर्वमधुना संगच्छते।
कामन्दकी—
एह्येहि भूरिवसुजीवितदानपुण्य-
संभारधारिणि चिरादसि हन्त दृष्टा।
दत्तप्रमोदमभिनन्दय मे शरीर-
मालिङ्ग्य सौहृदनिधे विरम प्रणामात् ॥ २० ॥
अपि च।
वन्द्या त्वमेव जगतः स्पृहणीयसिद्धि-
र्देवंविधैर्विलसितैरतिबोधिसत्त्वैः।
यस्याः पुरा परिचयप्रतिबद्धबीज-
मुद्भूतभूरिफलशालि विजृम्भितेन ॥ २१ ॥
मदयन्तिकालवङ्गिके—१ईअं सा अज्जा सौदामिणी।
१. इयं सार्या सौदामिनी।
त्कपालकुण्डलागृहीतमालतीपरित्राणरूपमात्मनः पुरुषार्थसाधकत्वं सूचयति। चि-
रंतनः प्रथमाप्तदीक्षः सिद्धमन्त्रेणाचार्येण प्रथमप्रकृष्टमन्त्रः प्रकृष्टशिष्यभावादि-
त्याशयः॥ माधवमकरन्दौ। कथंशब्द आश्चर्य। पक्षपातस्थानं स्मारयति पू-
र्वशिष्या सौदामिनीति। स्वतन्त्रेषु स्थानेषु सौदामिनीस्मरणात्सत्सर्वमिदं मालती-
विपत्प्रतीकारव्यापाररूपमेतत्सर्वं संगच्छते संगतं भवति। युज्यत इत्यर्थः। ए-
ह्येहीति। भूरिवसुजीवितदानेन यः पुण्यसंभारस्तद्धारेण। जीवितदानं च माल-
तीभूरिवसुविपन्निवारणद्वारम्। हन्त हर्षे। तदीदृगत्यन्ताभीष्टद्वयसंपादनेन दत्त-
प्रमोदमपि मद्वपुरालिङ्गनेनानन्दय। प्रणामाद्विरम। त्वमेव जीवितदायित्वेनानुगु-
णोत्कर्षेण च प्रणम्या मयेत्याशयः। 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च
वयः' इत्यादिवचनात् ॥ २० ॥ एतदेवोत्तरश्लोकेन व्यक्तीकरोति-वन्द्येति।
एवंविधैः परोपकारफलैर्विलसितैर्व्यापारैरतिबोधिसत्त्वैरतिक्रान्तबोधिसत्त्वैः। मनो-
गतागमेषु ब्रह्ममायापीह बोधसङ्ख्येन कथिता(?)जीवितव्ययेनापि परार्थसाधनैक-
व्यापारैर्विलसितैस्त्वमेव वन्द्या जगतः। तन्मम वन्दनाद्विरमेत्यर्थः। स्पृहणीया
सिद्धिर्यस्याः सा तादृशी मन्त्रसिद्धिरस्माकमपि स्पृहणीया। यस्यास्तव विजृम्भि-
तेनेदृशव्यापारेण तद्बीजं मालतीमाधवतत्प्रताननिधानमद्भुतप्रचुरफलशाल्यभूदि-
दशमोऽङ्कः । २४१
मालती—बोढम् । इमाए क्खु भववदीसंबन्धपक्खवादिणीए णि-
ब्भच्छिअ कवालकुण्डलं अत्तणो आवसहं उवणिज आसासिदम्हि । किं
अ केसरावलीसाभिण्णाणहत्थाए इह आगत्तूण सब्वे तुम्हे संधारिदा ।
इतराः—सुँप्पसण्णा णो कणिठ्ठा भववदी ।
मकरन्दमाधवौ—अहो नु खलु भोः ।
अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते ।
इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २२ ॥
सौदामिनी—(स्वगतम् ।) हन्त, लज्जयति मामत्यन्तसौजन्यमे-
तेषाम् । (प्रकाशम् ।) भगवति, एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा प-
द्मावतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रे-
षितम् । (लेखमर्पयति
१४२ मालतीमाधवे
तेनेयं मदयन्तिकापि भवतः प्रीत्यै तव प्रेयसे
मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ १३ ॥
(माधवमुद्दिश्य सहर्षम् ।) वत्स, श्रूयताम् ।
माधवः—श्रुतम् । इदानीं सर्वथा कृतार्थोऽस्मि ।
मालती—दिट्ठिआ एदं वि दाव अवगदं हिअअस्स सङ्कासल्लं ।
लवङ्गिका—संपदं णिरवसेसं पूरिआ माहवसिरिणो मणोरहा ।
मकरन्दः—(पुरोऽवलोक्य ।) कथमवलोकिताबुद्धरक्षिते कलहंसश्च
दूरतः समागतानस्मान्वीक्ष्य तत्रैव हर्षनिर्भरं नृत्यन्त इत एवागच्छन्ति ।
(ततः प्रविशतोऽवलोकिताबुद्धरक्षिते कलहंसश्च ।)
ते—(विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रमाणं कामन्दकीं प्रति ।) अउँ
मअवदि कज्जाणिहाणे । (माधवं प्रति ।) जअ मअरन्दणन्दण माहव
पुण्णचन्द, दिट्ठिआ वड्ढसि ।
(सर्वे सस्मितं पश्यन्ति ।)
१. दिष्ट्या एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् ।
२. सांप्रतं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः ।
३. जय भगवति कार्यनिधाने । जय मकरन्दनन्दन माधव पूर्णचन्द्र,
दिष्ट्या वर्धसे ।
निरस्तविपदि महाकुले जामातरि त्वयि प्रीतिरुचितेत्याशयः । तेन हेतुना पूर्वानु-
रागेण प्राणात्ययनरूपेण योजितापि तव प्रीत्यर्थं तव मित्राय मकरन्दायास्माभिर्दीयते
इत्यर्थः ॥ १३ ॥ माधवमुद्दिश्य कामन्दकी वदति—श्रूयतामिति । माधवः ।
निखिलार्थ इति शेषः । नृपतिनन्दनादिना सर्वथा कृतार्थोऽस्मीत्यर्थः ॥ मा-
लती । दिष्ट्या, एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् ॥ लवङ्गिका । सांप्र-
तं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । प्राकृते पूर्वनिपातस्यानियमतया श्री-
शब्दस्योत्तरनिपातलक्षणं भवति ॥ कार्यनिधानशब्दादण्प्रत्ययेन निधानसंबन्धरू-
पं सर्वं कार्यजातं त्वयैकया निष्पादितमिति त्वमेव कार्याणां निधिः । जय मकर-
न्दनन्दन माधव पूर्णचन्द्र । मकरन्दस्य मदयन्तिकालाभादपि माधवस्य मालती-
लाभ एवातिशयानन्द इति मकरन्दनन्दनत्वे वाचोयुक्तिः । पापवृद्धिपक्षपर्यन्त-
त्वेन पूर्णश्चन्द्रः । संप्राप्ताखण्डमनोरथतयास्य पूर्णचन्द्रस्योक्तिः । दिष्ट्या वर्धसे ।
सस्मितं पश्यति । तेषां प्रमोदवृत्तमिति शेषः । भगवत्यन्तेवासिन्यवलोकिता नृत्य-
? or त्?
Wait: नावग्रहा then ल्यस्त? Look at line 13: नावग्रहाल्यस्तशङ्काः - wait, look at the letter between 'हा' and 'स्त':
It has a vertical right stroke, and on the left, a loop at the bottom like 'ल'? Or is it 'त्' + 'य'?
Wait, in old font: 'त्' + 'य' is written as 'त्य'. But look at: there is a 'ल' shape? No, look at line 13: नावग्रहाल्यस्तशङ्काः vs नावग्रहात्यस्तशङ्काः.
Actually, could it be नावग्रहात्त्यस्तशङ्काः? There is a horizontal line across the vertical: like ल्य or त्य?
Wait, look at line 32 in commentary:
प्रत्यस्तशङ्का निःशङ्काः ।
In the main text, it's clearly a misprint or variant for प्रत्यस्तशङ्काः or त्यस्तशङ्काः.
Look at the glyph: it has 'त्' and 'य' stacked? No, it looks like त्यस्तशङ्काः (नावग्रहात्यस्तशङ्काः). Let's transcribe नावग्रहात्यस्तशङ्काः.
- Wait, let's check line 5:
२४४ मालतीमाधवे
न्यथा वस्तु प्रवृत्तम्, अन्यथा वचनमस्याः । यतः श्रावकावस्थाया-
मसत्सौदामिनीसमक्षं तयोः प्रवृत्तेयं प्रतिज्ञावाभ्यामपत्यसंबन्धः
कर्तव्य इति । प्रधानप्रकृतिकोपस्त्वेवं परिहृतः ।
मालती—^१अहो संवरणम् ।
मकरन्दमाधवौ—(आश्चर्यम् ।) जयन्ति खलु महतां विसंवा-
दिन्यः प्रत्यायिन्यः कल्याणा नीतयः ।
कामन्दकी—वत्स,
यत्प्रागेव मनोरथैर्वृतमभूत्कल्याणमायुष्मतो-
स्तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशैश्च मच्छिष्ययोः ।
निष्णातश्च समागमोऽपि विहितस्त्वत्प्रेयसः कान्तया
संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ २४ ॥
माधवः—(सहर्षम् ।) अतः परं मम प्रियमस्ति तथापीदमस्तु
भरतवाक्यम्—
१. अहो संवरणम् ।
यामुपदेशसमये प्रीत्या परिग्रहाय नानादिगन्तवास्तव्यजनसाहचर्यमासीदिति ।
सौदामिनीसमक्षमिति । तेन सौदामिन्येवात्र साक्षिणी । यद्यथा वस्तुव्या-
पाराभ्यां तयोः संनिधानमेव तत्प्रियंकरत्वेन । इयं तु विपत्प्रतीकारं कृतवतीत्या-
शयः । अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इत्यात्मनः प्रवृत्तिसमयनिश्चितं
कुट्टनीभावं समस्तलोकसमक्षपरिसृतं पृच्छति । अनेनैव साक्षात्प्रतिषेधः । को-
पायः । शिवस्तदुपाय इति निर्वहणार्थं स्मारयति ॥ मालती । अहो संवरण-
मिति । अहो अत्युक्तौ । संवरणं हि तद्विशेषतस्तु बालक्रीडादित्यादि प्रतिसंहि-
तम् ॥ मकरन्दमाधवौ । विसंवादिन्यो विप्रलम्भकाः । प्रत्यायिन्यः प्रत्यय-
युक्ताः । प्रत्ययशब्दस्य प्रभावपर्यायत्वात्प्रभावश्च दुर्घटोऽपि कार्यस्य झटिति
संघटनेनोन्नेयः । कल्याणाः शुभाः । जयन्तीति च स्तुतौ च कथं भवत्याः सुमे-
धसो नीतिर्विपर्यस्यते । मुखसंधिसूचितमनुसंधेयम् । कामन्दकी । यत्प्रा-
गेवेति । कल्याणं करग्रहणरूपं पुण्यैः प्रागाचरितैरा राधकैरुपकारकैर्मदुपक्रमैः
संनिपत्यकारकैर्मम बुद्धिव्यापारैः करणभूतैस्तत्कल्याणं फलितम् । तथा शिष्य-
योर्भूरिवसुदेवरातयोरभिमतं पाणिग्रहणं स्यादित्येवंरूपचिन्ताजन्यखेदाः फलिताः ।
तद्वत्प्रेयसो मकरन्दस्य कान्तया मदयन्तिकया सह निष्णातो निपुणः समागमो
विहितः कृतः । तथा संप्रीतौ राजनन्दनाविति यौ प्राग्विचिन्तितौ तौ
दशमोऽङ्कः । २४५
शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगुणाः ।
दोषाः प्रयान्तु शान्तिं सर्वत्र सुखी भवतु लोकः ॥ २५ ॥
कामन्दकी—एवमस्तु ।
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे दशमोऽङ्कः ।
वः संप्रीतौ संजातप्रीतिसंयुक्तौ ॥ २४ ॥ अतः किमपरं प्रियतरं किमस्ति
तदप्युच्यताम् । साधयामि इत्यादिपदैः क्रमेण विप्रादिशूद्रपर्यन्ताश्च चत्वारो
वर्णा आशंसाविषयाः (?) ॥ २५ ॥
शबरस्वामिप्रीत्या प्रकरणरत्नाकरे तु भवभूतेः ।
सारोद्धारं मन्दरमकृत कृती व्याकृतिं नान्यः ॥
अतिदुस्तरोऽल्पमतिना पावनकर्मप्रसादनो हि मुदा ।
हारं हारं व्याख्यामाश्रित्य प्रकरणोदधिस्तीर्णः ॥
इति श्रीशिलाभट्टीयान्वयश्रीहरिचन्द्रसूनोस्त्रिपुरारिपदाम्भो-
जभृङ्गायमानमानसस्य श्रीनान्यदेवस्य कृतौ मालती-
माधवीयटीकायां दशमाङ्कविवरणम् ॥
The provided image is completely blank (solid white) and does not contain any visible text, verses, or content to transcribe.
Please re-upload or provide a clear image of the page, and I will gladly transcribe it line by line for you.
मालतीमाधवस्य जगद्धरकृतटीकानुरोधतः
पाठोत्तराणि ।
पृष्ठानि ।
१—१० ‘सानन्दम्—’ इति श्लोकः ॥ १ ॥ ‘चूडापीड’ इति
जगद्धरकृता टीका ।
चञ्चच्चन्द्रिकचन्द्रचारुकुसुमो मायञ्जटापल्लवो
दृप्यद्दारुणदन्दशूकमणिमांस्तत्पद्मशाखालयः ।
स्थाणुर्मे फलदो भवत्वतितरां गौरीमुखेन्दुद्रव-
त्पीयूषद्रवदोहदादिव दधेद्देवद्रुमत्वं सदा ॥
नत्वा गुरून्गुणगुरून्बलोक्य टीकाँ
विश्वादिकोषभरतश्रुतिशब्दविद्याम् ।
छन्दास्यलंकरणमर्थगतिं विचिन्त्य
श्रीमान्जगद्धरकृती वितनोति टीकाम् ॥
श्रीकण्ठकण्ठविलुठत्पटुनाटकेऽस्मि-
ष्टीका मयाल्पमतिनापि वितन्यते यत् ।
हासाय दुर्जनगणस्य भवेन्न चैत-
दुच्चैः पदं यदमिकाङ्क्षति सर्व एव ॥
इह तावदष्टपदां नान्दीं विदधान एव कविरप्रत्यूहमीहितसिद्धिमनुरुध्य प्रच-
ण्डचण्डीपतेरकाण्डताण्डवाड
४ जगद्धरकृता
(पुरतोऽवलोक्य ।) अये, उदितभूयिष्ठ एव भगवानशेष-
भुवनद्वीपदीपकस्तपनः । तमुपतिष्ठे ( प्रणम्य ) 'कल्या-
णानाम्—' इति श्लोकैः ॥५॥ (नेपथ्याभिमुखमवलोक्य ।)
मारिष, सुविहितानि रङ्गमङ्गलानि, संनिपतितश्च भगवतः
अलमिति । अयमाशयः—पूर्वोक्तान्यङ्गानि न भवन्ति किंतु परिषदोऽभिमुखी-
करणानि । सा चेत्स्वयमेव कृतावधाना नवनाटकविलोकोत्का च तदन्यत्प्रयुज्य-
मानमपि रसभङ्गाय परं भवतीति कृतं तत्प्रणयनेन । अन्यथा सभाया रसविच्छेदो
भवेदिति निष्फलतेति । अये इति निपातो व्यासङ्गादिनानाकलितस्याकलनेन
संभ्रमवाचकः । अकस्मात्सूर्योदयाकलनात् । 'ततः श्लोकं पठेदेकं गम्भीरस्वरसं-
युतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥' इति भरतमतमनुसृत्य माङ्गलि-
मालतीमाधवटीका ।
कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्तवास्तव्यो
महाजनसमाजः । आदिष्टाश्चास्मि विद्वज्जनपरिषदा यथा
केनचिदपूर्वप्रकरणेन वयं विनोदयितव्या इति । तत्कि-
मित्युदासते भरताः । पारिपार्श्वकः—(प्रविश्य ।)
भाव, परिषन्निर्दिष्टगुणं प्रबन्धं नाधिगच्छामः । सूत्र-
धारः—मारिष, कतमे ते गुणास्तत्र यानुदाहर-
न्त्यार्यविदग्धमिश्रा भगवन्तो भूमिदेवाश्च । नटः—
'भूम्ना रसानाम्—' इति श्लोकः ॥ ६ ॥ सूत्रधारः—
तानि । रङ्गो नृत्यं तदर्थ मङ्गलानि लोकपालपूजादीनि । 'रङ्गो नृत्ये रणक्षितौ' इति
विश्वः । संनिपतितः सर्वत्र आगत्यैकत्र मिलितः । कालप्रियनाथस्य तद्देशदेवभे-
दस्य । यात्राप्रसङ्गेनेति नृत्यकालसूचनम् । 'इदं ध्वजमहः श्रीमन्महेन्द्रस्य प्रवर्तते'
इत्यभिधानात् । वास्तव्यो वासी । महाजनसमाजो विद्वद्गोष्ठी । उदासत उदासीना
भवन्ति । भरता नटाः ॥ पारिपार्श्विकलक्षणं भरते—'सूत्रधारस्य पार्श्वे यः प्रब-
न्धंकुरुतेऽर्थनाम् । काव्यार्थसूचनालापं स भवेत्पारिपार्श्विकः ॥' इति । भाव
मान्यनट, परिषदा प्रेक्षकेण निर्दिष्टो गुणो यत्र तं प्रबन्धं प्रकरणम् । प्रेक्षकस्तु—
'यस्तुष्टे तुष्टिमायाति शोके शोकमुपैति च । क्रुद्धः क्रुद्धे भये भीतः स नाट्ये
प्रेक्षकः स्मृतः ॥' इति भरतोक्तः । पूजावाक्यगर्भं प्रश्नमाह—कतमे इति ।
'गोत्रं नाम च बध्नीयात्पूजावाक्यं च सर्वतः' इति भरतः । कतमे । कियन्त इ-
त्यर्थः । आर्याः सुकुलादिसंपन्नाः । यदाह भरतः—'कुलं शीलं दया दानं धर्मः
सत्यं कृतज्ञता । अद्रोह इति येष्वेतान्तार्यान्सं प्रचक्षते ॥' विदग्धाश्चतुःषष्टिकला-
वेदिनः । मिश्रा वेदान्तवेदिनः । भगवन्तः स्मृतिधराः । यदाह—'देवाश्च लिङ्गि-
नश्चैव नानास्मृतिधराश्च ये । भगवानिति ते वाच्याः पुरुषाः स्त्रिय एव च ॥'
इति । यद्वा । आराद्याता दूरं गता ग्राम्यत्वादिकदोषेभ्य इत्यार्याः । विदग्धाः का-
व्यरसचक्षमनासः । मिश्राः पूज्याः । पूज्ये मिश्रपदं नित्यं बहुवचनान्तम् । 'मरी-
चिमिश्रैर्दृष्टेण' इति विष्णुपुराणात् । भगवन्तो ज्ञानादिसंपन्नाः । भूमिदेवा ब्रा-
ह्मणाः । इह तत्रोद्घातकरूपा प्रस्तावना । यदाह भरतः—'सुप्रतीतं विस्मृतं वा
यत्र कार्य प्रकाश्यते । तदुद्घातकमित्याहुः प्रश्नोत्तरमनोहरम् ॥' इति ॥ प्रबन्धे
गुणानाह—भूम्नेति । यत्र प्रबन्धे रसानां शृङ्गारादीनां भूम्ना प्राचुर्येण गहना
गम्भीराः सहृदयमात्रग्राह्याः प्रयोगाः सन्ति । एतेनास्य रसममत्वमुक्तम् । यत्र
प्रबन्धे विचेष्टितानि मालतीमाधवादेः परस्परव्यापाराः सौहार्देन प्रेम्णा हृद्यानि
मनोज्ञानि । यत्रौद्धत्यं नायकनायिकासखीभृत्यादिगुणमाहात्म्यमस्ति । कीदृशम् ।
आयोजितं विहितं कामसूत्रमनङ्गप्रयोगो यत्र तत् । यद्वा । औद्धत्यं निजोत्कर्षपुरः-
सरमन्यावज्ञाविष्करणम् । तच्चायोजितस्य समन्तात्कार्याभिमुखीभूतस्य कामस्य
६ जगद्धरकृता
स्मृतं तर्हि । नटः—भाव, किमिव । सूत्रधारः—
अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम् । तत्र
केचित्तैत्तिरीयिणः काश्यपाश्चरणगुरवः पङ्क्तिपावनाः प-
ञ्चाग्नयो धृतव्रताः सोमपीथिनो डम्बरनामानो ब्रह्मवा-
दिनः प्रतिवसन्ति स्म । 'ते श्रोत्रियाः' इति श्लोकः ॥७॥
मन्मथेच्छायाः सूत्रं सूचकम् । सूत्रं संभोगः पटारम्भकस्तन्तुर्वा । अनेनात्र
कामोद्दीपकतयौद्धत्यं गुणाय । स्वाभाविकस्य तस्य भूषणत्वमिति दर्शितम् । यत्र
चित्राश्चर्यजनिका कथा कल्पितकथत्वात् । रसमयत्वाच्चाश्चर्यम् । वाचि वचने वि-
दग्धता परिपाको निर्दोषत्वं वक्रता च यत्र । एतेनान्यनाटकादस्याधिकगुणवत्त्व-
मुक्तम् । तं प्रबन्धं नर्तितुमादिशन्ति । मिश्रा इति शेषः ॥ ६ ॥ नटः—किमिव ।
किं स्मृतमित्यर्थः । अधुना 'रुणद्धि रोदसी वास्य यावत्कीर्तिर्ननश्वरी । तावत्कला-
यमध्यास्ते सुकृतं वैबुधं पदम् ॥' इति निजनामादिकथनफलमनुसंध्य तदाचरते—
अस्तीत्यादि । दक्षिणदेशस्य शृङ्गाररसवशतया तद्देशत्वेन स्वस्य तदुभयरसब-
र्णनशक्तिरुक्ता । विदर्भेष्वित्यनेन वैदर्भीरीतिपरिचयचातुरी दर्शिता । पद्मगरं
पद्मावती । नाम प्रसिद्धौ । न तु नामपदमभिधानार्थम् । तदा प्रकृत्यादित्वात्तृतीया
स्यादित्यवधेयम् । तैत्तिरीयिणः । तैत्तिरीयकनामशाखाविशेषपाठिन इत्यर्थः। काश्यपाः
काश्यपगोत्राः। चरणगुरव इति चरणशब्दः शाखाविशेषाध्ययनपरैकतापन्नजनसङ्घ-
वाची । तत्र समूहे । ते गुरवः क्रियां कृत्वा वेदाध्यापयितारः । 'स गुरुर्यः क्रियां
कृत्वा वेदमस्मै प्रयच्छति' इति स्मृतेः । यद्वा चरणैः कलापादिभिर्गुरवो महान्तः ।
पङ्क्तिपावनाः पङ्क्तौ भोजनादिगोष्ठ्यां पावना अग्रभोजिनः पवित्रा वेत्यर्थः । यद्वा
'यजुषां पारगो यस्तु साम्नां यश्चापि पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः पङ्क्तिपा-
वनः ॥' इति लक्षिताः । पञ्चाग्नयो दक्षिणाग्निगार्हपत्याहवनीयसभ्यावसथ्यरूपाम्रि-
पञ्चकोपासकाः । धृतव्रताश्चान्द्रायणादिव्रतयोगिनः । सोमपीथिनः । सोमो लतावि-
शेषो हुतशेषो वा तत्पायिनः । अनेन सोमयागयाजित्वमुक्तम् । डम्बरनामानो
डम्बरमुत्कर्षसूचकं कुलनाम
तदामुष्यायणस्य तत्रभवतः सुगृहीतनाम्नो भट्टगोपालस्य
पौत्रः पवित्रकीर्तेर्नीलकण्ठस्यात्मसंभवो भट्टश्रीकण्ठपद-
लाञ्छनो भवभूतिर्नामा जातूकर्णीपुत्रः कविर्निसर्गसौ-
हृदेन भरतेषु स्वकृत्तिमेवंप्रायगुणभूयसीमस्माकमर्पित-
वान् । यत्र खल्वियं वाचोयुक्तिः । 'ये नाम-'
र्थीर्थम् । यागादीनां धनसाध्यतया तेषां तदादरो न तु भोगायेति भावः । दा-
रान्पत्नीराद्रियन्ते । अपत्याय संतत्यर्थं न तु कामायेत्यर्थः । त आयुर्जीवनमा-
द्रियन्ते । तपोर्थं तपश्चरणार्थं न तु व्यसनार्थम् । क्लेशबहुलं धर्म्यं कर्म तपः ।
तदनेन तेषां सर्वगुणवत्त्वं दर्शितम् । 'भूयिष्ठं भूयश्च भूरि च' इत्यमरः । 'अथ
क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि । दाराः पुं भूम्नि च' । विनिश्चयायेत्यादौ तादर्थ्ये
चतुर्थी ॥ ७ ॥ अत्र कुले जात आमुष्यायणः । तत्रभवतः पूज्यस्य । सुगृहीतं
शोभनोच्चारणं बलिकर्णादिवन्मङ्गल्यं नाम यस्य । भट्टश्रुतःशाखाभिज्ञः । पवित्रा
पुण्या कीर्तिर्यस्य । तस्यात्मसंभवः पुत्रः । श्रीः सरस्वती कण्ठे यस्य स श्री-
कण्ठः । तद्वाचकं पदं लाञ्छनं चिह्नं यस्य सः । नाम्ना श्रीकण्ठः । प्रसिद्ध्या
भवभूतिरित्यर्थः । 'श्रीर्वेश रचनाशोभाभारतीसरलद्रुषु' इति मेदिनीकारः । जतू-
कर्णगोत्रप्रसूता जातूकर्णी तस्याः पुत्रः । निसर्गसौहृदेन साहजिकसौहार्देन ।
ननु 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयवृद्ध्या सौहार्दमिति स्यात् । उच्यते ।
हृदित्यादौ प्रतिपदोक्तस्य ग्रहणात् 'हृदयस्य हृल्लेख-' इति हृदादेशस्यासिद्धेः ।
यद्वा 'संज्ञापूर्वोको विधिरनित्यः' इति वचनादुभयपदवृद्धेरनित्यत्वम् । यद्वा
'सुहृद्दुहृदौ मित्रामित्रयोः' इति निपातस्य सुहृच्छब्दस्यावयवो हृच्छब्दस्तदन्तो-
त्तरपदवृद्धिर्भवति । एवंप्रायगुणभूयसीं 'भूम्नां रसानाम्' इत्यादिप्रायैर्गुणैश्चर्चि-
तामर्पितवान्प्रयोगतोऽर्थतश्च संक्रमितवान् । खलु प्रसिद्धौ वाक्यभूषायां वा ।
वाचोयुक्तिर्वचनरचनम् । 'वाग्दिक्पश्यञ्चो युक्तिर्दण्डहरेषु' इति षष्ठ्यलुक् ।
संप्रति स्वकौशलबलेन सगर्वमाह—ये नामेत्यादि । इह तावत्त्रिविधाः पु-
रुषाः । केचिदज्ञा एव । केचिदद्वैतमतमग्नमनसः । काव्यरसविरसाः । इतरे सहृ-
यहृदयामोदिकाव्यभव्यरसभररसिकाः । तत्राद्यान्प्रत्याह—ये केचिदज्ञा नोऽस्मा-
कमिह प्रबन्धेऽवज्ञामवधीरणं प्रथयन्ति ख्यापयन्ति । नाम संभावनायाम् ।
संभाव्यत इव न तु वास्तवमित्यर्थः । ते किमपि किंचिदल्पं जानन्ति । तान्प्रति
ताँल्लक्षीकृत्य मम नैष यत्नः । न हि बधिरे गीयते । यद्वा किंशब्द आक्षेपे ।
ते किं जानन्ति । किंतु न जानन्तीत्यर्थः । द्वितीयान्प्रत्याह—ये नाम निश्चये ।
वैषयिकसुखविमुखा मुमुक्षव इहावधीरणामाचरन्ति ते किमपि वाङ्मनसागोचरं
परं ब्रह्म जानन्ति । ते नमस्यास्तान्प्रति मम नैष यत्नः । न हि सम्राजमधिकृत्य
कौपीनं सूत्र्यत इति भावः । अन्त्यान्प्रत्याह—मम समानधर्मा तुल्यगुणः
कोऽपि जन उत्पत्स्यते जन्माप्स्यत्यस्ति विद्यते वा तं प्रत्येव यत्न इति भावः ।
इहाल्पज्ञत्वेन साधर्म्यमनौद्धत्याय । बहुज्ञत्वेन साधर्म्यं कदर्थदुर्जनविवर्जनायेत्यु-
इति श्लोकः ॥ ८ ॥ अपि च 'यद्वेदाध्ययनम्-' इति
श्लोकः ॥ १० ॥ १ अतो यदस्माकमर्पितं प्रियसहृदात्रभवता
भवभूतिनाम्ना प्रकरणं स्वकृतिर्मालतीमाधवं नाम त-
मयत्र विवक्षा । अथेदानीमनुत्पन्नस्य कथमुत्पादोऽत्रानुपलब्धस्य वा कथमुप-
लम्भ इत्युभययोग्यतामाह - यतः कालोऽयं निरवधिर्विगतावसानः । विपुला
महती च पृथ्वी भूमिः । तथा च तस्येदानीमनुत्पन्नस्य कालान्तर उत्पाद इहा-
नुपलब्धस्य देशान्तर उपलम्भश्च स्यादिति भावः । इह प्रथमार्धे बहुत्वेन
प्रयोगो द्वितीयार्धे एकत्वेन प्रयोगश्च न दोषः । भिन्नवाक्यार्थत्वात् । एकवा-
क्यार्थत्वे तादृक्प्रयोगस्यायोग्यतया दोषत्वात् । तथैव व्युत्पत्तेरित्यवधेयम् ।
यद्वा अवज्ञाप्रथमावसरेऽहंकारेणात्मनो गौरवाद्बहुत्वं निजसमतावसरे शान्त्या-
त्मन्येकत्वम् । यद्वा जात्यभिप्रायमेकवचनम् ॥ ८ ॥ अधुना निजगुणगरिमोप-
दर्शनेन निजग्रन्थे विदग्धमादरमाह- यद्वेदेत्यादि । यत्र खल्वियं वाचोयुक्ति-
रित्यत्राप्यनुषज्यते । अद्वैतप्रतिपादको वेदभाग उपनिषत्तज्ज्ञानम् । योगः पात-
ञ्जलशास्त्रम् । तयोरध्ययनज्ञानयोः कथनेन किम् । अपि तु न किमपीत्यर्थः ।
यतस्ततो वेदाध्ययनादेर्नाटके कश्चिद्गुणो नास्ति । तेषां नाटकेऽनुपयोगात् । तत
इति ल्यब्लोपे पञ्चमी । तान्प्राप्य नाटके न कश्चिद्गुण इत्यर्थः । वयं सर्वमेव
विद्मः, अनङ्गतया पुनस्तदत्र न निबद्धमिति भावः । तर्ह्यत्र कवेर्वेदादिज्ञानज्ञापनं
किमर्थमत आह- यदिति । वचसां यत्प्रौढत्वं वाक्यार्थे पदं पदार्थे वाक्यं
तत्कृतिः । यथा न दैवीयं किं तु मानुषीयर्थे निमेषवती । चन्द्रवदित्यर्थे 'नयन-
समुत्थं ज्योतिरत्रेः' इति । यदाह दण्डी-'पदार्थे वाक्यवचनं वाक्यार्थे च
पदाभिधा । प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥' इति । यच्च वचसामु-
दारता विकटत्वं यस्मिन्सति पदानि जनो नृत्यन्तीवेति मन्यते । यद्वा, उदार-
तालंकारादिदोषशून्यत्वम् । यद्वा, उदारता गुणभेदः । यदाह दण्डी -'उत्कर्ष-
वान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदारमाश्रयं तेन सनाथा काव्यपद्धतिः ॥'
इति । यच्चार्थतो गौरवमनर्घ्यार्थता । यद्वा स्वल्पं वचनमर्थसार्थप्रसरसमर्थ-
मित्यर्थः । तद्यदि नाटकेऽस्ति ततस्तदेव पाण्डित्यवैदग्ध्ययोर्गमकं बोधकम् ।
पण्डितो वेदाध्ययनादिकुशलस्तस्य भावः पाण्डित्यम् । वैदग्ध्यं रसादियोगि-
प्रबन्धबन्धनकौशलम् । अनेन ग्रन्थे सर्वगुणवत्त्वमुक्तम् । तत्कर्तृत्वेनात्मनः
सर्वपथीनमतिमहत्त्वमप्युक्तम् - नाटक इति । ननु नाटक इत्ययुक्तम् । अस्य
प्रकरणत्वात् । प्रकरणनाटकयोर्भेदात् । मैवम् । नट नृत्तावित्यस्य घञि स्वार्थे
कनि नाटकमिति । तथा च नाटके नाट्य इत्यर्थात् ॥ १० ॥' भूमिका व्याज-
प्रवेशः । यदाह भरतः- 'अन्य रूपैर्यदन्यस्य प्रवेशः स तु भूमिका ।' इति ।
वर्गे भवा वर्याः । नटमेलकस्था इत्यर्थः । सौगतस्य बौद्धस्य । जगतपरित्रा-
१ अत्रापि नवमत्वे दशमत्वं त्रिपुरारिकृतटीकानुक्रमेण संख्यासंमेलनायैव ।
मालतीमाधवटीका । ९
देव तत्र भवतः कालप्रियनाथस्य पुरतः प्रयोगेण प्र-
स्थापयितुमुद्यताः । तत्सर्वे कुशीलवाः संगीतप्रयो-
गेण मत्स्मीहितसंपादनाय प्रवर्तन्ताम् । नटः—
(स्मृत्वा ।) एवं क्रियते युष्मदादेशः । किंतु या यस्य
युज्यते भूमिका तां खलु तथैव भावेन सर्वे वर्ग्याः
पाठिताः । सौगतजरत्परिव्राजिकायास्तु कामन्दक्याः
प्रथमां भूमिकां भाव एवाधीते, तदन्तेवासिन्यास्त्व-
हमवलोकितायाः । सूत्रधारः—ततः किम् ।
नटः—ततः प्रकरणनायकस्य मालतीवल्लभस्य माध-
वस्य वर्णिकापरिग्रहः कथम् । सूत्रधारः—मकर-
न्दकलहंसप्रवेशावसरे तत्सुविहितम् । नटः—तेन
जिका वृद्धा भिक्षुकी । एतादृशी दौत्ये प्रशस्ता । यदाह भरतः—'विधवेक्षणिका
दासी भिक्षुकी शिल्पकारिका । प्रविश्य चाशु विश्वासं दूतीकार्यं च विन्दति ॥'
इति । वृद्धत्वं चास्या रूपशून्यसर्वदृश्यलप्रगल्भत्वसूचकम् । यदाह—'लज्जितं
नार्थवन्तं वा रूपिणं वा तथातुरम् । दूतं वाप्यथ वा दूतीं न तु कुर्यात्कथंचन ॥'
अन्तेवासिनी निकटशिष्या । अहं भूमिकामधीय इत्यन्वयः ॥ ततः किमिति ।
एतावदुक्त्वा किमिति विरतोऽसीत्यर्थः । प्रकरणलक्षणं भरते—'आत्मशक्त्या क-
विर्यत्र कथां नायकमेव च । औत्पत्तिकं प्रकुरुते तद्धि प्रकरणं विदुः ॥' इदं च
शुद्धम् । यदाह भरतः—'द्विधा प्रकरणं तन्तु शुद्धं संकीर्णमेव च । कुलस्त्रीर-
चितं शुद्धं संकीर्णं वेश्यया कृतम्' ॥ अत्र नाटके यादशो नियमस्तथादृशः । नाय-
कलक्षणं भरते—'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचि-
र्वाग्मी रूढवंशः स्थिरो युवा ॥ धृत्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो
दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ विनयः शीलसंपत्तिर्मधुरः प्रियदर्शनः ।
त्यागः सर्वस्वदानं स्याद्दक्षः क्षिप्रकरो मतः ॥ प्रियंवदोऽनुत्कटवाक्सनेहो लो-
करञ्जकः । मितप्रस्तुतवाग्वाग्मी नित्यकर्मरतः शुचिः ॥ ख्यातवंशो रूढवंशः
षोडशात्रिंशको युवा । बाह्यजनःकर्मभिर्येश्च न चलः स स्थिरो मतः ॥ धृतिः सर्वेषु
या प्रीतिरुत्साहोऽग्लानिरेव च । स्मृतिः कालान्तरज्ञानं प्रज्ञा तीक्ष्णमतिर्मता ॥
कलाश्चात्र चतुःषष्टिर्मानश्चित्तसमुन्नतिः । शूरः संग्रामनिपुणो रूपवान्दृश्य उच्यते ॥
अतिप्रतापस्तेजस्वी शास्त्रचक्षुस्त्रयीपरः । आत्मवत्सर्वभूतानि यः पश्यति स धा-
र्मिकः ॥' इति । ननु मालतीवल्लभत्वं माधवस्य न योग्यं माधवेन वसन्तेन समं
वर्षाकालीनाया मालत्या जातेः सम्बन्धाभावात् । मैवम् । अपूर्वमेव हि पदार्थ-
सार्थं योगिनीप्रभावात्संपन्नमासाद्य सहृदयहृदयचमत्कारकारिणीं वैदग्धीमेव क-
२३ माल०
१० जगद्धरकृत
हि तन्नभोगादेवान्भवतः सामाजिकानुपासहे ।
सूत्रधारः—बाढम् । एषोऽस्मि कामन्दकी संवृत्तः ।
किरयमुत्प्रेक्षितवानित्यदोषः । माधव इति नाम्ना शृङ्गारमयतोक्ता । वसन्तस्य
शृङ्गारमयत्वात् शृङ्गारमयत्वेन विष्णुदैवतत्वमपि कटाक्षितम् । यदाह भरतः—
'शृङ्गारो विष्णुदैवतः' इति । अत एव श्यामलमपि वक्ष्यति कुवलयदळश्यामो-
ऽयमित्यादिना । 'श्यामो भवेत्तु शृङ्गारः' इत्यपि भरतः । अयममात्यत्वाद्धीरोदात्तो
नायकः । यदाह भरतः—'सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ' इति ॥
मालती नायिका । तल्लक्षणं भरते—'स्वान्यसाधारणस्त्रीति तद्गुणा नायिका
त्रिधा । स्वकीया तत्र वक्तव्या मुग्धा मध्या प्रगल्भिका ॥ शीलाजैवादिसंयुक्ता
कुटिला च पतिव्रता । लज्जावती चापरुषा निपुणा च
अंकः १ ] मालतीमाधवटीका । १५
नटः—अहमप्यवलोकिता । (इति परिक्रम्य निष्क्रान्तौ ।)
प्रस्तावना ।
पृ० प०
१० ५ ०नेपथ्ये कामन्दक्यवलोकिते प्र० ।
११ १ ०रभिमतः पाणिग्रहः स्यात्० । ५ ०चित्तविक्खेवी० ।
७ ईरिसे आआसे० ।
११ ८ तहिं उक्खणिड० । ९ णिउज्जिअदि ।
नीतिग्रन्थभेदस्तं वेत्तीति कामन्दकी । 'तदधीते' इत्यण्, ङीप् च । अनया ना-
नभ्युत्पत्त्या नीतिवेदिताबोधनेन प्रकृतसिद्धेर्हेतुतोक्ता ॥ तदन्तेवासिनी अवलो-
किता दृष्टिरिति कार्यसिद्धिदृष्टेरपि कार्यसिद्धिहेतुतोक्ता । तदुत्तेजनिकेति । निष्क्रा-
न्तौ । सूत्रधारनटाविति शेषः ॥ प्रस्तावनेति । निवृत्तेति शेषः । एतल्लक्षणं भ-
रते—'नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र
कुर्वते ॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता' इति । परिवृत्य पुनरागत्य ।
रक्ता पट्टिका लोहितपट्टिका नेपथ्यमलंकारो ययोस्ते ॥ अधुना कामन्दकी समस्तप्र-
करणोपयुक्तमुपक्षेपमाह—अपीत्यादि । यदाह—'काव्यार्थस्य समुत्पत्तिरुपक्षेप-
स्मृतो बुधैः' । इह तु मालतीमाधवयोर्विवाहनिर्वाहः काव्यार्थः । अपि नामे-
ति । नाम संभावनायाम् । तेन भवेदपीत्यर्थः । निश्चये वा नाम । तेन निश्चितमेव
भवेदित्यर्थः । कल्याणिनोरित्यनेनाशंसनीयकुशलतयानुग्राह्यत्वमुक्तम् । भूरिवसुर्मा-
लतीपिता । महाधनिककन्याया आवश्यकी वराकाङ्क्षेति नामतात्पर्यम् । देवरातो
माधवपिता । देववद्राति दत्ते । 'रा दाने' कर्तरि कः देवरातः । तथा च जनो
दातरि विवाह्यत इति महाधनिकवद्दान्यत्वप्रभुत्वाद्योगिनोऽनुरूप एव प्रायः पुत्र
इति वरे कन्याकाङ्क्षासूचनं नामानुनयेन । एवं च योग्ययोर्योग्य एव संबन्ध इति
भावः । पाणिग्रहो विवाहः । विवृण्वतेति । अपिरवधारणे । तेन वामकेनैव वा-
मेनैव चक्षुषा दाक्षिण्यमवलम्ब्यते । कीदृशेन । स्फुरता स्पन्दवताऽत एव कल्याणं
विवृण्वता सूचयता । स्त्रीणां वामाङ्गस्फुरणस्य शुभसूचकत्वात् । आन्तरङ्गेनेव मदी-
यचित्तवृत्तिज्ञेनेव । इवोत्प्रेक्षायाम् । 'उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृ-
शः' इति दण्डी । अथवापिविरोधे । वामेनापि प्रतिकूलेनापि दाक्षिण्यमानुकू-
ल्यमवलम्ब्यत इति विरुद्धमिदम् । वामक इति स्वार्थे कन् ॥ ११ ॥ अवलो-
किता । अत्र खलु निश्चये । चित्तविक्षेपोऽसदृश्याभिनिवेशः । चीरेण वस्त्र-
खण्डेन चीवरं, सौगतपरिव्राजकवासस्तदेव परिच्छदः परिकरो यस्यास्ताम् ।
पिण्डपातो नाम बौद्धानां भिक्षाभ्रमणेन भोजनम् । तन्मात्रेण प्राणयात्रा जीवनं
यस्यास्ताम् । ईदृशे विवाहकार्ये । इह पुरंध्रीणामेवाधिकारो न तु मवादृशी-
नामिति भावः । उत्खण्डित उन्मूलितः संसाररूपोऽवग्रहो मोक्षप्रतिबन्धो यत्र, *
१२ जगद्धरकृता [ अङ्कः १
पृ० प०
१२ १ ॰मैवं ब्रूहि । ६ अयि किं० यदेकत्र नो विद्या० । ॰भान्त-
वासिनां सा० । ७ ॰तदैव चास्म० ।
१३ ३ ॰तदो किंति० ।
१४ २ ॰णिरवेक्खदाए ल० । ८ श्रेयोऽप्यसा० ।
सः । यद्वा, उन्मूलितः संसाररूपोऽपकृष्टो ग्रहो यत्र सः ॥ कामन्दकी । मा
मैति । वीप्साऽत्यन्तनिषेधे । यन्मामित्यादि । स भवान्पूज्यो भूरिवसुर्यन्मां
विधेयविषये नियोज्यगोचरे नियुङ्क्ते नियोजयति तत्स्नेहस्य प्रीतेः फलम् । स ह्यस्माकं
प्रेमपात्रमिति भावः । असौ नियोगः प्रणयस्य प्रश्रयस्य सार उत्कर्षो निर्यासो वा ।
यदि मदीयैः प्राणैरथवा मदीयैस्तपोभिः सुहृदो मित्रस्याभिमतं वाञ्छितं कृत्यं
कार्यं घटेत तदा तत्कार्यं कृतं स्यात् । मत्प्राणादिभिरपि भवेदित्यर्थः । यद्वा सुहृदो-
ऽभिमतमिदं यदि घटेत निष्पद्येत तदा मदीयैः प्राणैस्तपोभिर्वा तत्कृत्यं कृतं स्या-
त् । अघटने तु सर्वमिदं व्यर्थमित्यर्थः । एतेनावश्यकर्तव्यतोक्ता । 'प्रणयः प्रेम्णि
विश्वासे याज्ञाप्रश्रययोरपि' इति विश्वः ॥ १२ ॥ भूरिवसोः स्वीकारबीजमेवंविध-
प्रश्रयोपपत्तिं चाह—किं नेत्यादि । न इति बहुवचनेन स्वभूरिवसुदेवरातानामु-
पादानम् । अस्मदिति । अस्माकं सौदामिन्याश्च प्रत्यक्षमित्यर्थः । अपत्यसं-
बन्धो विवाहः । सौदामिनीसमक्षमित्यनेन तस्या देवरातबन्धुतया नवमाङ्के मा-
धवप्राणत्राणकारणत्वमस्या नाम च सूचितम् । युक्तं चेदम् । 'नासूचितं विशे-
त्पात्रम्' इति भरतः । एवमन्यत्रापि सूचितस्यैव प्रवेशः । आन्वीक्षिकी न्या-
यशास्त्रम् । तत्र तर्कच्छलादिनिष्टङ्कनेन तदभ्यासान्माधवस्य चोरिकाविवाहे कौ-
शलमुक्तम् । श्रवणं पाठः । कुण्डिनपुरं विदर्भनृपराजधानी । प्रहिण्वता प्र-
स्थापयता । सुविहितं शोभनं कृतम् । अपत्येत्यादि । देवरातेन पुत्रं प्रहिण्व-
तापत्यसंबन्धविधिप्रतिज्ञा विवाहप्रतिज्ञा प्रियस्य सुहृदः प्रीतिमित्रस्य भूरिवसोः ।
सुहृदः शोभनचित्तस्य वा स्मृतिं स्मरणं नीता प्रापिता । अलोकसामान्यगुणो
लोकविलक्षणगुणः पुत्रः प्ररोचनार्थं प्रवृत्तिपाटवार्थं स्फुटीकृतश्च । प्ररोचनस्यैव
सर्वकार्यसिद्धयङ्गत्वात्तत्करणम् ॥ १३ ॥ अवलोकिता । अत्रामात्यो भूरिवसुः ।
माधवस्य कृत इति शेषः । प्रतिपादयति ददाति । चोरिकया विवाहस्य धर्म-
शास्त्रे निषेधादिति भावः ॥ तामित्यादि । नन्दननामा राज्ञोऽन्तःपुरसचिवो
नृपद्वारा तां याचते । तत्र साक्षान्निषेधः कोपाय राज्ञः । अयं तु मन्द्वारा संयो-
जनात्मक उपायः शिवः । परिणामसुख्स इत्यर्थः । आर्या छन्दः । स्यान्नर्मसचिवः
सोऽयं कुपितस्त्रीप्रसाधकः । नन्दयतीति नन्दनः । एतेनानन्दजनकत्वादन्तः-
पुरसचिवता युक्तेति नामतात्पर्यम् ॥ १४ ॥ कामन्दकी । संवरणं संगोपनम् ।
विशेषत इत्यादि । तेन भूरिवसुना तयोर्वत्सयोर्विशेषेण स्वमतिनिह्नवः
कार्यो निजज्ञानगोपनं कर्तव्यम् । बालत्वाच्छिशुत्वेन । प्रकाशिताभिप्राययोः ।
अङ्कः १ ] मालतीमाधवटीका । १३
पृ० ५०
१५ २ ॰कारप्रगुणरम॰ । ४ ॰म्भिसंधाय॰ । तेण तेण
वअणोवण्णासेण॰ ।
१६ ३ बाढम् । जदो ताए वि अत्तणो विणोदणिमित्तं
मा हव॰ । ४ ॰अज्ज णिहिदं॰ । ॰यतो माधवा॰ ।
७ ॰तीर्थेन घटते । ८ ॰उपोद्धातेन ।
१७ २ ॰म्हूसवं मअरन्दुज्जाणं अज्ज पभादे अ॰ ।
यथा तावपि प्रकृतं न जानीतस्तथा कृतं तेनेति भावः । युक्तं चादः । 'नादेशे
नाकाले नापरिपक्केन्द्रिये न गुणहीने । कथयति हि कथां स्वगतां न तथास्य कथा
भवति वन्ध्या ॥' इति नीतेः ॥ १५ ॥ अनुरागेत्यादि । तयोरनुरागप्रवाहः
सर्वलोकविदितः सन्नस्माकम् 'श्रेयानस्ति' इति वा पाठः । श्रेयो लक्ष्मी । यत एवं सति
राजा नन्दनक्षोभौ वञ्चनीयौ तयोरन्योन्यानुरागादेव परिणयो वृत्तो न मया कारित
इति वक्तव्यमेवेति भावः । सार्वलौकिक इत्यत्र सर्वलोकाट्ठञ् । अन्योन्यानुरागेण
गान्धर्वविवाहोऽपि सूचितः ॥ १६ ॥ बहिरित्यादि । विद्वान्त्सुबुद्धिरेकः श्रे-
ष्ठोऽद्वितीयो वा सकलं जनं कपटैरभिसंधाय वञ्चयित्वा स्वानर्थान्स्वप्रयोजनानि
संपादयति । मौनमभाषणं भजते च । विधिनिषेधपरं वचो न वदतीत्यर्थः । अत
एव तटस्थ उदासीन इवानभिव्यक्तव्यापार इत्यर्थः । कथम् । सर्वाकारेणेङ्गितादिना
स्वभावसुन्दरं यथा भवति तथा बहिः प्रकटं व्यवहरन्नपि सूक्ष्माण्यपि पराभ्यूह्यस्था-
नानि परस्य तर्कस्थानानि स्थगयति पिदधाति । अपिर्भिन्नक्रमः । 'अभिसंधिर्वञ्च-
नार्थः' इति धातुसंग्रहः । 'केवलश्रेष्ठयोरेकः' इति धरणिः ॥ १७ ॥ अवलोकिता ।
अत्रोपन्यासो व्याजेन कार्योद्भेदः । राजमार्गगेत्यनेन सर्वसाधारण्यान्मा-
धवस्यानौद्धत्यमद्वितीयवेद्यता च सूचिता । संचारणं च तद्दर्शनेन मालत्या
अनुरागायेति भावः । अत्र कामन्दक्यावलोकितायामेवमुक्तत्वात्कथं तव वचना-
दिति घटत इति न देश्यम् । प्राक्तैस्तपोभिरित्यादिना तदभिधानात् ॥ कामन्दकी ।
धात्रेय्युपमातृसुता । एतेन बाल्यात्प्रभृति सकलचेष्टावेदित्वं ध्वनितम् । तथा च
लवङ्गिका मालतीगतं यत्कथयति तत्प्रमाणमेवेत्येवकारव्यङ्ग्यम् । अनेनास्याः स-
खीत्वमप्युक्तम् । यदाह भरतः—'काष्ठदासी च धात्रेयी प्रतिवेश्या च शिल्पिका ।
बाला प्रव्रजिता चेति नायिकानां सखीजनः ॥' इति ॥ न इति बहुवचनेनात्मनि
लवङ्गिकाहृदयजागरूकबहुमानेन वञ्चकतानिरासः सूचितः । भूय इत्यादि ।
मालत्यङ्गकैस्साम्यति खिद्यत इति कथितमेव लवङ्गिकयेत्यन्वयः । अङ्गकैरित्यत्रा-
न्त्यार्थे कन् । कल्पता मृदुत्वेन । बहुवचनात्सर्वाङ्गमुक्तम् । तथा च मृदुभिः सर्वा-
ङ्गैरित्यर्थः । कीदृशैः । तं माधवं दृष्ट्वा दृष्ट्वा पुनः पुनरवलोक्य । गाढोत्कण्ठया ह-
ठाकाङ्क्षया लुलितलुलितैरतिम्लानकान्तिभिः। 'ललितलुलितैः' इति पाठे पूर्वं ललितै- *
१४ मालतीमाधवम् [ अङ्कः १
पृ० प०
१८ १ ॰दुराणणवासिणो॰ ।
” ७ ॰पिअं किदं होदि ।
” ११ ॰मालती । तन्नि॰ । १३ ॰रूपः सूत्रयितव्यः ।
रम्यैरधुना लुलितैर्म्लानैरित्यर्थः । कीदृशम् । सविधनगरीरथ्यया मालतीगृहनिकटरा-
जमार्गेण भूयो भूयः पुनः पुनः पर्यटन्तं गच्छन्तम् । इह राजमार्गोपन्यासेन माधव-
स्य निःशङ्कः संचारो मालत्याश्च तद्दर्शनेन परवितर्काभावः सूचितः । गमने पौनः-
पुन्येन दर्शने प्रति दार्ढ्यमुक्तम् । दर्शनेन च पौनःपुन्येन तस्या उत्कण्ठातिशय
उक्तः । यद्वा प्रथमवीप्सया दर्शनं दृष्टानुवृत्त्या प्रथमं रम्यवस्तुचमत्कारेण तत
उद्भिद्यमानानुरोगनवाङ्कुरेण नेत्रप्रीतिर्युज्यते । द्वितीयवीप्सया सहचरीभिरप्यज्ञा
[अङ्क १] मालतीमाधवटीका । ३५
पृ० ५०
१९ ३ वरीयानन्यो० ।
स्तनेति शेषः ॥ अवलोकिता । 'कौतुकं तु कुतूहलम्' इत्यमरः । मदनसहोत्प-
त्तेन वसन्तकालः सूचितः । तस्य च वैवाहिकत्वम् । यदाह—'शरत्सङ्क्रामविषये
विवाहे ज्येष्ठमाधवौ' इति । किल प्रसिद्धौ । इति हेतौ । अनुप्रेषणे तत्र किल्बिषा-
देर्हेतुत्वम् । अन्योन्यदर्शनेनोभयानुरागे विवाहनिर्वाहः । प्रिये प्रीतिविषये कार्येऽभि-
योग आसङ्गः । अत्र कपालमतं महाव्रतम् । कुत इत्यादिना श्मशानाङ्गसूचनम् ॥
कामन्दकी । किल प्रसिद्धौ । विविधा नानारूपा जीवा मानुषादय उपहारा
बलयः प्रिया यस्याः सा अनेन मालत्युपहारः सूचितः । आत्मनिरपेक्षं कर्म
साहसम्, तेन वर्तन्ते ते साहसिक़ाः । प्रवादः प्रसिद्धिः । इह प्रियेत्यस्यानन्तरमिति
पदं देयमन्यथा पूर्वापरानन्वयात् । तथा च प्रियेत्यनेनाकारेण साहसिकानां प्रवाद
इत्यर्थः । अत एव वाक्यार्थकर्मादावितेरध्याहारः ॥ अवलोकिता । इह खलु
प्रसिद्धौ । तस्याश्चामुण्डाया नातिदूरेणात्यासन्ने वस्तुं शीलं यस्य । तस्य एतेन देवकु-
लस्य लोकसंकुलतया किंचिद्विप्रकृष्टं साधकसंस्थानमुक्तम् । साधकस्य योगिनः
मुण्डधारिणः कापालिकस्य । अघोरघण्टेति । 'कापालिकास्तु घण्टान्तनामानः
समुदाहृताः ।' भरतः । अघोरोऽविमृश्यकारीति नामव्युत्पत्तिः । अनुसंध्यं
संध्यायाम् । प्रवृत्तिर्वार्ता । सर्वमघोरघण्टनाशनमाधवरक्षणादिकम् । अत्रैतेन
कापालिकादेः कथनेनालं निष्फलमधुनानुपयोगात् ॥ अवलोकिता । बालमिति
भावप्रधानम् । तेन बाल्यन्मित्रमित्यर्थः । समुद्रहति विवहति ॥ कामन्दकी । बु-
द्धरक्षितेत्यनेन भिक्षुकीत्वं सूचितम् । अत एव दौत्ये नियुक्ता ॥ अवलोकिता ।
उत्तिष्ठेत्यत्रोध्वैंकर्मत्वान्न तद् ॥ कामन्दकी । अत्युदात्ता गभीरा प्रतिपन्नार्था
संवादिनी प्रकृतिर्यस्याः सा तथा । निसृष्टार्थेति । नायिकाया नायकस्य वा मनो-
रथं ज्ञात्वा स्वमत्या कार्यं साधयति सा निसृष्टार्था दूती तस्याः कल्पो व्यापारः ।
प्रस्तावनीय इत्यर्थः । दूती च विविधा । यदा—'निसृष्टार्था मितार्था च तथा शा-
सनहारिका । सामर्थ्योत्पादिता हीना दूती तु विविधा मता ॥' इति । शरदि-
त्यादि । सा मालती तं माधवं नन्दयतु प्रीणातु । यथा शरच्चन्द्रिका कुमुदं नन्द-
यति । यथा चन्द्रिकाकुमुदयोर्नित्यं प्रीतिस्तथा तयोरप्यस्त्विति भावः । कीदृशम् ।
कान्तं रम्यम् । सुजातं शोभनजन्मानम् । शोभनता च गुणवत्त्वेन । यद्वा कान्त-
मन्यस्त्रीभोगचिह्नशून्यम् । यदाह भरतः—'अन्यस्त्रीभोगसंभूतं चिह्नं यस्य न
विद्यते । देहे वाप्यधरे वापि स कान्त इति कीर्तितः ॥' सा कीदृशी । कल्याणी
निरवद्या । स च युवा कल्याणी विवाहकल्याणयोगी संख्यां प्राप्य कृतकृत्यः कृ-
तार्थो भवतु । युवेत्यनेन कन्यायां मदनमदोद्दीपकतायोग्यत्वमुक्तम् । एवं सति वि-
धातुः प्रयत्नः सफलो भवतु मनोहरश्च भूपनन्दनाविरोधेन सर्वावर्जकोऽस्त्वित्यर्थः ।
कीदृशः । अन्योन्यं कामिनोः प्रगुणा अनुरूपा ये गुणास्तेषां निर्माणे कुशलोऽत एव
वरीयाञ्छेष्ठो गरीयान्गुरुर्वा । यद्वा अन्योयं प्रगुणा उत्कृष्टा ये गुणास्तेषां निर्माणे