मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 97, कुल 377 में से
संदर्भ में पढ़ेंतृतीओऽङ्कः । ९९
(प्रविश्य संभ्रान्ता †)
बुद्धरक्षिता—परित्ताअध । एसा णो पिअसही अमच्चणन्द-
णस्स भइणी मदअन्तिआ एदिणा दुट्ठसद्दूलेण हतविद्वाविअपरि-
अणा अभिभविअदि ।
मालती—सहि लवङ्गिए, अहो महन्तो प्मादो ।
माधवः—बुद्धरक्षिते, क्वासौ ।
मालती—(सहर्षसाध्वसम् । स्वगतम् ।) अअहे, एसो वि एत्थ एव्व ।
माधवः—(स्वगतम् ।) हन्त, पुण्यवानस्मि यदहमतर्कितोपनत-
दर्शनोल्लसितयानया ।
अविरलमिव दाम्ना पौण्डरीकेण नद्धः
स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
१. परित्रायध्वम् । एषा नः प्रियसख्यमात्यनन्दनस्य भगिनी मदयन्ति-
कैतेन दुष्टशार्दूलेन हतविद्रावितपरिजनाभिभूयते ।
२. सखि लवङ्गिके, अहो महान्प्रमादः ।
३. अहो, एषोऽप्यत्रैव ।
भीषितनष्टनिष्ठापिता' इति पाठः । तत्र पूर्वं भीषिताः, पश्चान्नष्टा दृष्टिविषयमतीताः,
पश्चान्निष्ठापिता निर्भयस्थानं प्रापिता इति व्याख्येयम् । तथा कठोरनखरकर्परद-
लिताकृष्टजन्तुगात्रावयवप्रवृत्तरक्तकर्दमितगतिपथो दुष्टशार्दूलः कृतान्तलीलायितं
करोति । तत्परिरक्षत यथाशक्त्यात्मनो जीवितमिति ॥ बुद्धरक्षिता । परित्रा-
यध्वम् । एषा नः प्रियसख्यमात्यनन्दनस्य भगिनी मदयन्तिकैतेन दुष्टशार्दूलेन
हतविद्रावितपरिजनाभिभूयते । मालती । सखि लवङ्गिके, अहो महान्प्रमादः ।
चिरमत्र विजने वनेऽस्माभिरेकाकिनीभिः स्थितमनुचितं कृतम् । इदानीं कः
परित्रातेति भावः ॥ माधवः । असौ कुत्र वर्तते । इदानीमेव निहत्य भवत्सखीं
मोचयिष्यामीत्यर्थः ॥ मालती । सहर्षसाध्वसमिति । लवङ्गिकानिवेदितस्वकीय-
विरहवेदना चित्रफलकबकुलावलीवृत्तान्तः सर्वोऽप्यत्रैव वर्तमानेनाधिगत इति
हर्षः, विविक्ते मामेनं च दृष्ट्वा कश्चित्तातस्य निवेदयिष्यतीति साध्वसं च अहाहे
अहो प्रमादः । 'चिन्तायां सप्रमादायामहाहे इति कल्पितम् । शब्दरूपं विशे-
षेण प्रयोक्तव्यं प्रयोक्तृभिः।' इति वचनात् । एषोऽप्यत्रैव । माधवः । यदित्यादि
श्लोकोपस्कारः । अविरलेति । अतर्कितोपनतमशङ्कितमेव हठादुपागतं यद्दर्शनं
मद्विषयं तेनोल्लसितयाश्चर्यहर्षपरवशतयानया दृष्ट्या स्फारितेन विस्तारितेन । 'आ-
यतं विस्फुरत्तारं विस्फारितमुदाहृतम्' इति लक्षणात् । चक्षुषा करणेन पौण्डरीकेण
सिताम्भोजनिर्मितेन दाम्नाविरलं नद्धो बद्ध इव । अहमिति शेषः । दामत्वं च कटा-