मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 91, कुल 377 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ८५
दि त्ति जाणामि । जेण पप्फुरिदरदणच्छदुज्ज्वलन्तदन्तमोत्त्तिअपन्ति-
कन्तिसविसेससोहिअं णिरन्तरुल्लसिअपुलअपक्खलकपोलघोलन्तसं-
तदानन्दबाहत्थवं ईसविस्मणिप्पन्दमन्थरतारउत्तानमसिणमुउला-
अन्तणेत्तणीलुप्पलं अविरलुन्भिण्णसेजलबिन्दुसुन्दरणिडालचन्दले-
हामणोहरं मुद्धमुहपुण्डरीअं उवहन्ती विअद्धसहअरीचित्तसंसइदको-
मारभावा होइ । किं अ, उद्दामससिमऊहणिउरुम्बचुम्बिअपउत्त-
णिस्सन्दचन्दमणिहारधारिणी पउरकप्पूरसविसेससिसिरचन्दणरस-
च्छडासारणिअरदन्तुरिदबालकदलीपत्तसअणा पादसंवाहणादिवावा-
रतुवरन्तसहअरीसत्थविरइदवणीदकमलिणीदलजलहद्धालउन्ता उ-
ण्णिद्धा एव रअणीओ गमेइ । कहं वि उवलद्धणिद्धासुहा पक्खालिद्-
दिनी शीतलायत इति जानामि । येन प्रस्फुरितरदनच्छदोज्वलद्दन्तभौक्तिक-
पङ्क्तिकान्तिविशेषशोभितं निरन्तरोल्लसितपुलकपक्ष्मलकपोलघूर्णमानसंतता-
नन्दबाष्पस्तबकमीषद्विषमनिष्पन्दमन्थरतारोत्तानमसृणमुकुलायमानेत्रनीलो-
त्पलमविरलोद्भिन्नस्वेदजलबिन्दुसुन्दरनिटिलचन्द्ररेखामनोहरं मुग्धमुखपुण्डरी-
कमुद्वहन्ती विदग्धसहचरीचित्तसंशयितकौमारभावा भवति । किं च उ-
द्दामशशिमयूखनिकुरुम्बचुम्बितप्रवृत्तनिष्यन्दचन्द्रमणिहारधारिणी प्रचुरकर्पू-
रसविशेषशिशिरचन्दनरसच्छटासारनिकरदन्तुरितबालकदलीपत्रशयना पादसं-
वाहनादिव्यापारत्वरमाणसहचरीसार्थविरचितोपनीतकलिनीदलजलार्द्रतालवृ-
न्तोन्निद्रैव रजनीर्गमयति । कथमप्युपलब्धनिद्रासुखा प्रक्षालितपादपल्लवोद्गम-
जानामि । येन प्रस्फुरितरदनच्छदोज्वलद्दन्तभौक्तिकपङ्क्तिकान्तिविशेषशोभितं
निरन्तरोल्लसितपुलकपक्ष्मलकपोलघूर्णमानसंततानन्दबाष्पस्तबकम् । 'बाहघेवम्'
इति पाठे घेवो (?) बिन्दुः । ईषद्विषमनिष्पन्दमन्थरतारोत्तानमसृणमुकुलायमान-
नेत्रनीलोत्पलमविरलोद्भिन्नस्वेदजलबिन्दुसुन्दरनिटिलचन्द्ररेखामनोहरम् । नि-
टिलो ललाटः । मुग्धमुखपुण्डरीकमुद्वहन्ती विदग्धसहचरीचित्तसंशयितकौमार-
भावा भवति । येन कारणेन दन्तच्छदस्फुरणरोमाञ्चानन्दबाष्पटग्विकारविशेषस्वे-
दप्रभृतिभिः संभोगचिह्नैर्विदग्धसखीनां चित्ते संशयविषयीकृतः कुमारीभावो यस्याः
सा । कथमियं कुमार्यपि विदग्धनायकोपभुक्तेव संभोगचिह्नालंकृतेत्येवं संदिह्य-
माना भवति, तेन कारणेन हृदयनिहितवल्लभनिर्माणसंभोगसौहित्यनिर्वापितेयमिति
जानामीति योज्यम् । एतत्सर्वमस्माभिः 'नीवीबन्ध-' इत्यादावेव व्याख्यातमिति
नेह प्रतन्यते । किं च, उद्दामशशिमयूखनिकुरुम्बचुम्बितप्रवृत्तनिष्यन्दचन्द्रमणिहा-
रधारिणी प्रचुरकर्पूरसविशेषशिशिरचन्दनरसच्छटासारनिकरदन्तुरितबालकदली-
पत्रशयना पादसंवाहनादिव्यापारत्वरमाणसहचरीसार्थविरचितोपनीतकमलिनी-