मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 88, कुल 377 में से
संदर्भ में पढ़ें८२ मालतीमाधवे
कामन्दकी — यतस्तेन जीवितादुद्विजमानेन दुष्करमपि न किं-
चिन्न क्रियते । तथा हि ।
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते
मार्गे गात्रं क्षिपति बकुलामोदगर्भेस्य वायोः ।
दावप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय-
स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥१२॥
मालती — (स्वगतम् ।) ऐवं दुक्करं करेदि सो ।
कामन्दकी — तदेवं प्रकृत्या सुकुमारः कुमारः कदाचिदप्य-
न्यत्रापरिक्लिष्टपूर्वस्तपस्वी । यतः शक्यमनेन मरणमप्यनुभवितुम् ।
१. एवं दुष्करं करोति सः
उपन्यासशुद्ध्यादिकं किमाश्चर्यमित्यर्थः ॥ ११ ॥ कामन्दकी — यत इति ।
जीवितादुद्विजमानेन लया विना जीवनमशक्यमिति तत्रोद्वेगवता विरहिजनस्य
दुष्करमपि न किंचिन्न क्रियत इति । किंतु सर्वमपि जीवितद्वेषिणा तेन क्रियत
एवेत्यर्थः । तदेवाह — तथा हि । धत्त इति । मुकुलिनी कोरकिते कोरकाणा-
मेव तीक्ष्णाग्रसरसायकत्वेन मन्मथशरधीभूते । रणत्कोकिल इत्यनेन कंदर्पसैन्य-
कलकलायमानपिककुलालापवाचालतया यावच्छब्दः श्रूयते तावत्संनिहितप्रदेश-
गमनमप्यशक्यं किमुत दर्शनमित्युक्तम् । तस्मिन्बालतया मनोहरे सहकारे वृक्ष-
विशेषे दृष्टिविषसर्प इव चक्षुर्धत्ते । भवितव्यं भवत्विति दृष्टिं निपातयतीत्यर्थः । किं
च केसरकुसुमपरिमलमिलितस्य वायोश्चन्दनाचलमन्दसमीररणस्य मार्गे समरसमय-
समापतन्नाराचधारासंपातसंनिहितशत्राववस्थितप्रदेश इव गात्रं क्षिपति । किम-
नेन दुःखानुभवनिर्देयशरीरेणेति सङ्कृतंपरामृश्यत इति । तथा तापप्रशमनार्थं
परिजनस्थापितार्द्रकमलिनीपत्रमात्राप्रावरणः । ताम्यन्ती ग्लानिमुपयान्ती मूर्तिर्य-
स्यासौ । केनापि शिशिरोपचारेणानिर्वापणीयोऽयं तापस्तदद्य दवदहनज्वालासं-
क्लेश एव निर्वापणौषधम् 'उष्णमुष्णेन शाम्यति' इति न्यायादित्येवं झटिति शरीर-
त्यागसाधकतमत्वेन तत्कालापेक्षिते दावे प्रेम्णा पक्षपातेन विरहिजनदावानल-
ज्वालायामानांश्चन्द्रपादान्मृत्यवे तत्क्षणप्राणनिर्गमनाय श्रयति । तदेवमनपेक्षितजी-
वनोऽयमतिदुष्करं कुर्वन्नपि साहसं त्वामेव सकलविषानलादिसंस्तम्भनौषधीमन-
वरतमन्तःकरणे धारयन्नमङ्गलशङ्काभाजनं भवतीत्यर्थः । अत्रैक